62051: तवै चान्तश्च युगपत्

Padacheda: तवै | S | | | 1

च | S | 0 | 0 |

अन्तः | S | 1 | 1 |

च | S | 0 | 0 |

युगपत् | S | 0 | 0 |

Sutrartha


Vasu English Summary

An immediately preceding गति – गतिश्च (1.4.60), retains its original accent before an Infinitive in तवै – कृत्यार्थे तवैकेन्केन्यत्वनः (3.4.14), but whereby simultaneously the final has the acute as well.

Vasu English Translation

An immediately preceding गति – गतिश्च (1.4.60), retains its original accent before an Infinitive in तवै – कृत्यार्थे तवैकेन्केन्यत्वनः (3.4.14), but whereby simultaneously the final has the acute as well. Thus अ꣡न्वेतवै꣡, प꣡रिस्तरितवै꣡, प꣡रिपातवै꣡, अभि꣡चारितवै ॥ All upasargas have acute on the first except ‘abhi’: which therefore has acute on the final. ( Phit Sutra IV. 13) which declares उपसर्गा आद्युदात्ता अभिवर्जम् ॥ This debars कृत् accent (6.2.139) and is an exception to the rule that in a single word, a single syllable only has acute.

Kashika

तवैप्रत्ययस्यान्त उदात्तो भवति गतिश्चानन्तरः प्रकृतिस्वर इति एतदुभयं युगपद् भवति। अन्वे॑त॒वै (तै० सं० १.४.४५.१)। परि॑स्तरित॒वै। परि॑पात॒वै। त॑स्मा॒त् पि॒ता॑ नाभिच॑रित॒वै। उपसर्गा आद्युदात्ताः, अभिवर्जम् (फिट् सू० ८०,८१) इत्यभिरन्तोदात्तः। कृत्स्वरापवादो योगः॥

Siddhanta Kaumudi

तवैप्रत्ययान्तस्यान्त उदात्तो गतिश्चानन्तरः प्रकृत्या युगपच्चैतदुभयं स्यात् । अन्वेतवा उ (अन्वे॑त॒वा उ॑) । कृत्स्वरापवादः ॥

Nyaas

अन्त उदात्तो भवति इति। कथं पुनरुदात्तो भवतीत्येषो लभ्यते, नेहोदात्तग्रहणमस्ति? न ह्यत्रापूर्व एव स्वरो विधीयते, किं तर्हि? गतिकारकोपपदात् कृत् (6.2.139) इति प्रकृतिभावेनादेर्यः स्वरः प्राप्नोति न एव, तत्? कथं प्रकृत्येति वर्तते? तत्रैवमभिसम्बन्धः क्रियते -तवापरत्ययान्तस्य यः प्राप्नोति सोऽन्त्यस्य भवतीति। स चोदात्त एवेति समाथ्र्यादुदात्तो लभ्यते। युगपद्ग्रहणं पर्यायनिवृत्त्यर्थम्। अन्वेतवा [आम्वेतवै -काशिका] इति। अनुपूर्वादेतेः कृत्यार्थे `तवैकेन्केन्यत्वनः (3.4.14) इति तवैप्रत्ययः, गुणः। परिपातवा [परिपातवै -काशिका] इति। परिपूर्वात्? विबातेः। अभिचरितवा [अभिचरितवै -काशिका] इति। अभिपूर्वाच्चरतेः। अभिरन्तोदात्तः इति। प्रातिपदकस्वरेण।