62051: तवै चान्तश्च युगपत् ========================== **Padacheda:** तवै | S | | | 1 च | S | 0 | 0 | अन्तः | S | 1 | 1 | च | S | 0 | 0 | युगपत् | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- An immediately preceding गति -- गतिश्च (1.4.60), retains its original accent before an Infinitive in तवै -- कृत्यार्थे तवैकेन्केन्यत्वनः (3.4.14), but whereby simultaneously the final has the acute as well. Vasu English Translation ------------------------ An immediately preceding गति -- गतिश्च (1.4.60), retains its original accent before an Infinitive in तवै -- कृत्यार्थे तवैकेन्केन्यत्वनः (3.4.14), but whereby simultaneously the final has the acute as well. Thus अ꣡न्वेतवै꣡, प꣡रिस्तरितवै꣡, प꣡रिपातवै꣡, अभि꣡चारितवै ॥ All *upasargas* have acute on the first except '*abhi*': which therefore has acute on the final. ( *Phit* *Sutra* IV. 13) which declares उपसर्गा आद्युदात्ता अभिवर्जम् ॥ This debars कृत् accent (6.2.139) and is an exception to the rule that in a single word, a single syllable only has acute. Kashika ------- तवैप्रत्ययस्यान्त उदात्तो भवति गतिश्चानन्तरः प्रकृतिस्वर इति एतदुभयं युगपद् भवति। अन्वे॑त॒वै (तै० सं० १.४.४५.१)। परि॑स्तरित॒वै। परि॑पात॒वै। त॑स्मा॒त् पि॒ता॑ नाभिच॑रित॒वै। उपसर्गा आद्युदात्ताः, अभिवर्जम् (फिट् सू० ८०,८१) इत्यभिरन्तोदात्तः। कृत्स्वरापवादो योगः॥ Siddhanta Kaumudi ----------------- तवैप्रत्ययान्तस्यान्त उदात्तो गतिश्चानन्तरः प्रकृत्या युगपच्चैतदुभयं स्यात् । अन्वेतवा उ (अन्वे॑त॒वा उ॑) । कृत्स्वरापवादः ॥ Nyaas ----- `अन्त उदात्तो भवति` इति। कथं पुनरुदात्तो भवतीत्येषो लभ्यते, नेहोदात्तग्रहणमस्ति? न ह्यत्रापूर्व एव स्वरो विधीयते, किं तर्हि? **गतिकारकोपपदात् कृत्** (6.2.139) इति प्रकृतिभावेनादेर्यः स्वरः प्राप्नोति न एव, तत्? कथं प्रकृत्येति वर्तते? तत्रैवमभिसम्बन्धः क्रियते -तवापरत्ययान्तस्य यः प्राप्नोति सोऽन्त्यस्य भवतीति। स चोदात्त एवेति समाथ्र्यादुदात्तो लभ्यते। युगपद्ग्रहणं पर्यायनिवृत्त्यर्थम्। `अन्वेतवा` [आम्वेतवै -काशिका] इति। अनुपूर्वादेतेः `कृत्यार्थे `तवैकेन्केन्यत्वनः` (3.4.14) इति तवैप्रत्ययः, गुणः। `परिपातवा` [परिपातवै -काशिका] इति। परिपूर्वात्? विबातेः। `अभिचरितवा` [अभिचरितवै -काशिका] इति। अभिपूर्वाच्चरतेः। `अभिरन्तोदात्तः` इति। प्रातिपदकस्वरेण।