62052: अनिगन्तोऽञ्चतौ वप्रत्यये¶
Padacheda: अनिगन्तः | S | 1 | 1 |
अञ्चतौ | S | 7 | 1 |
वप्रत्यये | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
An immediately preceding गति – गतिश्च (1.4.60), not ending in इ or उ retains its accent before an affix having a व् follows.
Vasu English Translation¶
An immediately preceding गति – गतिश्च (1.4.60), not ending in इ or उ retains its accent before an affix having a व् follows. Thus प्रा꣡ङ्, प्रा꣡ञ्चौ, प्रा꣡ञ्चः or प्रा॑ङ्, प्रा॑ञ्चौ, प्रा॑ञ्चः ॥ The accent is acute and optionally svarita by (8.2.6). So also प꣡राङ्, प꣡राञ्चौ, प꣡राञ्चः , प꣡राचः, प꣡राचा ॥ But with प्रति which ends in इ, we have प्रत्यङ्, प्रत्यञ्चौ, प्रत्यञ्चः here by (6.2.139) the second member retains its original accent. Why do we say ‘before an affix व्’? Observe उदञ्चनः ॥ When the nasal of ‘anch’ is elided, then rule (6.1.222) presents itself; but that rule is superseded when a Gati not ending in इ or उ precedes, because the present rule is subsequent. Thus प꣡राचः and प꣡राचाः ॥ In some texts, the reading is अञ्चतावप्रत्यये ॥ The affix व् is like क्विप् &c, (6.1.67).
Bhashya¶
अनिगन्तोऽञ्ञ्चतौ वप्रत्यये (2712) (6350 अतिप्रसङ्गापादकवार्तिकम् ॥ 1 ॥) - अनिगन्तप्रकृतिस्वरत्वे यणादेशे प्रकृतिस्वरभावप्रसङ्गः - अनिगन्तप्रकृतिस्वरत्वे यणादेशे प्रकृति स्वरभावः, प्राप्नोति । प्रत्यङ्, प्रत्यञ्ञ्चौ, प्रत्यञ्ञ्चः ॥ (अनिगन्तपदाक्षेपभाष्यम्) अनिगन्तवचनमिदानीं किमर्थं स्यात् ? (6351 अनिगन्तपदप्रयोजनवार्तिकम् ॥ 2 ॥) - अनिगन्तवचनं किमर्थमिति चेदयणादिष्टार्थम् - अयणादेशार्थमेतत् स्यात् । यदा यणादेशो न । कदा च यणादेशो न ? यदा शाकलम् ॥ (6352 आक्षेपवार्तिकम् ॥ 3 ॥) - उक्तं वा - किमुक्तम् ? समासे शाकलं न भवति - इति ॥ (प्रयोजनभाष्यम्) यत्र तर्ह्यञ्ञ्चेतरकारो लुप्यते । प्रतीचः, प्रतीचा । चुस्वरस्तत्र बाधको भविष्यति । अयमेवेष्यते । वक्ष्यति ह्येतत् - चोरनिगन्तोऽञ्ञ्चतावप्रत्यय इति ॥ यत्तर्हि -न्यध्योः प्रकृतिस्वरं शास्ति । एष हि यणादिष्टार्थमारम्भः । एतदप्ययणादिष्टार्थमेव, यदा यणादेशो न । कदा च यणादेशो न ? यदा शाकलम् । उक्तं वा । किमुक्तम् ? समासे शाकलं न भवतीति ॥ यत्र तर्ह्यञ्ञ्चतेरकारो लुप्यते - अधीचः, अधीचा । चुस्वरस्तत्र बाधको भविष्यति । अयमेवेष्यते । वक्ष्यति ह्येतत् - चोरनिगन्तोऽञ्ञ्चतावप्रत्यय इति ॥ यत्तर्हि नेरेव प्रकृतिस्वरं शास्ति । एष हि यणादिष्टार्थ आरम्भः । एतदप्ययणादिष्टार्थमेव । कथम् ? अकृते यणादेशे पूर्वपदप्रकृतिस्वरत्वे कृते उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (8.2.4) इत्येष स्वरः सिद्धो भवति । न्यङ् ॥ तस्मात्सुष्ठूच्यते - अनिगन्तप्रकृतिस्वरत्वे यणादेशे प्रकृतिस्वरभावप्रसङ्ग इति ॥ (6353 विप्रतिषेधोपसंख्यानवार्तिकम् ॥ 4 ॥) - चोरनिगन्तोऽञ्ञ्चतावप्रत्यये - चुस्वरादनिगन्तोऽञ्ञ्चतावप्रत्यय इत्येतद्भवति विप्रतिषेधेन । चुस्वरस्यावकाशः - दधीचः पश्य, दधीचा, दधीचे । अनिगन्तोऽञ्ञ्चतावप्रत्यय इत्यस्यावकाशः - पराङ्, पराञ्ञ्चौ, पराञ्ञ्चः । इहोभयं प्राप्नोति - अवाचा, अवाचे । अनिगन्तोऽञ्ञ्चतावप्रत्यय इत्येतद्भवति विप्रतिषेधेन ॥ (6354 विप्रतिषेधासंभवबोधकवार्तिकम् ॥ 5 ॥) - न वा चुस्वरस्य पूर्वपदप्रकृतिस्वरभाविनि प्रतिषेधादितरथा हि सर्वापवादः - न वा एतद्विप्रतिषेधेनापि सिध्यति । कथं तर्हि सिध्यति ? चुस्वरस्य पूर्वपदप्रकृतिस्वरभाविनि प्रतिषेधात् । चुस्वरः पूर्वपदप्रकृतिस्वरभाविनः प्रतिषेध्यः । इतरथा हि सर्वापवादश्चुस्वरः । अक्रियमाणे हि प्रतिषेधे सर्वापवादोऽयं चुस्वरः । कथम् ? प्रत्ययस्वरस्यापवादः - अनुदात्तौ सुप्तितौ (3.1.4) । अनुदात्तौ सुप्तितावित्यस्योदात्तनिवृत्तिस्वरः । उदात्तनिवृत्तिस्वरस्य चुस्वरः । स यथैवोदात्तनिवृत्तिस्वरं बाधत एवमनिगन्तस्वरमपि बाधेत ॥ यदि तावत्संख्यातः साम्यम्, अयमपि चतुर्थः । समासान्तोदात्तत्वस्यापवादोऽव्ययस्वरः । अव्ययस्वरस्य कृत्स्वरः । कृत्स्वरस्यायम् । उभयोश्चतुर्थयोर्युक्तो विप्रतिषेधः ॥ सति शिष्टस्तर्हि चुस्वरः । कथम् ? चावित्युच्यते, यत्रास्यैद्रूपं भवति । क्वचास्यैतद्रूपम् ? यजादावसर्वनामस्थानेऽभिनिर्वृत्ते अकारलोपे नकारलोपे च कृते । तस्मात्सुष्ठूच्यते - न वा चुस्वरस्य पूर्वपदप्रकृतिस्वरभाविनि प्रतिषेधादितरथा हि सर्वापवाद इति ॥ (6355 विप्रतिषेधोपसंख्यानवार्तिकम् ॥ 6 ॥) - विभक्तीषत्स्वरात्कृत्स्वरः - विभक्तिस्वरात् - ःइर्षत्स्वराच्च कृत्स्वरो भवति विप्रतिषेधेन । विभक्तिस्वरस्यावकाशः - अक्षशौण्डः, स्त्रीशौण्डः । कृत्स्वरस्यावकाशः - ःइध्मप्रव्रश्चनः, पलाशशातनः । इहोभयं प्राप्नोति - पूर्वाह्णे स्फोटकः, अपराह्णे स्फोटकः । कृत्स्वरो भवति विप्रतिषेधेन ॥ इर्षत्स्वरस्यावकाशः - ःइर्षत्कडारः, इर्षत्पिङ्गलः । कृत्स्वरस्य स एव । इहोभयं प्राप्नोति - ःइर्षद्भेदः । कृत्स्वरो भवति विप्रतिषेधेन ॥ (6356 विप्रतिषेधोपसंख्यानवार्तिकम् ॥ 7 ॥) - चित्स्वराद्धारिस्वरः - चित्स्वराद्धारिस्वरो भवति विप्रतिषेधेन । चित्स्वरस्यावकाशः - चलनः, चोपनः । हारिस्वरस्यावकाशः - याज्ञिकाश्वः, वैयाकरणहस्ती । इहोभयं प्राप्नोति - पितृगवः, मातृगवः । हारिस्वरो भवति विप्रतिषेधेन ॥ (विप्रतिषेधोपसंख्यानभाष्यम्) कृत्स्वराद्धारिस्वरो विप्रतिषेधेन । कृत्स्वरस्यावकाशः - ःइध्मव्रश्चनः, पलाशशातनः । हारिस्वरस्य स एव । इहोभयं प्राप्नोति - अक्षहृतः, वाडवहार्यः । हारिस्वरो भवति विप्रतिषेधेन ॥ (6357 कृत्स्वरविप्रतिषेधानर्थक्यबोधकवार्तिकम् ॥ 8 ॥) - न वा हरणप्रतिषेधो ज्ञापकः कृत्स्वराबाधकत्वस्य - न वाऽर्थो विप्रतिषेधेन । किं कारणम् ? हरणप्रतिषेधो ज्ञापकः कृत्स्वराबाधकत्वस्य । यदयं अहरणे इति प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यः - न कृत्स्वरो हारिस्वरं बाधत इति । नैतदस्ति ज्ञापकम् । अनो भावकर्मवचनः (6.2.150) इत्येतस्मिन् प्राप्ते तत एतदुच्यते ॥ यद्येवं साधीयो ज्ञापकम् । कृत्स्वरस्यापवादः - अनो भावकर्मवचनः इति । बाधकं किलायं बाधते, किं पुनस्तन्न बाधिष्यते ? (विप्रतिषेधबोधकभाष्यम्) युक्तस्वरश्च कृत्स्वराद्भवति विप्रतिषेधेन । युक्तस्वरस्यावकाशः - गोबल्लवः, अश्वबल्लवः । कृत्स्वरस्य स एव । इहोभयं प्राप्नोति - गोसंख्यः, पशुसंख्यः, अश्वसंख्यः । युक्तस्वरो भवति विप्रतिषेधेन ॥
Kashika¶
अनिगन्तो गतिः प्रकृतिस्वरो भवत्यञ्चतौ वप्रत्यये परतः। प्राङ् , प्राञ्चा॑ै, प्राञ्चः॑। प्रा॑ङ्, प्रा॑ञ्चौ, प्रा॑ञ्चः। स्वरितो वानुदात्ते पदादौ (८.२.६) इत्ययमेकादेश उदात्तः स्वरितो वा । परा॑ङ् , परा॑ञ्चौ, परा॑ञ्चः॒ (तै०सं० ३.१.१०.३)। अनिगन्त इति किम् ? प्॒रत्यङ् ,प्॒रत्यञ्चा॑ै, प्॒रत्यञ्चः॑। कृदुत्तरपदप्रकृतिस्वर इह भवति। वप्रत्यय इति किम्? उ॒दञ्च॑नः। चोरनिगन्तोऽञ्चतौ वप्रत्यय इत्येष् स्वरो भवति विप्रतिषेधेन। परा॑चः। परा॑चा॥
Siddhanta Kaumudi¶
अनिगन्तो गतिर्वप्रत्ययान्तेऽञ्चतौ परे प्रकृत्या । ये पराञ्चस्तान् (ये परा॑ञ्चस्तान्) । अनिगन्त इति किम् । प्रत्यञ्चो यन्तु (प्र॒त्यञ्चो॑ यन्तु) । कृत्स्वरात्परत्वादयमेव । जहि वृष्ण्यानि कृणुही पराचः (ज॒हि वृष्ण्या॒नि कृणु॒ही परा॑चः) । वप्रत्यये किम् । उदञ्चनम् ॥
Padamanjari¶
वप्रत्यय इति। वकारः प्रत्ययो यस्य स तथोक्तः। प्राङिति। ऋत्विक् इत्यादिना क्विन्। स च वकारमात्र एव ककारादीनाम नुबन्धत्वात्। उगिदचाम् इति नुम् हल्ड।लदिसंयोगान्तलोपौ। क्विन्प्रत्ययस्य कुः इति कुत्वम् - चकारस्य ङ्कार। पराङिति। पारशब्द आद्यौदातः, तेनात्र स्वरितो वाऽनुदातेऽपदादौ इत्येष विधिर्न भवति। प्रत्यङिति। ननु चात्रान्तरङ्गत्वाद्यणादेशे कृते,अनिगन्तत्वात्प्रकृतिभावेन भवितव्यम्, अनिगन्तः इत्यस्य तु प्रतीच इत्यादिरवकाशः तत्र अचः इत्यकारलोपाद्यणादेशाभावः। न च यणादेशस्य स्थानिवद्भावोऽस्ति अपूर्वविधित्वात्, पूर्वपदस्य प्रकृतिस्वरविधानात् यतर्हि न्यधीचेत्यधेः प्रकृतिभावं शास्ति, एतज्ज्ञापयति-यण्विषयऽयं स्वरो न भवतीति। यदि स्याद्,अध्यङ्त्यित्राप्यऽनेनैव सिद्धं स्यात्। नैतदस्ति ज्ञापकम्,अधीच इत्यादौ यत्र यण् नास्ति तदर्थमेतत्स्यात् यतर्हि नेः प्रकृतिस्वरं शस्ति,निशब्दस्यैकाच्त्वाद्,नीच इत्यादावुतरस्य प्रकृतिस्वरस्य च विशेषो नास्ति। एतदषि न ज्ञापकम्, वचनसामर्थ्यादकृत एवान्तरङ्गे यणादेशे निशब्दस्य स्वरार्थेमेतत्स्यात्,यणाअदेशे कृते स्वरभाजोऽभावात् प्रत्यङदिषु तु यणादेश एवान्तरङ्गत्वात्प्राप्नोति,तस्माद्यण्विषये प्रतिपेधो वक्तव्यः न वक्तव्यः स्थानिवद्भावात्सिद्धम्। ननु चोक्तम् पूर्वपदस्य प्रकृतिस्वरो न यणः पूर्वस्य इति नैतदस्ति उक्तमेतत् पूर्वपदशब्दः पूर्वपदस्योद उदाते स्वरिते वा वर्तते इति। चोरिति। चौ इति यत्पूर्वपदन्तोदातत्वं विधी।यत् तच्चुशब्देन लक्ष्यते। चोः-चुस्वरादित्यर्थः। एष स्वरो भवतीति । विप्रतिषेधेनेति भावः। चुस्वरस्यावकाशः दधीचः दधीचात,यत्र गतिर्नास्ति अनिगन्तस्वरस्यावकाशः -पराङ्, पराञ्चौ,पराञ्चः, पारच इत्यादावुभयप्रसङ्गे परत्वादिनिगन्तस्वर एव भवति। नायं युक्तो विप्रततिषेधः, चुस्वरःसतिशिष्टः कथम् चौ इत्युच्यते, यत्रास्यैतद्रूपम्, भसंज्ञावनिमिते प्रत्यये,अल्लोपे च कृते सम्भवति एवं तर्हि नायं विप्रतिषेध उपन्यस्तः किं तर्हि इष्टिरेषा चोरनिगन्तोञ्चतावप्रत्यय इत्येष स्वर इष्यते इति॥
Nyaas¶
वप्रत्यये इति। वकारः प्रत्ययो यस्य स तथोक्तः। प्राङ् इत्यादि। प्राञ्चीतीति ऋत्विक् (3.2.59) इत्यादिना क्विन्प्रत्ययः, स च वकारमात्र एव; ककारादीनामनुबन्धत्वात्; तेषां चानैकान्तत्वात्। उगिदचाम् (7.1.70) इति नुम्, एकवचने हल्ङ्यादि (6.1.66) संयोगान्तलोपौ (8.2.23) , क्विन्? प्रत्ययस्य कुः (8.2.62) इति नकारस्य कुत्वं ङ्कारः। द्विवचनबहुवचनयोस्तु स्तोः श्चुना श्चुः (8.4.40) इति श्चुत्वं ञकारः। उपसर्गाकारेण सह अकः सवर्णे दीर्घः (6.1.101) । पराङ् इत्यादि। पराशब्द आद्युदात्तः। तेन स्वरितो वानुदात्ते पदादौ [स्वरिते वाऽनुदातेऽपदादौ इति मुद्रितः पाठः -न्यासः काशिका, पदमंजरी च] (8.2.6) इत्येष विधिर्न भवति। प्रत्यङ् इति। अत्र प्रतिशब्दस्येगन्तत्वात्? परकृतिभावो न भवति। ननु च यणादेशे कृते सोऽप्यनिगन्त एष? स्थानिवद्भावादिगन्तव्यपदेशः कृतेऽपि यणादेशे भविष्यतीत्यदीषः। स्वरविधौ स्थानिवद्भावः प्रतिषिध्यत इति चेत्? नैतदस्ति; स्वरदीर्घयलोपेषु लोपाजादेशौ न स्थानिवत्, अन्यस्तु स्थानिवदेव (का।वृ।1.1.59) इत्युक्तमेतत्। उदञ्चनः इति। ल्युट्। अत्राप्युत्तरपदप्रकृतिस्वर एव भवति। चोरनिगन्तोऽञ्चतौ इत्यादि। चोरित्यनेन चौ (6.1.216) इत्यनेन यदन्तोदात्तत्वं विधीयते तदुपलक्षयति। चोरितयस्यावकाशः -दधीचः, यत्र गतिर्न भवति; अनिगन्तसवरस्यावकाशो यत्राञ्चतेरकारनकारौ न लुप्येते -पराङ्, पराञ्चादिति; इहोभयं प्राप्नोति -पराचः पराचेति अनिगन्तः स्वरो वति विप्रतिषेधेन। प्रतिषेधशब्दस्तत्राध्याहार्यः॥
Prakriyasarvasvam¶
अस्मिन् परेऽनिगन्तो गतिः प्रकृत्या स्यात् । अवाञ्च । प्राञ्चेति । इगन्ते तु - प्रत्यङ् देवानाम् । ‘गतिकारक’ (६-२-१३१) इति कृत्प्रकृतिस्वरः ।।