62050: तादौ च निति कृत्यतौ¶
Padacheda: तादौ | S | 7 | 1 |
च | S | 0 | 0 |
निति | S | 7 | 1 |
कृति | S | 7 | 1 |
अतौ | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
An immediately preceding गति – गतिश्च (1.4.60), retains its original accent before (a word formed by) a कृत्-affix beginning with त् which as an indicatory न् but before तु।
Vasu English Translation¶
An immediately preceding गति – गतिश्च (1.4.60), retains its original accent before (a word formed by) a कृत्-affix beginning with त् which as an indicatory न् but before तु। Thus प्र꣡कर्ता (with तृन् ) प्र꣡कर्तुम् (with तुमुन्), प्र꣡कृतिः (with क्तिन्) ॥ This sutra debars the Krit-affix accent (6.2.139). Why do we say “before an affix beginning with त्”? Observe प्रज꣡ल्पाकः formed with the affix पाकन् (3.2.155), and the Gati प्र, the accent being governed by (6.2.139). Why do we say ‘which is नित्’? Observe प्रकर्ता formed by तृच् affix. When a Krit-affix takes the augment इट्, it does not lose its character of beginning with त् on the Vartika कृदुपदेशो वा ताद्यर्थमिडर्थम् ॥ Thus प्र꣡लपिता, प्र꣡लपितुम् ॥ Why do we say “but not before तु”? Observe आगन्तुः꣡ with the Unadi affix तुन् ॥
Bhashya¶
तादौ च निति कृत्यतौ (2710) (पदकृत्यभाष्यम्) कृद्ग्रहणं किमर्थम् ? यथा तकारादिग्रहणं कृद्विशेषणं विज्ञायेत - तकारादौ निति कृतीति । अथाक्रियमाणे कृद्ग्रहणे तकारादिग्रहणं कस्य विशेषणं स्यात् ? उत्तरपदविशेषणम् । तत्र को दोषः ? इहैव स्यात् - प्रतरिता, प्रतरितुम् । इह न स्यात् - प्रकर्ता, प्रकर्तुम् । (6348 कृद्ग्रहणानर्थक्यम् ॥ 1 ॥) - तादौ निति कृद्ग्रहणानर्थक्यम् - तादौ निति कृद्ग्रहणमनर्थकम् । क्रियमाणेऽपि वै कृद्ग्रहणेऽनिष्टं शक्यं विज्ञातुम् - तकारादौ उत्तरपदे निति कृति - इति । अक्रियमाणेऽपि चेष्टम् - निद्यस्तकारादिस्तदन्त उत्तरपद इति । यावता क्रियमाणे चानिष्टं विज्ञायते, अक्रियमाणे चेष्टम् । अक्रियमाण एवेष्टं विज्ञास्यामः ॥ (6349 समाधानवार्तिकम् ॥ 2 ॥) - कृदुपदेशे वा ताद्यर्थमिडर्थम् - कृदुपदेशे तर्हि ताद्यर्थमिडर्थं कृद्ग्रहणं कर्तव्यम् । कृदुपदेशे यस्तकारादिः - ःइत्येवं यथा विज्ञायेत । किं प्रयोजनम् ? इडर्थम् । इडादावपि सिद्धं भवति - प्रलपिता, प्रलपितुम् ॥
Kashika¶
तकारादौ च तुशब्दवर्जिते निति कृति परतो गतिरनन्तरः प्रकृतिस्वरो भवति। प्रक॑र्ता। प्रक॑र्तुम्। प्रकृ॑तिः। प्रकर्तेति तृन्नन्तः। कृत्स्वरबाधनार्थं वचनम्। तादाविति किम् ? प्र॒जल्पा॑कः। नितीति किम् ? प्र॒क॒र्ता। तृजन्तः। कृद्ग्रहणमुपदेशे ताद्यर्थम्। इहापि यथा स्यात् — प्रल॑पिता, प्रल॑पितुम् इति । अताविति किम् ? आ॒गन्तुः॑॥
Siddhanta Kaumudi¶
तकारादौ निति तुशब्दवर्जिते कृति परेऽनन्तरो गति प्रकृत्या । अग्नेरायो नृतमस्य प्रभूतौ (अग्ने॑रा॒यो नृत॑मस्य॒ प्रभू॑तौ) । सङ्गतिं गोः (सङ्ग॑तिं॒ गोः) । कृत्स्वरापवादः । तादौ किम् । प्रजल्पाकः । निति किम् । प्रकर्ता । तृजन्तः अतौ किम् । आगन्तुः ॥
Padamanjari¶
प्रजल्पाक इति। जलपभिक्ष इति षाकन्। इह गतेः स्वरो विधीयते,क्रियायोगे च गतिसंज्ञा, धातुश्च क्रियावाची, धातोश्च द्वये प्रत्ययाः - कृतस्तिङ्श्च, तत्र तिङ्न्ते पूर्वपदस्यासम्भवात्कृदन्तादेव भविष्यति, नार्थः कृद्ग्रहणेन इदं तर्हि प्रयोजनम् -यथा तादिग्रहणं कृद्विशेषणं विज्ञायते तकारादौ निति कृतीति अन्यथा नितीत्यनेन प्रत्ययग्रहणपरिभाषया तदन्तस्योपस्थानातस्यैवोतरपदस्य तकारादित्वं विशेषणं स्यात्। ततश्चेहैव स्यात् - प्रतरिता, प्रतरितमिति इह न स्यात् - प्रकर्तुम्। नैतदस्ति प्रयोजनम् ,क्रियमाणेऽपि कृद्ग्रहणे अनिष्ट्ंअ शक्यं विज्ञातुम्तकारादावुतरपदे निति कृतीति, अक्रियमाणेऽपि चेष्टम् निद्यस्तकारादिस्तदन्तौतरपदेति ततश्च यथा उतश्च प्रत्ययात् इत्यत्रासंयोगपूर्वग्रहणेनोकारो विशेष्यते न प्रत्ययः, तथेहापि नित एव विशेषणं तादिग्रहणं भविष्यतीति अत्राह कृद्ग्रहणामुपदेशे ताद्यर्थमिति। अयमभिप्रायः - कृद्ग्रहणेन कृत्संज्ञाप्रवृत्तिकाले यस्तादिस्तत्रेति । किमेवं सति सिद्धं भवति तत्राह -इहापीति । असति कृद्ग्रहणे, तादिग्रहणेन स्वरप्रवृत्तिसमये यस्तादिस्तत्रेति विज्ञायेत, ततश्च प्रलपितेत्यादौ इडागमे कृते न स्यात् सम्प्रत्यतादित्वात् , कृद्ग्रहणातु भवति आदिग्रहणं तु शक्यमकर्तुम् ,यस्मिन्विधिस्तदादावल्ग्रहणे॥ तवै चान्तश्च युगपत्॥ अन्त उदातो भवतीति। कथं पूनरन्तरेणोदातग्रहणमुदातो भवतीत्ययमर्थो लभ्यते एवं मन्यते प्रकृत्येति वर्तते, तत्रैवमभिसम्बन्धः क्रियते-तवैप्रत्ययान्तस्य यः स्वरः प्रकृत्यार्श्यः प्राप्तः सोऽन्तस्य भवतीति, स चोदात एवति। युगपदिति पर्यायनिवृत्यर्थम्॥
Nyaas¶
प्रकर्तुम् इति। तुमुन्। प्रकर्तेति तृन्नन्तः इति। तृजन्ताशङ्कां निराकरोति। कृत्स्वरबाधनार्थम् इत्यादि। अव्ययस्वरापवादः गतिकारकोपपदात् कृत् (6.2.139) इति कृत्स्वरः प्राप्नोति, अतस्तद्बाधनार्थं वचनम्। प्रजल्पाकः इति। जल्पभिक्ष (3.2.155) इत्यादिना षाकन्। तृजन्तः इति। तृन्नन्ताशङ्कां निराकरोति। अथ निद्ग्रहणं किमर्थम्? प्रकृष्टमृष्टमृत्तिका प्रभृत्तिका इत्यतर मा भूदिति चेत्? नैतदस्ति; तथा हि -यत्क्रयायुक्ताः प्रादयः तं प्रति गत्युपसर्गसंज्ञकाः भवन्ति, (जै।प।वृ।99) मृत्तिकाशब्दश्चायं नामधेयत्वात्? क्रियावची न भवति, तेन तं प्रत्युपसर्गसंज्ञा नास्त्येव? इत्यत आह -कृद्ग्रहणम् इत्यादि। कृति इत्यनेन संज्ञासम्बन्धकालो लक्ष्यते, तेन कृत्संज्ञावेलायां यस्तादिरित्येषोऽर्थः सम्पद्यत इति कृद्ग्रहणमुपदेशे ताद्यर्थं भवति; कृत्संज्ञाप्रतिपत्तिकालस्योपदेशकालत्वात्। तस्मात्? पुनरुपदेशे यस्तादिस्तदर्थं यत्नः क्रियत इत्याह -इह इत्यादि। यदि तदुपदेशग्रहणं ताद्यर्थ न क्रियेत, तदा प्रलपितेत्यत्र न स्यात्; इटा तादिताया विहतत्वात्। यस्मश्च सतद्युपदेश एव तादिर्भतीति यद्यप्युत्तरकालं तादिता विहन्यते, तथापि भवत्येव। आगन्तुः इति। सितनिगमिमसि (द।उ।1।122) इत्यादना तन्? प्रत्ययः॥
Prakriyasarvasvam¶
तुवर्जिते तादौ निति कृति परे गतिरनन्तरः प्रकृत्या स्यात् । प्रकर्ता । प्रकर्तुम् । भरथं तदनु प्रत्रोहम् । उपदेशमात्रे तादित्वार्थं कृद्ग्रहः । तेन प्रलपिते- त्यादाविङ्व्यवधानेऽपि स्यात् । तुनि तु आर्गन्तुः ।