62050: तादौ च निति कृत्यतौ ========================== **Padacheda:** तादौ | S | 7 | 1 | च | S | 0 | 0 | निति | S | 7 | 1 | कृति | S | 7 | 1 | अतौ | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- An immediately preceding गति -- गतिश्च (1.4.60), retains its original accent before (a word formed by) a कृत्-affix beginning with त् which as an indicatory न् but before तु। Vasu English Translation ------------------------ An immediately preceding गति -- गतिश्च (1.4.60), retains its original accent before (a word formed by) a कृत्-affix beginning with त् which as an indicatory न् but before तु। Thus प्र꣡कर्ता (with तृन् ) प्र꣡कर्तुम् (with तुमुन्), प्र꣡कृतिः (with क्तिन्) ॥ This *sutra* debars the *Krit*-affix accent (6.2.139). Why do we say "before an affix beginning with त्"? Observe प्रज꣡ल्पाकः formed with the affix पाकन् (3.2.155), and the *Gati* प्र, the accent being governed by (6.2.139). Why do we say 'which is नित्'? Observe प्रकर्ता formed by तृच् affix. When a *Krit*-affix takes the augment इट्, it does not lose its character of beginning with त् on the *Vartika* कृदुपदेशो वा ताद्यर्थमिडर्थम् ॥ Thus प्र꣡लपिता, प्र꣡लपितुम् ॥ Why do we say "but not before तु"? Observe आगन्तुः꣡ with the *Unadi* affix तुन् ॥ Bhashya ------- तादौ च निति कृत्यतौ (2710) (पदकृत्यभाष्यम्) कृद्ग्रहणं किमर्थम् ? यथा तकारादिग्रहणं कृद्विशेषणं विज्ञायेत - तकारादौ निति कृतीति । अथाक्रियमाणे कृद्ग्रहणे तकारादिग्रहणं कस्य विशेषणं स्यात् ? उत्तरपदविशेषणम् । तत्र को दोषः ? इहैव स्यात् - प्रतरिता, प्रतरितुम् । इह न स्यात् - प्रकर्ता, प्रकर्तुम् । (6348 कृद्ग्रहणानर्थक्यम् ॥ 1 ॥) - तादौ निति कृद्ग्रहणानर्थक्यम् - तादौ निति कृद्ग्रहणमनर्थकम् । क्रियमाणेऽपि वै कृद्ग्रहणेऽनिष्टं शक्यं विज्ञातुम् - तकारादौ उत्तरपदे निति कृति - इति । अक्रियमाणेऽपि चेष्टम् - निद्यस्तकारादिस्तदन्त उत्तरपद इति । यावता क्रियमाणे चानिष्टं विज्ञायते, अक्रियमाणे चेष्टम् । अक्रियमाण एवेष्टं विज्ञास्यामः ॥ (6349 समाधानवार्तिकम् ॥ 2 ॥) - कृदुपदेशे वा ताद्यर्थमिडर्थम् - कृदुपदेशे तर्हि ताद्यर्थमिडर्थं कृद्ग्रहणं कर्तव्यम् । कृदुपदेशे यस्तकारादिः - ःइत्येवं यथा विज्ञायेत । किं प्रयोजनम् ? इडर्थम् । इडादावपि सिद्धं भवति - प्रलपिता, प्रलपितुम् ॥ Kashika ------- तकारादौ च तुशब्दवर्जिते निति कृति परतो गतिरनन्तरः प्रकृतिस्वरो भवति। प्रक॑र्ता। प्रक॑र्तुम्। प्रकृ॑तिः। प्रकर्तेति तृन्नन्तः। कृत्स्वरबाधनार्थं वचनम्। तादाविति किम् ? प्र॒जल्पा॑कः। नितीति किम् ? प्र॒क॒र्ता। तृजन्तः। कृद्ग्रहणमुपदेशे ताद्यर्थम्। इहापि यथा स्यात् — प्रल॑पिता, प्रल॑पितुम् इति । अताविति किम् ? आ॒गन्तुः॑॥ Siddhanta Kaumudi ----------------- तकारादौ निति तुशब्दवर्जिते कृति परेऽनन्तरो गति प्रकृत्या । अग्नेरायो नृतमस्य प्रभूतौ (अग्ने॑रा॒यो नृत॑मस्य॒ प्रभू॑तौ) । सङ्गतिं गोः (सङ्ग॑तिं॒ गोः) । कृत्स्वरापवादः । तादौ किम् । प्रजल्पाकः । निति किम् । प्रकर्ता । तृजन्तः अतौ किम् । आगन्तुः ॥ Padamanjari ----------- प्रजल्पाक इति। जलपभिक्ष इति षाकन्। इह गतेः स्वरो विधीयते,क्रियायोगे च गतिसंज्ञा, धातुश्च क्रियावाची, धातोश्च द्वये प्रत्ययाः - कृतस्तिङ्श्च, तत्र तिङ्न्ते पूर्वपदस्यासम्भवात्कृदन्तादेव भविष्यति, नार्थः कृद्ग्रहणेन इदं तर्हि प्रयोजनम् -यथा तादिग्रहणं कृद्विशेषणं विज्ञायते तकारादौ निति कृतीति अन्यथा नितीत्यनेन प्रत्ययग्रहणपरिभाषया तदन्तस्योपस्थानातस्यैवोतरपदस्य तकारादित्वं विशेषणं स्यात्। ततश्चेहैव स्यात् - प्रतरिता, प्रतरितमिति इह न स्यात् - प्रकर्तुम्। नैतदस्ति प्रयोजनम् ,क्रियमाणेऽपि कृद्ग्रहणे अनिष्ट्ंअ शक्यं विज्ञातुम्तकारादावुतरपदे निति कृतीति, अक्रियमाणेऽपि चेष्टम् निद्यस्तकारादिस्तदन्तौतरपदेति ततश्च यथा उतश्च प्रत्ययात् इत्यत्रासंयोगपूर्वग्रहणेनोकारो विशेष्यते न प्रत्ययः, तथेहापि नित एव विशेषणं तादिग्रहणं भविष्यतीति अत्राह कृद्ग्रहणामुपदेशे ताद्यर्थमिति। अयमभिप्रायः - कृद्ग्रहणेन कृत्संज्ञाप्रवृत्तिकाले यस्तादिस्तत्रेति । किमेवं सति सिद्धं भवति तत्राह -इहापीति । असति कृद्ग्रहणे, तादिग्रहणेन स्वरप्रवृत्तिसमये यस्तादिस्तत्रेति विज्ञायेत, ततश्च प्रलपितेत्यादौ इडागमे कृते न स्यात् सम्प्रत्यतादित्वात् , कृद्ग्रहणातु भवति आदिग्रहणं तु शक्यमकर्तुम् ,यस्मिन्विधिस्तदादावल्ग्रहणे॥ तवै चान्तश्च युगपत्॥ अन्त उदातो भवतीति। कथं पूनरन्तरेणोदातग्रहणमुदातो भवतीत्ययमर्थो लभ्यते एवं मन्यते प्रकृत्येति वर्तते, तत्रैवमभिसम्बन्धः क्रियते-तवैप्रत्ययान्तस्य यः स्वरः प्रकृत्यार्श्यः प्राप्तः सोऽन्तस्य भवतीति, स चोदात एवति। युगपदिति पर्यायनिवृत्यर्थम्॥ Nyaas ----- `प्रकर्तुम्` इति। तुमुन्। `प्रकर्तेति तृन्नन्तः` इति। तृजन्ताशङ्कां निराकरोति। `कृत्स्वरबाधनार्थम्` इत्यादि। अव्ययस्वरापवादः **गतिकारकोपपदात् कृत्** (6.2.139) इति कृत्स्वरः प्राप्नोति, अतस्तद्बाधनार्थं वचनम्। `प्रजल्पाकः` इति। `जल्पभिक्ष` (3.2.155) इत्यादिना षाकन्। `तृजन्तः` इति। तृन्नन्ताशङ्कां निराकरोति। अथ निद्ग्रहणं किमर्थम्? प्रकृष्टमृष्टमृत्तिका प्रभृत्तिका इत्यतर मा भूदिति चेत्? नैतदस्ति; तथा हि -यत्क्रयायुक्ताः प्रादयः तं प्रति गत्युपसर्गसंज्ञकाः भवन्ति, (जै।प।वृ।99) मृत्तिकाशब्दश्चायं नामधेयत्वात्? क्रियावची न भवति, तेन तं प्रत्युपसर्गसंज्ञा नास्त्येव? इत्यत आह -`कृद्ग्रहणम्` इत्यादि। `कृति` इत्यनेन संज्ञासम्बन्धकालो लक्ष्यते, तेन कृत्संज्ञावेलायां यस्तादिरित्येषोऽर्थः सम्पद्यत इति कृद्ग्रहणमुपदेशे ताद्यर्थं भवति; कृत्संज्ञाप्रतिपत्तिकालस्योपदेशकालत्वात्। तस्मात्? पुनरुपदेशे यस्तादिस्तदर्थं यत्नः क्रियत इत्याह -`इह` इत्यादि। यदि तदुपदेशग्रहणं ताद्यर्थ न क्रियेत, तदा प्रलपितेत्यत्र न स्यात्; इटा तादिताया विहतत्वात्। यस्मश्च सतद्युपदेश एव तादिर्भतीति यद्यप्युत्तरकालं तादिता विहन्यते, तथापि भवत्येव। `आगन्तुः` इति। `सितनिगमिमसि` (द।उ।1।122) इत्यादना तन्? प्रत्ययः॥ Prakriyasarvasvam ----------------- तुवर्जिते तादौ निति कृति परे गतिरनन्तरः प्रकृत्या स्यात् । प्रकर्ता । प्रकर्तुम् । भरथं तदनु प्रत्रोहम् । उपदेशमात्रे तादित्वार्थं कृद्ग्रहः । तेन प्रलपिते- त्यादाविङ्व्यवधानेऽपि स्यात् । तुनि तु आर्गन्तुः ।