62049: गतिरनन्तरः¶
Padacheda: गतिः | S | 1 | 1 |
अनन्तरः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
A word called गति – गतिश्च (1.4.60), when standing immediately before a Participle in क्त having a Passive significance, retains its accent.
Vasu English Translation¶
A word called गति – गतिश्च (1.4.60), when standing immediately before a Participle in क्त having a Passive significance, retains its accent. Thus प्र꣡कृतः, प्र꣡हृतः ॥ Here one of the following rules would have applied otherwise, namely, either (1) the Samasa end-acute (4.1.223) (2) or the Indeclinable first member to retain its accent (6.2.2), (3) or the end acute by (6.2.139) and (6.2.144). The present sutra debars all these. Why do we say ‘immediately?’ Observe अभ्यु꣡द्धृतः, समु꣡द्धृतः, समुदा꣡हृतः ॥ Where the distant Gati words अभि and सम् do not preserve their accent, but the immediately preceding Gati, as उत् does retain its accent, though it is not the first member of the compound word. Compare also (8.2.70). But in दूरात् + आ꣡गतः (agata being governed by this rule) we have to दूरादागतः꣡, (2.5.39) and (6.3.2) where (6.2.144) has its scope, though it had not its scope in अभि + उ꣡द्धृतः = अभ्यु꣡द्धृतः ॥ In the former case this maxim applies कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं ॥ “A Krit affix denotes whenever it is employed, a word-form which begins with that to which that Krit affix has been added, and which ends with the Krit affix, but moreover should a Gati or a noun such as denotes a case-relation have been prefixed to that word-form, then the Krit affix must denote the same word-form together with the Gati or the noun which may have been prefixed to it”. In the second example, this maxim is not applied, because scope should be given to the word अनन्तर in this aphorism. When the Participle has not a Passive significance, the rule does not apply because the word कर्मणि is understood here also; as, प्रकृतः कटं देवदत्तः ॥ This sutra debars (6.2.144).
Bhashya¶
गतिरनन्तरः (2709) (पदकृत्यभाष्यम्) अनन्तर इति किमर्थम् ? इह मा भूत् - अभ्युद्धृतम्, उपसमाहृतम् ॥ (6341 अनन्तरग्रहणाक्षेपवार्तिकम् ॥ 1 ॥) - गतेरनन्तरग्रहणमनर्थकं गतिर्गताविति वचनात् - गतेरनन्तरग्रहणमनर्थकम् । किं कारणम् ? गतिर्गतौ इति वचनात् । गतौ परतो गतेरनुदात्तत्वमुच्यते, तद्बाधकं भविष्यति ॥ (6342 अनन्तरपदसत्त्वेऽपि दोषवार्तिकम् ॥ 2 ॥) - तत्र यस्याप्रकृतिस्वरत्वं तस्मादन्तोदात्तत्वप्रसङ्गः - तत्र यस्य गतेरप्रकृतिस्वरत्वं तस्मादन्तोदात्तत्वं प्राप्नोति - अन्तः थाथघञ्ञ्क्ताजबित्रकाणाम् (6-2-143;144) इति ॥ (6343 अनन्तरपदसत्त्वे दोषापोहवार्तिकम् ॥ 3 ॥) - प्रकृतिस्वरवचनाद्ध्यनन्तोदात्तत्वम् - प्रकृतिस्वरवचनसार्मथ्यादन्तोदात्तत्वं न भविष्यति । यदि हि स्यात्, प्रकृतिस्वरवचनमिदानीं किमर्थं स्यात् ? (6344 प्रकृतिस्वरफलबोधकवार्तिकम् ॥ 4 ॥) - प्रकृतिस्वरवचनं किमर्थमिति चेत् एकगत्यर्थम् - प्रकृतिस्वरवचनं किमर्थमिति चेदेकगत्यर्थम् । य एको गतिस्तदर्थमेतत् स्यात् । प्रकृतम्, प्रहृतम् ॥ (अनन्तरग्रहणप्रयोजनभाष्यम्) एवमर्थमेव तर्ह्यनन्तरग्रहणं कर्तव्यम्, अत्र यथा स्यात् । क्रियमाणेऽपि वै अनन्तरग्रहणेऽत्र न सिध्यति । किं कारणम् ? गतिरनन्तरं पूर्वपदं प्रकृतिस्वरं भवतीत्युच्यते । यश्चात्र गतिरनन्तरः नासौ पूर्वपदम् । यच्च पूर्वपदम्, नासावनन्तरः ॥ अपूर्वपदार्थं तर्हीदं वक्तव्यम् । अपूर्वपदस्यापि गतेः प्रकृतिस्वरत्वं यथा स्यात् ॥ (6345 अनन्तरपदस्यापूर्वपदार्थत्वे आक्षेपवार्तिकम् ॥ 5 ॥) - अपूर्वपदार्थमिति चेत् कारकेऽतिप्रसङ्गः - अपूर्वपदार्थमिति चेत्कारकेऽतिप्रसङ्गो भवति । आगतः, दूरादागतः । स यथैव गतिपूर्वपदस्य भवति, एवं कारकपूर्वपदस्यापि प्राप्नोति ॥ (6346 समाधानवार्तिकम् ॥ 6 ॥) - सिद्धं तु गतेरन्तोदात्ताप्रसङ्गात् - सिद्धमेतत् । कथम् ? यत्तत् अन्तः थाथघञ्ञ्क्ताजबित्रकाणाम् इत्येतद्गतेर्न प्रसङ्क्तव्यम् । किं कृतं भवति ? कृत्स्वरापवादोऽयं भवति । तत्र गतिरन्तर इत्यस्यावकाशः - प्रकृतम्, प्रहृतम् । अन्तः थाथघञ्ञ्क्ताजबित्रकाणाम् इत्यस्यावकाशः - दूराद्गतः, दूराद्यातः । इहोभयं प्राप्नोति - आगतः, दूरादागतः । अन्तः थाथघञ्ञ्क्ताजबित्रकाणाम् इत्येतद्भवति विप्रतिषेधेन ॥ (थाथादिसूत्रे गतिग्रहणाननुवर्तने दोषभाष्यम्) अवश्यं गतेस्तत् प्रसङ्क्तव्यम्, भेदः - प्रभेद इत्येवमर्थम् ॥ (दोषापोहभाष्यम्) एवं तर्हि योगविभागः करिष्यते - अन्तः, थाथघञ्ञजबित्रकाणाम् । ततः - क्तः, क्तान्तमुत्तरपदमन्तोदात्तं भवति । अत्र कारकोपपदग्रहणमनुवर्तते, गतिग्रहणं निवृत्तम् ॥ अथ वोपरिष्टाद्योगविभागः करिष्यते । इदमस्ति -सूपमानात् क्तः संज्ञायामनाचितादीनाम् प्रवृद्धादीनां च (6-2-145,146,147) इति । ततो वक्ष्यामि - कारकात् । कारकाच्च क्तान्तमुत्तरपदमन्तोदात्तं भवति - इति ॥ ततः - दत्तश्रुतयोरेवाशिषि, कारकादिति ॥ (अनन्तरग्रहणवैर्य्यथ्यबोधकभाष्यम्) एवञ्ञ्च कृत्वा नार्थोऽनन्तरग्रहणेन ॥ कथमभ्युद्धृतम् ? उत् हरतिक्रियां विशिनष्टि । उदा विशिष्टामभिर्विशिनष्टि । तत्र गतिरनन्तरः इति च प्राप्नोति, गतिर्गतौ (8.1.70) इति च । गतिरनन्तर इत्यस्यावकाशः - प्रकृतम्, प्रहृतम् । गतिर्गतावित्यस्यावकाशः - अभ्युद्धरति, उपसमादधाति । इहोभयं प्राप्नोति - अभ्युद्धृतम्, उपसंहृतम्, उपसमाहितम् । गतिर्गतावित्येतत् भवति विप्रतिषेधेन ॥ (सिद्धान्तभाष्यम्) एवं तर्हि सिद्धे सति यदनन्तरग्रहणं करोति तज्ज्ञापयत्याचार्यः - भवत्येषा परिभाषा कृद्ग्रहणे गतिकारकपूर्वस्यापि - इति । (परिभाषाफलबोधकभाष्यम्) किमेतस्य ज्ञापने प्रयोजनम् ? अवतप्ते नकुलस्थितं त एतत्, उदके विशीर्णं त एतत् । सगतिकेन सनकुलेन च समासः सिद्धो भवति ॥
Kashika¶
क्ते कर्मणीति वर्तते। कर्मवाचिनि क्तान्त उत्तरपदे गतिरनन्तरः पूर्वपदं प्रकृतिस्वरं भवति। प्रकृ॑तः। प्रहृ॑तः। अनन्तर इति किम् ? अ॒भ्युद्धृ॑तः। स॒मुद्धृ॑तः। स॒मु॒दाहृ॑तः। व्यवहितस्य गतेरयं स्वरो न भवति। अनन्तरे पुनरिष्यते। कारकपूर्वस्य तु सतिशिष्टत्वात् थाथादिस्वरः (६.२.१४४) एव भवति — दू॒रा॒दा॒ग॒त इति। अनन्तरग्रहणसामर्थ्यादेव कृद्ग्रहणे गतिकारकपूर्वस्यापि० (परि० २८) इत्येतद् नाश्रीयते। कर्मणीत्येवप्॒रकृ॒तः कटं देवदत्तः। थाथादिस्वरापवादो योगः॥
Siddhanta Kaumudi¶
कर्मार्थे क्तान्ते परेऽव्यवहितो गतिः प्रकृत्या । थाथ-(SK3878) इत्यस्यापवादः । पुरोहितम् । अनन्तरः किम् । अभ्युद्धृतः । कारकपूर्वपदस्य तु सतिशिष्टस्थाथादिस्वर एव । दूरादागतः ॥
Padamanjari¶
अनन्तरः इति पुंल्लिङ्गनिर्देशाद् गतिशब्दः क्तिजन्तः, निपातनाच्चानुनासिकलोपः। प्रकृतः, प्रहृत इति । अत्र समासान्तोदातत्वम्, अव्ययपूर्वपदप्रकृतिस्वरत्वम्, कृत्सवरः, थाथादिस्वरः, इत्येतेषु प्राप्तेषु पूर्वपदप्रकृतिभावे विधीयते। व्यवहितस्य गतेरयं स्वरी न भवतीति। ननु च निर्दिष्टग्रहणमानन्तर्यार्थम्, प्रत्ययग्रहणपरिभाषया च हृतशब्दस्क्तान्तः, तत्कथं क्तान्ते परतो विधीयमानो व्यवहितस्य प्रसज्यते कृद्ग्रणपरिभाषाया एक्तान्तेऽनुप्रवेशादुच्छब्दस्य प्रसङ्ग इति चेत्, यद्येवम्, क्रियमाणेऽप्यनन्तरग्रहणे स्यात्, उद्धृतशब्दः क्तान्तस्तस्यानन्तर एव गतिरिति एव गतिरिति नैष दोषः, अनन्तरग्रहणसामर्ध्याद्धान्तोरनन्तरो गतिराश्रयिष्यते । नन्वेवमप्यत्र परत्वाद् गतिर्गतौ इति निघातो भविष्यति, सति च तस्मिन् उदातस्वरिताधिकारादेव पूर्वपदप्रकृतिस्वरस्याप्रसंग इति व्यवहितनिवृत्यर्थमनन्तरग्रहणं न कर्तव्यमनन्तरप्राप्त्यर्थं तु । तत्र च यत्रैक एव गतिस्तत्र नार्थाऽनेन । यत्र त्वनेको गतिस्तत्रासौ न प्राप्नोति, तानन्तर इत्यनेनानेकगतिसमवधानेऽनन्तरस्य प्राप्नोति, तदनन्तर इत्यनेनानेकगतिसमवधानेऽनन्तरस्य प्राप्यते अन्यथाऽभ्युद्धृतमित्यत्रोद्धःतशब्दस्य कृद्ग्रहणपरिभाषया क्तान्तत्वे सति समासान्तोदातत्वे तदपवादे च कृत्स्वरे तदवपादस्थाथादिस्वरः प्राप्नोति। ननु च यथा प्रथमे समासे गतिस्वरेण बाधितस्य थाथादिस्वरस्य पुनर्द्वितीये समासे प्राप्तिः, तथा तदपवादो गतिस्वरोऽप्यनेन पुनर्भविष्यति नैतदेवमपूर्वपदत्वात् । कुगतिप्रादयः इत्यत्र निष्कान्तोदौ पदकार्यप्रवृतये सुबित्यनुवर्तनीयम्, तत्रैकत्वस्य विवक्षितत्वात्सुबन्तसमुदायस्य चासुबन्तत्वान्न दूयोर्युगपत्समासो लभ्यत इति क्रमेणासौ विधेयः । गतिकारकोपपदानाम् इत्यनेनाप्युतरपदस्य एप्राक् सुबुत्पतेः समास उच्यते, न पूर्वपदस्यापि निष्क्रान्तचर्मकारादौ पदकार्यस्यासिद्धिप्रसङ्गात् । अत उच्छब्दस्य पूर्वं समासः, पश्चादुद्धृतशब्देनाभिशब्दस्य, ततश्चाभिशब्द एव पूर्वपदं नोच्छब्द इति एपूर्वपदं नोच्छब्द इति पूर्वपदस्य गतेः प्रकृतिस्वरो विधियमानोऽपूर्वपदो न स्याद् । अतः कक्षान्तरर्प्तमपि थाथादिस्वरं बाधित्वऽपूर्वपदस्याप्यनन्तरस्य वाक्यभेदेन प्रकृतिभावो यथा स्यादित्येवमर्थमनन्तरग्रहणम्। तदाह - अनन्तरे पुनरिष्यत इति । यद्येवम्, कारकबूर्वेऽतिप्रसङ्गः, दूरादागतो प्राप्तो देवदतेनेत्यत्राप्यागतशब्देन स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन इति समासे कृते तस्यामवस्थायां थाथादिस्वर इष्यते, तमपि बाधित्वाऽपूर्वपदस्याप्युद एव स्वरः प्राप्नेति नैष दोषः थाथादिसूत्रे गतिग्रहणं निवतिष्यते ततः किम् प्रकृतमित्यादौ कृत्स्वरस्यैव प्राप्तत्वातस्यैव गतिस्वरापवादः,न तु थाथादिस्वरस्य प्रसङ्गः, तत्र स एव भविष्यति। अभ्युद्धृतमित्यादौ तु यत्र कक्षान्तरेऽपि कृत्स्पर एव प्राप्तस्तत्रापि स एव भविष्यतीति ततश्चापूर्वपदार्थमनन्तरघणमपि न कर्तव्यं भवति। कथमुद्धृतशब्दे गतिस्वरे प्रवृते पश्चादभिशब्दस्य समासे कृते गतिर्गतौ इतीति निघाते चोदातस्वरिताधिकाराद् गतिरित्यस्य पूर्वपदप्रकृतिभावस्याप्रवृततौ समासस्वरापवादः कृत्स्वरो भवन् कृद्ग्रहणपरिभाश्योद्धृतशब्दस्य कृदन्तत्वातत्स्वर उच्छब्दोदातत्वमेव भविष्यति। यदि थाथादिशूत्रेण गतिग्रहणं निवर्तिष्यते एप्रभेद इत्यत्र कृत्स्वरेण घञो ञित्वाद्धातोरुदातत्वं स्याद्,अन्तोदातत्वं चेष्यते। एवं तर्ह्यनुवर्तते गतिग्रहणम्,क्तेन तु न सम्बद्ध्यते,तत्कथं थाथादिसूत्रात् क्तग्रहणमपनीय पृथक्कर्तव्यम् तत्र च गतिग्रहणं निवर्तिष्यते । एवमपि विशुष्क इत्यादौ यत्र कर्तरि क्तान्तमुतरपदम् शुष्कधृष्टौ इत्याकारकपूर्वस्य त्वित्यादि। एकारकपूर्वस्य तु सति शिष्टत्वात थाथादिस्वर एव भवति दूरदागत इति। दिना चाद्यौदातम् तत्र कृत्स्वरे सत्युतरपदमाद्यौदातं स्यादन्तोदातं चेष्यते।अतः कृद्ग्रहणेनापि गतिग्रहणमवश्यं सम्बन्धनीयम्,ततश्च पूर्वोक्तदोषप्रसङ्गः,तत्राह-कारकपूर्वस्य त्विति। अयमभिप्रायः-अनन्तरशब्दोऽयमननन्तरमपेक्ष्य प्रवर्तते,तत्र च अनन्तरो गतिः इत्युक्ते अननन्तरोऽपि गतिरेव प्रतीयते सन्निधानात्। ततश्चापूर्वपदार्थमप्यन्न्तरग्रहणं गतिद्वयसमवधान एवानन्तरस्य प्रकृतिस्वरत्वं प्रापयतीति दूरादागत इत्यादौ न दोष इति। अथ वा - कारकाद्दतश्रुतयोरेवाशिषि इत्यत्र कारकादिति विभज्यते, तत्र च क्तप्रहणमनुवर्तते, अन्तोदातः इति गतिः इति च, कारकात्परं क्तान्तमुतरपदमन्तोदातंभवतीत्यर्थः। तत्र दूराद् गत इत्यादौ थाथादिसूत्रेणै वान्तोदातत्वस्य सिद्धत्वाद् दूरादागत इत्यादौ गतिरनन्तरः इत्यनन्तरग्रहणेनैवापूर्वपदार्थेन प्राप्तास्य गतिस्वरस्यापवादः कारकादित्ययं योगो ज्ञायते। यद्येवम्, अनन्तरग्रहणं न कर्तव्यम्,कथमसत्यनन्तरग्रहणे दूरादागतः,आभ्युद्धृत तैत्वादौ सर्वत्र द्वितीये समासे कृते सतिशिष्टस्थाथादिस्वर एव प्राप्तः, ततश्च कारकादित्ययं योगो नियमार्थो भवति। तत्र च गतिग्रहणमनुवर्तयितव्यम्, ततश्चात्रायमर्थः - कारकादेव परं सगतिकं क्तान्तभुतरपदमन्तोदातमिति। ततश्चाभ्युद्धृत इत्यादौ नियमेन थाथादिखरे व्यावर्तिते एकृत्स्वरो भवन् कृट्ग्रहणपरिभाषयोद्धृतादेः कृदन्तत्वातस्यैव यः स्वर आद्यौदातत्वं स एव भविष्यति। ननु च विपरीतोऽपि नियमः सम्भाव्येत - कारकात्परं सगतिकमेवेति,ततश्च पूर्वह्णशुष्क इत्यत्र थाथादिस्वरे कृत्स्वरेण शुष्कधृष्टौ इत्याद्यौदातत्वं श्रूयेत नैष दोषः,आचायेप्रवृत्तिर्ज्ञापयति - न विपरीतो नियम इति, यदयम् दतश्रुतयोरेवाशिषि इत्याह। न हि विपरीते नियमे कारकात्परयोर्दतक्षुतयोरन्यस्य वा क्तान्तस्योतरपदस्यान्तोदातत्वं प्रसक्तम्। अतो नार्थोऽपूर्वपदार्थनानन्तरग्रहणेन । एवं तर्हि व्यवहितनिवृत्यथेमेवानन्तरग्रहणम्, ननु चोक्तम्-परत्वाद् गतिर्गतौ इति निध्ते कृते उदातस्वरिताधिकारादेव प्रकृतिभावस्याप्रसङ्गः इति यत्र तर्हि गतिर्गतौ इति निघातो नास्ति तत्र प्रसङ्गः। क्व चासौ नास्ति एपादादौ। वक्ष्यति हि आ पादपरिसमाप्तेरपादादावित्यधिकारः इति, तथा च चौपप्रेतकुशिताश्चेतध्वमिति पादादावुपशब्दं गतिपरमपि उदातमधीयते,तथाभ्युद्धृतमिति यदाभिशब्दः पादादौ वर्तते तदा निघाताभावादनेन व्यवहितस्यापि गतेः प्रकृतिभावः स्यात् नैतदस्ति यावता प्रत्ययग्रहणपरिभाषया हृतशब्दः क्तान्तः,नोद्धृतशब्दः। एवं तर्ह्येतद् ज्ञापयति-कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं भवतीति। ननु कृद्ग्रहणे गतिपूर्वस्य ग्रहण् ज्ञापितम्,कारकपूर्वस्य तु कथमुच्यते पूर्वचार्यैस्तावदेषा परिभाषा व्युत्पादिता,इहाप्यनन्तरग्रहणेनैकदेशद्वारेण कृत्स्न एव परिभाषार्थो ज्ञाप्यते। यदित कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं भवति, कथं समुद्धृत इति प्रत्युदाहरणम्, यावता उद्धृतशब्दः क्तान्तः, तस्य चानन्तर एव सम् इत्यत आह - अनन्तरग्रहणासामर्थ्यादिति । इह व्यवहितनिवृत्तिफलेनानन्तरग्रहणेन परिभाषाया ज्ञापनादन्तत्रैतत्फललाभ इति भावः । प्रकृतः कटमिति । आदिकर्मणि क्तः कर्तरि चेति कर्तरि प्रत्ययः॥
Nyaas¶
प्रकृतः इति। कुगतिप्रादयः` (2.2.18) इति समासः। प्रादयोऽबिवर्जिता आद्युदात्तगणे निपात्यन्ते, तेन प्रशब्द आद्युदात्तः। अभ्युद्धृतः इति। अत्र अभिशब्दस्यानन्तरस्य न भवति; अत्रोच्छशब्दस्य क्तान्तेन समासं कृत्वा पश्चादभिशब्दस्योद्धृशब्देन समासः कर्तव्यः। अथ वा -कुगतिप्रादयः (2.2.18) इत्यत्र सुब्ग्रहणस्य निवर्तितत्वादनेकसर्यापि समासो भवति। समुदाहृतः इति। अत्रापि समुदोरन्तरयोर्न भवति। कारकपूर्वस्य ति इत्यादि। दूरादागत इत्यत्राङी गतिसमासे कृते सत्यनेन प्रकृतिस्वरः, तत उदात्तो भवति। ततो दूरादागत इति स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन (2.1.39) इत्यादिना पञ्चमीसमासः, तस्मिन्? कृते गतिकारकोपपदात् कृत् (6.2.139) इति वर्तमाने थाथघञ् (6.2.143) इत्यादिनोततरपदस्यान्तोदत्तत्वं विधीयते। स च गतिस्वरे सति विधीयत इति शिष्टत्वेन स एव भवति। पञ्चम्याः स्तोकादिभ्यः (6.3.2) इत्यलुक्। अथ कथं समुद्घृतः इत्यादि प्रत्युदाहरणमुपपद्यते, यावता कृद्ग्रहणे गतकारकपूर्वस्यापि ग्रहणम् (व्या।प।126) इति गतिरिह निष्ठाग्रहणेनैव गृह्रते, एवञ्चानन्तर एव समुद्धृत इत्यत्र सम्शब्दः, समुदाहृत इत्यत्रापि समुच्छब्दौ? इत्यत आह -अनन्तरग्रहणसामर्थ्यात् इति। अनन्तरगरहणेन ह्रेवमर्थः क्रियते -समुद्धृतमित्यादौ मा भूदिति। यदि परिबाषेयमिहश्रीयतेत, तदा हि उद्धृत इत्यादौ गतिरनन्तर एवेति व्यावत्र्याभावादनन्तरग्रहणमपार्थकं स्यात्।प्रकृतः कटं देवदत्तः इति। आदिकर्मणि क्तः कर्तरि च (3.4.71) इति करत्तरि हि क्वप्रत्ययः॥
Prakriyasarvasvam¶
कमर्थिक्तान्ते परे गतिः प्राक्स्वरं स्यात् । सुकृतं सूमयन्धनुः । ‘उपसर्गाश्चा- भिवर्जम्’ (स. ८-३-१९०) अभेरन्ये प्रादय आद्युच्चाः स्युः । इति सोरुच्चत्वम् । अनन्तर इत्युक्तेः समुद्धृत इत्यादावुद एवस्वरः ।
Sutra Prayogas¶
कुतोऽधियास्यसि (भट्टिकाव्यम्): गतिरनन्तरः इति स्वराभावः।