62048: तृतीया कर्मणि

Padacheda: तृतीया | S | 1 | 1 |

कर्मणि | S | 7 | 1 |

Sutrartha


Vasu English Summary

A word ending in the Instrumental -3rd case retains its accent before the Past Participle in क्त when it has a Passive meaning.

Vasu English Translation

A word ending in the Instrumental -3rd case retains its accent before the Past Participle in क्त when it has a Passive meaning. Thus अ꣡हिहतः or अहि꣡ हतः रुद्र꣡हतः, व꣡ज्रहतः, महाराज꣡हतः, नख꣡निर्भिन्ना, दा꣡त्रलूना ॥ The word ‘ahi’ is derived from हन् with the proposition आ which is shortened, and the affix इण् (Unadi IV. 138), and has acute on the final, according to others the acute is on the first: Rudra is formed by रक् affix (Unadi II.22) added to the causative रोदि; Maharaja is formed by the Samasanta affix टच्; nakha is formed by ख affix added to नह् (Unadi V. 23) or it may be a Bahuvrihi नास्य खमस्ति = नखः, formed by अच् (5.4.121), and has acute on the final : Datra is formed by ष्ट्रन् (3.2.182). Why do we say when having a Passive signification? Observe रथेन यातः = रथयातः, the ‘kta’ is added to a verb of motion with an Active significance.

Kashika

कर्मवाचिनि क्तान्त उत्तरपदे तृतीयान्तं पूर्वपदं प्रकृतिस्वरं भवति। अ॒हिह॑तः, अहि॑हतः। व॒ज्रह॑तः। म॒हा॒रा॒जह॑तः। न॒खनि॑र्भिन्ना। दात्र॑लूना। आङि श्रीहनिभ्यां ह्रस्वश्च (प०उ० ४.१३९) इति अहिरन्तोदात्तो व्युत्पादितः। केचिदाद्युदात्तमिच्छन्ति। वज्रो रक्प्रत्ययान्तः। महाराजष्टच्प्रत्ययान्तः। नास्य खमस्तीति बहुव्रीहौ नकुलनख० (६.३.७५) इति नखशब्दो निपातितः। तेन नञ्सुभ्याम् (६.२.१७२) इत्यन्तोदात्तः। दात्रशब्दो दाम्नीशस० (३.२.१८२) इति ष्ट्रन्प्रत्ययान्तः। कर्मणीति किम्? रथेन यातो र॒थ॒या॒तः। गत्यर्थत्वात् कर्तरि क्तः॥

Siddhanta Kaumudi

कर्मवाचके क्तान्ते परे तृतीयान्तं प्रकृत्या । त्वोतासः । रुद्रहतः । महाराजहतः । रुद्रो रगन्तः । कर्मणि किम् । रथेन यातो रथयातः ॥

Padamanjari

अयमपि थाथादिस्वरपवादः। अहिरन्तोदात इति । आङ्पूर्वाद्धनो डिप्रत्ययः, आङ्श्च ह्रस्वः। आहन्ति परान्, आहन्यते परैरिति वा अहिः। केचिदिति। ते तत्रोदातग्रहणमनुवर्तयन्ति, तथात च -अहन्नहिम्, अहिरिव भोगैरिति आद्यौदातमधीयते ॥

Nyaas

तत्पुरुषे तुल्यार्थ (6.2.2) इत्येव सिद्धे पूर्वपदप्रकृतिस्वरे च कृत्सवरेण थाथादिस्वरेण (6.2.143) बाधिते तत्प्रतिपादनार्थ वचनम्। अहिहतः इति। कर्तृकरणे कृता बहुलम् (2.1.32) इति समासः। अहिरन्तोदात्तो व्युत्पादतः इति। आङ्पूर्वाद्धन्तेः जनिघसिभ्यामिण् (द।उ।1।58) इति वर्तमाने वातेर्डिचच इति डिदिति च आङिश्रिहनिभ्यां ह्रस्वश्च (द।उ।1।66) इत्यनेनाहिरिणन्तो व्युत्पादितः। केचिदादयुदात्तमिच्छन्ति इति। ते समाने ख्यः स चोदात्तः (पं।उ।4।136) इत्युदात्तग्रहणमप्यनुवर्तयन्ति। रक्प्रत्ययान्तः इति। स्फायितञ्चि (द।उ।8।31) इत्यादिना रक्प्रत्ययान्तत्वेन व्युत्पादितत्वात्। महाराजष्टच्प्रत्ययान्तः इति। स्फायितञ्चि (द।उ।8।31) इत्यादिना रक्प्रत्ययान्तत्वेन व्युत्वादितत्वात्। महाराजष्टच्परत्ययान्तः इति। राजाहःसखिभ्यष्टच् (5.4.91) इति टच्प्रत्ययान्तत्वात्। दात्रलूना इति। धः कर्मणि ष्ट्रन् (3.2.181) इत्यनुवर्तमाने दाम्नीशस् (3.2.182) इत्यादिना ष्ट्रन्? प्रत्ययान्तो दात्रशब्दो व्युत्पाद्यते, तेनाद्युदात्तः। सर्वत्र तयोरेव कृत्यतखलार्थाः (3.4.70) इति कर्मणि क्तः॥

Prakriyasarvasvam

कर्मार्थे क्तान्ते परे तृतीयान्तं प्राक्पदं प्रकृत्या स्यात् । दात्रलूनः ।