62048: तृतीया कर्मणि ==================== **Padacheda:** तृतीया | S | 1 | 1 | कर्मणि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A word ending in the Instrumental -3rd case retains its accent before the Past Participle in क्त when it has a Passive meaning. Vasu English Translation ------------------------ A word ending in the Instrumental -3rd case retains its accent before the Past Participle in क्त when it has a Passive meaning. Thus अ꣡हिहतः or अहि꣡ हतः रुद्र꣡हतः, व꣡ज्रहतः, महाराज꣡हतः, नख꣡निर्भिन्ना, दा꣡त्रलूना ॥ The word '*ahi*' is derived from हन् with the proposition आ which is shortened, and the affix इण् (*Unadi* IV. 138), and has acute on the final, according to others the acute is on the first: *Rudra* is formed by रक् affix (*Unadi* II.22) added to the causative रोदि; *Maharaja* is formed by the *Samasanta* affix टच्; *nakha* is formed by ख affix added to नह् (*Unadi* V. 23) or it may be a *Bahuvrihi* नास्य खमस्ति = नखः, formed by अच् (5.4.121), and has acute on the final : *Datra* is formed by ष्ट्रन् (3.2.182). Why do we say when having a Passive signification? Observe रथेन यातः = रथयातः, the '*kta*' is added to a verb of motion with an Active significance. Kashika ------- कर्मवाचिनि क्तान्त उत्तरपदे तृतीयान्तं पूर्वपदं प्रकृतिस्वरं भवति। अ॒हिह॑तः, अहि॑हतः। व॒ज्रह॑तः। म॒हा॒रा॒जह॑तः। न॒खनि॑र्भिन्ना। दात्र॑लूना। **आङि श्रीहनिभ्यां ह्रस्वश्च** (प०उ० ४.१३९) इति अहिरन्तोदात्तो व्युत्पादितः। केचिदाद्युदात्तमिच्छन्ति। वज्रो रक्प्रत्ययान्तः। महाराजष्टच्प्रत्ययान्तः। नास्य खमस्तीति बहुव्रीहौ नकुलनख० (६.३.७५) इति नखशब्दो निपातितः। तेन **नञ्सुभ्याम्** (६.२.१७२) इत्यन्तोदात्तः। दात्रशब्दो **दाम्नीशस०** (३.२.१८२) इति ष्ट्रन्प्रत्ययान्तः। कर्मणीति किम्? रथेन यातो र॒थ॒या॒तः। गत्यर्थत्वात् कर्तरि क्तः॥ Siddhanta Kaumudi ----------------- कर्मवाचके क्तान्ते परे तृतीयान्तं प्रकृत्या । त्वोतासः । रुद्रहतः । महाराजहतः । रुद्रो रगन्तः । कर्मणि किम् । रथेन यातो रथयातः ॥ Padamanjari ----------- अयमपि थाथादिस्वरपवादः। अहिरन्तोदात इति । आङ्पूर्वाद्धनो डिप्रत्ययः, आङ्श्च ह्रस्वः। आहन्ति परान्, आहन्यते परैरिति वा अहिः। केचिदिति। ते तत्रोदातग्रहणमनुवर्तयन्ति, तथात च -अहन्नहिम्, अहिरिव भोगैरिति आद्यौदातमधीयते ॥ Nyaas ----- `तत्पुरुषे तुल्यार्थ` (6.2.2) इत्येव सिद्धे पूर्वपदप्रकृतिस्वरे च कृत्सवरेण थाथादिस्वरेण (6.2.143) बाधिते तत्प्रतिपादनार्थ वचनम्। `अहिहतः` इति। **कर्तृकरणे कृता बहुलम्** (2.1.32) इति समासः। `अहिरन्तोदात्तो व्युत्पादतः` इति। आङ्पूर्वाद्धन्तेः `जनिघसिभ्यामिण्` (द।उ।1।58) इति वर्तमाने `वातेर्डिचच` इति डिदिति च `आङिश्रिहनिभ्यां ह्रस्वश्च` (द।उ।1।66) इत्यनेनाहिरिणन्तो व्युत्पादितः। `केचिदादयुदात्तमिच्छन्ति` इति। ते `समाने ख्यः स चोदात्तः` (पं।उ।4।136) इत्युदात्तग्रहणमप्यनुवर्तयन्ति। `रक्प्रत्ययान्तः` इति। `स्फायितञ्चि` (द।उ।8।31) इत्यादिना रक्प्रत्ययान्तत्वेन व्युत्पादितत्वात्। `महाराजष्टच्प्रत्ययान्तः` इति। `स्फायितञ्चि` (द।उ।8।31) इत्यादिना रक्प्रत्ययान्तत्वेन व्युत्वादितत्वात्। `महाराजष्टच्परत्ययान्तः` इति। `राजाहःसखिभ्यष्टच्` (5.4.91) इति टच्प्रत्ययान्तत्वात्। `दात्रलूना` इति। **धः कर्मणि ष्ट्रन्** (3.2.181) इत्यनुवर्तमाने `दाम्नीशस्` (3.2.182) इत्यादिना ष्ट्रन्? प्रत्ययान्तो दात्रशब्दो व्युत्पाद्यते, तेनाद्युदात्तः। सर्वत्र `तयोरेव कृत्यतखलार्थाः` (3.4.70) इति कर्मणि क्तः॥ Prakriyasarvasvam ----------------- कर्मार्थे क्तान्ते परे तृतीयान्तं प्राक्पदं प्रकृत्या स्यात् । दात्रलूनः ।