62047: अहीने द्वितीया¶
Padacheda: अहीने | S | 7 | 1 |
द्वितीया | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
Before the Past Participle in क्त , a word ending in the Accusative -2nd case retains its accent when it does not mean a separation.
Vasu English Translation¶
Before the Past Participle in क्त , a word ending in the Accusative -2nd case retains its accent when it does not mean a separation. Thus कष्ट꣡श्रितः, त्रिश꣡कलपतितः, ग्रा꣡मगतः ॥ Kashta has acute on the end, trisakala is a Bahuvrihi compound (trini sakalani asya), and consequently acute on the first : grama has acute on the first as it is formed by the नित् affix मन् added to ग्रस्, the final being replaced by आ (Unadi I.143) ॥ Why do we say ‘when not meaning separation’? Observe कान्तारातीतः꣡, योजनातीतः, because one has taken himself beyond kantara and yojana.
Vart:- This rule does not apply when the Past Participle has an upasarga attached; as सुखप्राप्तः꣡, दुःखप्राप्तः꣡, सुखापन्नः꣡, दुःखापन्नः꣡ (6.4.144). This is an exception to rule (6.2.144).
Bhashya¶
अहीने द्वितीया (2707) (पदकृत्यभाष्यम्) अहीन इति किमर्थम् ? कान्तारातीतः, योजनातीतः ॥ (6340 उपसंख्यानवार्तिकम् ॥ 1 ॥) - अहीने द्वितीयाऽनुपसर्गे - अहीने द्वितीयाऽनुपसर्गे इति वक्तव्यम् । इह मा भूत् - सुखं प्राप्तः - सुखप्राप्तः । दुःखं प्राप्तः - दुःखप्राप्त इति ॥ (अहीनपदाभावे उपसंख्यानबोधकभाष्यम्) तत्तर्हि वक्तव्यम् । यद्यप्येतदुच्यते, अत वै तर्ह्यहीनग्रहणं न करिष्यते । इहापि -कान्तारातीतः, योजनातीत इति - अनुपसर्गे इत्येव सिद्धम् ॥
Kashika¶
अहीनवाचिनि समासे क्तान्त उत्तरपदे द्वितीयान्तं पूर्वपदं प्रकृतिस्वरं भवति। क॒ष्टश्रि॑तः। त्रिश॑कलपतितः। ग्राम॑गतः। कष्टशब्दोऽन्तोदात्तः। त्रीणि शकलान्यस्येति त्रिशकलः। बहुब्रीहिस्वरेणाद्युदात्तः। ग्रामशब्दो नित्स्वरेणाद्युदात्तः। अहीन इति किम्? का॒न्ता॒रा॒ती॒तः। यो॒ज॒ना॒ती॒तः॥ द्वितीयानुपसर्ग इति वक्तव्यम्॥ इह मा भूत् — सु॒ख॒प्रा॒प्तः। दुः॒ख॒प्रा॒प्तः। सु॒खा॒प॒न्नः। दुः॒खा॒पन्नः। अन्तः थाथ० (६.२.१४४) इत्यस्यापवादोऽयम्॥
Siddhanta Kaumudi¶
समासे क्तान्ते परे द्वितीयान्तं प्रकृत्या । कष्टश्रितः । ग्रामगतः । कष्टशब्दोऽन्तोदात्तः । ग्रामशब्दो नित्स्वरेण । अहीने किम् । कान्तारातीतः ॥ अनुपसर्ग इति वक्तव्यम् ॥ नेह सुखप्राप्तः । थाथ-(SK3878) इत्यस्यापवादोऽयम् ॥
Padamanjari¶
हीनम् - त्यक्तम्। अहीनयाचिनि समास इति । पूर्वपदद्वारेण तसमासस्याहिनवाचित्वम्। द्वितीयानुपसर्ग इति वक्तव्यमिति । अहीनग्रहणमपनीय अनुपसर्गग्रहणं कर्तव्यम्, व्यापकत्वादित्यर्थः। इह मा भूदिति। इहापि मा भूदित्यर्थः। अनुपसर्गग्रहणे चेह क्रियमाणे प्रवृद्धादिषु खट्वारूढशब्दो न पाठयः, आरूढशब्दस्य सोपसर्गत्वात्। एतत्स्वराभावे थाथादिस्वरेणैवान्तोदातस्य सिद्धत्वात्॥
Nyaas¶
हीनम्=त्यक्तम्, न हीनमहीनम्। कष्टशब्दोऽन्तोदात्तः इति। क्तप्रत्ययान्तत्वात्? प्रत्ययस्वरेण। कृच्छ्रगहनयोः कष (7.2.22) इतीट्प्रतिषेधः। बहुविरीहिस्वरेणाद्युदात्तः इति। त्रिशब्दो हि प्रातिपदिकस्वरेणान्तोदात्तः। तत्र बहुव्रीहौ प्रकृत्या (6.2.1) इति प्रकृतिस्वरे कृते बहुव्रीहिस्वरेण त्रिशकलशब्द आद्युदात्तः। ग्रामशब्दोऽपि आद्युदात्त एव। तथा ह्रसौ अर्तिस्तुसुहुसृधुक्षि (द।उ।7।26) इत्यतो मन्परतययेऽनुवर्तमाने अवतेष्टिलोपश्च (द।उ।7।27) ग्रसतेरा च (द।उ।7।28) इति मन्प्रत्ययान्तो व्युत्पाद्यते। कान्तारातीतः इति। कान्तारमतीतवान्, त्यक्तवानित्यर्थः। कान्तारातीतशब्दोऽत्रि हीनशब्दवची।द्वितीयानुपसर्ग इति वक्तव्यम् इति। द्वितीयान्तमनुपसर्गे क्तन्ते प्रकृतिस्वरं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं त्विहापि तस्यैवान्यतरस्यांग्रहणस्यानुवृतिंत व्यवस्थितविभाषात्वं चाश्रित्य कर्तव्यम्॥
Prakriyasarvasvam¶
अत्यक्तवाचिनि समासे क्तान्ते परे प्राक्पदं प्रकृत्या स्यात् । कृष्णश्रितः । कालिन्दीपतितः । व्रजगतः । कालिन्द्याँ ङीप्युदात्तनिवृत्तिस्वरः । हीने तु दुःखातीतः । हीनपदमपनीय<!द्वितीयानुपसर्गे इति वाच्यम्!> (वा.) । तेन सुखप्राप्त इत्यादौ न । ‘अन्तः’ (६-२-१४३) थाथ—(६-२-१४४) इत्यस्या- पवादोऽयम् ।
Vartika¶
अनुपसर्ग इति वक्तव्यम् ।