62047: अहीने द्वितीया ===================== **Padacheda:** अहीने | S | 7 | 1 | द्वितीया | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- Before the Past Participle in क्त , a word ending in the Accusative -2nd case retains its accent when it does not mean a separation. Vasu English Translation ------------------------ Before the Past Participle in क्त , a word ending in the Accusative -2nd case retains its accent when it does not mean a separation. Thus कष्ट꣡श्रितः, त्रिश꣡कलपतितः, ग्रा꣡मगतः ॥ *Kashta* has acute on the end, *trisakala* is a *Bahuvrihi* compound (*trini* *sakalani* *asya*), and consequently acute on the first : *grama* has acute on the first as it is formed by the नित् affix मन् added to ग्रस्, the final being replaced by आ (*Unadi* I.143) ॥ Why do we say 'when not meaning separation'? Observe कान्तारातीतः꣡, योजनातीतः, because one has taken himself beyond *kantara* and *yojana*. Vart:- This rule does not apply when the Past Participle has an *upasarga* attached; as सुखप्राप्तः꣡, दुःखप्राप्तः꣡, सुखापन्नः꣡, दुःखापन्नः꣡ (6.4.144). This is an exception to rule (6.2.144). Bhashya ------- अहीने द्वितीया (2707) (पदकृत्यभाष्यम्) अहीन इति किमर्थम् ? कान्तारातीतः, योजनातीतः ॥ (6340 उपसंख्यानवार्तिकम् ॥ 1 ॥) - अहीने द्वितीयाऽनुपसर्गे - अहीने द्वितीयाऽनुपसर्गे इति वक्तव्यम् । इह मा भूत् - सुखं प्राप्तः - सुखप्राप्तः । दुःखं प्राप्तः - दुःखप्राप्त इति ॥ (अहीनपदाभावे उपसंख्यानबोधकभाष्यम्) तत्तर्हि वक्तव्यम् । यद्यप्येतदुच्यते, अत वै तर्ह्यहीनग्रहणं न करिष्यते । इहापि -कान्तारातीतः, योजनातीत इति - अनुपसर्गे इत्येव सिद्धम् ॥ Kashika ------- अहीनवाचिनि समासे क्तान्त उत्तरपदे द्वितीयान्तं पूर्वपदं प्रकृतिस्वरं भवति। क॒ष्टश्रि॑तः। त्रिश॑कलपतितः। ग्राम॑गतः। कष्टशब्दोऽन्तोदात्तः। त्रीणि शकलान्यस्येति त्रिशकलः। बहुब्रीहिस्वरेणाद्युदात्तः। ग्रामशब्दो नित्स्वरेणाद्युदात्तः। अहीन इति किम्? का॒न्ता॒रा॒ती॒तः। यो॒ज॒ना॒ती॒तः॥ द्वितीयानुपसर्ग इति वक्तव्यम्॥ इह मा भूत् — सु॒ख॒प्रा॒प्तः। दुः॒ख॒प्रा॒प्तः। सु॒खा॒प॒न्नः। दुः॒खा॒पन्नः। अन्तः **थाथ०** (६.२.१४४) इत्यस्यापवादोऽयम्॥ Siddhanta Kaumudi ----------------- समासे क्तान्ते परे द्वितीयान्तं प्रकृत्या । कष्टश्रितः । ग्रामगतः । कष्टशब्दोऽन्तोदात्तः । ग्रामशब्दो नित्स्वरेण । अहीने किम् । कान्तारातीतः ॥ अनुपसर्ग इति वक्तव्यम् ॥ नेह सुखप्राप्तः । थाथ-(SK3878) इत्यस्यापवादोऽयम् ॥ Padamanjari ----------- हीनम् - त्यक्तम्। अहीनयाचिनि समास इति । पूर्वपदद्वारेण तसमासस्याहिनवाचित्वम्। द्वितीयानुपसर्ग इति वक्तव्यमिति । अहीनग्रहणमपनीय अनुपसर्गग्रहणं कर्तव्यम्, व्यापकत्वादित्यर्थः। इह मा भूदिति। इहापि मा भूदित्यर्थः। अनुपसर्गग्रहणे चेह क्रियमाणे प्रवृद्धादिषु खट्वारूढशब्दो न पाठयः, आरूढशब्दस्य सोपसर्गत्वात्। एतत्स्वराभावे थाथादिस्वरेणैवान्तोदातस्य सिद्धत्वात्॥ Nyaas ----- हीनम्=त्यक्तम्, न हीनमहीनम्। `कष्टशब्दोऽन्तोदात्तः` इति। क्तप्रत्ययान्तत्वात्? प्रत्ययस्वरेण। `कृच्छ्रगहनयोः कष` (7.2.22) इतीट्प्रतिषेधः। `बहुविरीहिस्वरेणाद्युदात्तः` इति। त्रिशब्दो हि प्रातिपदिकस्वरेणान्तोदात्तः। तत्र `बहुव्रीहौ प्रकृत्या` (6.2.1) इति प्रकृतिस्वरे कृते बहुव्रीहिस्वरेण त्रिशकलशब्द आद्युदात्तः। ग्रामशब्दोऽपि आद्युदात्त एव। तथा ह्रसौ `अर्तिस्तुसुहुसृधुक्षि` (द।उ।7।26) इत्यतो मन्परतययेऽनुवर्तमाने `अवतेष्टिलोपश्च` (द।उ।7।27) `ग्रसतेरा च` (द।उ।7।28) इति मन्प्रत्ययान्तो व्युत्पाद्यते। `कान्तारातीतः` इति। कान्तारमतीतवान्, त्यक्तवानित्यर्थः। कान्तारातीतशब्दोऽत्रि हीनशब्दवची।`द्वितीयानुपसर्ग इति वक्तव्यम्` इति। द्वितीयान्तमनुपसर्गे क्तन्ते प्रकृतिस्वरं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं त्विहापि तस्यैवान्यतरस्यांग्रहणस्यानुवृतिंत व्यवस्थितविभाषात्वं चाश्रित्य कर्तव्यम्॥ Prakriyasarvasvam ----------------- अत्यक्तवाचिनि समासे क्तान्ते परे प्राक्पदं प्रकृत्या स्यात् । कृष्णश्रितः । कालिन्दीपतितः । व्रजगतः । कालिन्द्याँ ङीप्युदात्तनिवृत्तिस्वरः । हीने तु दुःखातीतः । हीनपदमपनीय (वा.) । तेन सुखप्राप्त इत्यादौ न । 'अन्तः' (६-२-१४३) थाथ—(६-२-१४४) इत्यस्या- पवादोऽयम् । Vartika ------- अनुपसर्ग इति वक्तव्यम् ।