62046: कर्मधारयेऽनिष्ठा¶
Padacheda: कर्मधारये | S | 7 | 1 |
अनिष्ठा | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
Before the Past Participle in क्त the first member when it itself is not a Past Participle, retains its original accent in a कर्मधारय समास ।
Vasu English Translation¶
Before the Past Participle in क्त the first member when it itself is not a Past Participle, retains its original accent in a कर्मधारय समास । This rule is confined to the Past Participles and the Nouns specifically mentioned in (2.1.59); on the maxim of pratipadokta &c. Thus श्रेणिकृताः, पूग꣡कृताः, ऊक꣡कृताः, निध꣡नकृताः ॥ The word श्रे꣡णि has acute on the first as it is formed by the affix नि which is considered नित् (Unadi IV. 51). The word पूग is end-acute as it is formed by the affix गक् (Unadi I.124). The word ऊक is also end-acute (6.2.32). The word निध has acute on the middle. Why do we say in a Karmadharaya compound? Observe श्रेण्या कृतं = श्रेनिकृत꣡म् ॥ Why do we say ‘when it is a non-nishtha word ?’ Observe कृताकृतम् ॥ Here the compounding is by (2.1.60).
Kashika¶
कर्मधारये समासे क्त ान्त उत्तरपदेऽनिष्ठान्तं पूर्वपदं प्रकृतिस्वरं भवति। श्रेणि॑कृताः। ऊ॒ककृ॑ताः। पू॒गकृ॑ताः। नि॒धन॑कृताः। श्रेणिशब्द आद्युदात्तः। ऊकपूगशब्दावन्तोदात्तौ। निधनशब्दोऽयं मध्योदात्तः। कर्मधारय इति किम्? श्रेण्या कृतं श्रे॒णि॒कृ॒तम्। अनिष्ठेति किम्? कृ॒ता॒कृ॒तम्॥
Siddhanta Kaumudi¶
क्तान्ते परे पूर्वमनिष्ठान्तं प्रकृत्या । श्रेणिकृताः । श्रेणिशब्द आद्युदात्तः । पूगकृताः । पूगशब्दोऽन्तोदात्तः । कर्मधारये किम् । श्रेण्या कृतं श्रेणिकृतम् । अनिष्ठा किम् । कृताकृतम् ॥
Padamanjari¶
श्रिञ् सेवायाम्, औणादिके निन्प्रत्यये श्रेणिः, मुदि ग्रो गग्गौ,बहुलवचनात्पूङेऽपि गक् पूगः। कृताकृतमिति । क्तेन नञ्विशिष्टेनानञ् इति समासः । अनिहष्टेत्यनुच्यमानेऽत्रैव स्यात्, अयं हि क्तसंशब्द नेन विहितत्वाच्छ्राएण्यादिसमासादपि प्रतिपदोक्तः ॥
Nyaas¶
श्रेणिकृताः इत्यादि। श्रेण्यादयः कृतादिभिः (2.1.59) इति समासः। श्रेणिशब्द आद्युदात्तः इति। नित्स्वरेण। स हि वीज्याज्वरिभ्यो निः (द।उ।1।18) इत्यतो निरिति वर्तमाने वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित् (द।उ।1।21) [वहिश्रियुश्रुग्लाहात्वरिभ्यो नित् द।उ।] इत्येवं व्युत्पाद्यते, तेनाद्युदात्तः। पूगशब्दोऽन्तोदात्तः इति। मुदिग्रोर्गग्गौ (द।उ।3।66) इति बहुलवचनात्? पूञोऽपि गक्। तेन प्रत्ययस्वरेणान्तोदात्तः। कृताकृतम् इति। कृतञ्च तदकृतं चेति क्तेन नञ्विशिष्टेनानञ् (2.1.60) इति समासः। एकदेशस्य कृतत्वात्? कृतम्, तदैवैकदेशस्याकृतत्वादकृतम्॥
Prakriyasarvasvam¶
अत्र क्तान्ते परे निष्ठान्तादन्यत् प्राक्पदं प्रकृत्या स्यात् । श्रेणीकृतः । श्रेण्याद्युदात्तः । निष्ठान्ते तु कृताकृतम् ।