62027: आदिः प्रत्येनसि ====================== **Padacheda:** आदिः | S | 1 | 1 | प्रत्येनसि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In a कर्मधारय समास of कुमार followed by प्रत्येनस् the acutely accented (उदात्त) falls on the first syllable of कुमार। Vasu English Translation ------------------------ In a कर्मधारय समास of कुमार followed by प्रत्येनस् the acutely accented (उदात्त) falls on the first syllable of कुमार। The word प्रत्येनस् = प्रतिगत एनसा or प्रतिगतमेनो यस्य ॥ Thus कु꣡मारप्रत्येनाः ॥ The word *udatta* is required to be read into the *sutra* to complete the sense : for the construction of the *sutra* requires it, and the *anuvritti* of the 'first member preserves its accent' would be inappropriate because the word आदि is employed here. Kashika ------- कर्मधारय इति वर्तते। प्रतिगत एनसा, प्रतिगतमेनो वा यस्य स प्रत्येनाः। तस्मिन्नुत्तरपदे कर्मधारये कुमारस्यादिरुदात्तो भवति। कुमा॑रप्रत्येनाः। उदात्त इत्येतदत्र सामर्थ्याद् वेदितव्यम्। पूर्वपदप्रकृतिस्वर एव ह्ययमादेरुपदिश्यते॥ Siddhanta Kaumudi ----------------- कुमारस्यादिरुदात्तः प्रत्येनसि परे कर्मधारये । प्रतिगतमेनोऽस्य प्रत्येनाः । कुमारप्रत्येनाः ॥ Padamanjari ----------- प्रतिगत एनसेति। अवादयः कुष्टाद्यर्थे तृतीयया इति तत्पुरुषः । द्वितीये तु विग्रहे बहुव्रीहिः । कथं पुननन्तरेणोदातग्रहमुदातस्वरो लभ्यते इत्याह - उदात इत्येतदिति । सामर्थ्यमेव दर्शयति । पूर्वपदेति । प्रकृत्येति हि वर्तते, तत्रैवमभिसम्बन्धः - पूर्वत्र कुमारशब्दे प्रकृतिभावेन यः स्वरः सथापितः सोऽत्रादेर्भवतीति॥ Nyaas ----- `प्रतिगत एनसा` इति। अनेन `अवादयः क्रुष्टाद्यर्थे तृतीयया` (वा।92) इति तत्पुरुषत्वं प्रत्येनःशब्दस्य दर्शयति। `प्रतिगतमेनो वा यस्य` इति। अनेन बहुव्रीहित्वम्। `कुमारप्रत्येनाः` इति। **अत्वसन्तस्य चाधातोः** (6.4.14) इति दीर्घः। ननु च नेह सूत्र उदात्तग्रहणमस्ति, तत्? कथमुदात्तस्वरो लभ्यते? इत्याह -`उदात्त इत्येतदिह` इत्यादि। किं पुनस्तत्सामर्थ्यम्? इत्याह -`पूर्वपद` इत्यादि। न हि प्रकृतिस्वरादन्य एव स्वर उच्यते। किं तर्हि? प्रकृतिस्वर एव; यतः प्रकृत्येति वर्तते। तत्रैवमभिसम्बन्धः क्रियते -प्रकृतिभावेन कमारशब्दस्य यः स्वरः प्राप्तः स आदेर्भवतीति। एवञ्च सामर्थ्यादुदात्तो लभ्यते। स एव हि कुमारशब्दस्य प्रकृतिभावेन स्वरः॥ Prakriyasarvasvam ----------------- कर्मधारयेऽस्मिन्परे कुमारस्यादिरुदात्तः स्यात् । कुमारप्रत्येनाः । प्रतिगत- एनसा प्रतिगतमेनो वा यस्येति व्युत्पत्तिः ।