61222: चौ

Padacheda: चौ | S | 7 | 1 |

Sutrartha


Vasu English Summary

In compound words ending in अञ्च् , the final vowel of the preceding word has the acute accent in the weak cases in which only च् of अञ्च् remains.

Vasu English Translation

In compound words ending in अञ्च् , the final vowel of the preceding word has the acute accent in the weak cases in which only च् of अञ्च् remains. Thus द꣡धीचः पश्य; द꣡धीचा, दधी꣡चेः मधू꣡चः पश्य, मधू꣡चा, मधू꣡चे ॥ This is an exception to (6.1.161), (6.1.170) and (6.2.52).

Vart:- This rule does not apply before a Taddhita affix. As दाधीचः꣡, माधूचः꣡ ॥ Here the accent is regulated by the affix (3.1.3).

Bhashya

चौ (2659) (6321 उपसंख्यानवार्तिकम् ॥ 1 ॥) - चोरतद्धिते - चुस्वरः अतद्धिते इति वक्तव्यम् । इह मा भूत् - दाधीचः, माधूचेति ॥ (वार्तिकाक्षेपभाष्यम्) तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । प्रत्ययस्वरोऽत्र बाधको भविष्यति ॥ (समाधानभाष्यम्) स्थानान्तरप्राप्तश्चुस्वरः । प्रत्ययस्वरस्यापवादः अनुदात्तौ सुप्तितौ (3.1.4) इति । अनुदात्तौ सुप्तितावेतस्योदात्तनिवृत्तिस्वरः । उदात्तनिवृत्तिस्वरस्य चुस्वरः । स यथैवोदात्तनिवृत्तिस्वरं बाधते, एवं प्रत्ययस्वरमपि बाधेत ॥ (समाधानाक्षेपभाष्यम्) नात्रोदात्तनिवृत्तिस्वरः प्राप्नोति । किं कारणम् ? न गोश्वन्साववर्ण - (6.1.182) इति प्रतिषेधात् ॥ (प्रत्याक्षेपभाष्यम्) नैष उदात्तनिवृत्तिस्वरस्य प्रतिषेधः । कस्य तर्हि ? तृतीयादिस्वरस्य ॥ (प्रत्याक्षेपसमाधानभाष्यम्) यत्र तर्हि तृतीयादिस्वरो नास्ति - दधीचः पश्येति ॥ (सिद्धान्तभाष्यम्) एवं तर्हि न तृतीयादिलक्षणस्य प्रतिषेधं शिष्मः । किं तर्हि ? येन केन चिल्लक्षणेन प्राप्तस्य विभक्तिस्वरस्य प्रतिषेधम् । यदि विभक्तिस्वरस्य प्रतिषेधः, वृक्षवान् - प्लक्षवान् - अत्र न प्राप्नोति । मतुब्ग्रहणमपि प्रकृतमनुवर्तते । क्व प्रकृतम् ? ह्रस्वनुड्भ्यां मतुप् (176) इति । यदि तदनुवर्तते, वेतस्वान् - अत्रापि प्राप्नोति । मतुब्ग्रहणमनुवर्तते, ड्मतुश्चैषः । यदि तर्हि मतुपो ग्रहणे ड्मतुपो ग्रहणं न भवति, वेतस्वानिति वत्वं न प्राप्नोति । सामान्यग्रहणं वत्वे, इह पुनर्विशिष्टस्य ग्रहणम् । यत्र तर्हि विभक्तिर्नास्ति - दधीची - इति । यदि पुनरयमुदात्तनिवृत्तिस्वरस्यापि प्रतिषेधो विज्ञायेत । नैवं शक्यम् । इहापि प्रसज्येत - कुमारीति ॥ सति शिष्टः खल्वपि चुस्वरः । कथम् ? चौ इत्युच्यते । यत्रास्यैतद्रूपम् । क्व चास्यैतद्रूपम् ? यजादावसर्वनामस्थानेऽभिनिर्वृत्ते नकारलोपेऽकारलोपे च । तस्मात्सुष्ठूच्यते - चोरतद्धित इति ॥

Kashika

चावित्यञ्चतिर्लुप्तनकारो गृह्यते। तस्मिन् परतः पूर्वस्यान्त उदात्तो भवति। द॒धीचः॑ पश्य। द॒धीचा॑। द॒धीचे॑। म॒धूचः॑ पश्य। म॒धूचा॑। म॒धूचे॑। उदात्तनिवृत्तिस्वरापवादोऽयम्॥ चावतद्धित इति वक्त व्यम्॥ दा॒धी॒चः। मा॒धू॒चः। प्रत्ययस्वर एवात्र भवति॥

Siddhanta Kaumudi

लुप्ताकारेऽञ्चतौ परे पूर्वस्यान्तोदात्तः स्यात् । उदात्तनिवृत्तिस्वरापवादः । देवद्रीचीं नयत देवयन्तः (दे॒व॒द्रीचीं॑ नयत देव॒यन्तः॑) ।<!अतद्धित इति वाच्यम् !> (वार्तिकम्) ॥ दाधीचः । माधूचः । प्रत्ययस्वर एवात्र ॥

Padamanjari

उदातनिवृत्तिस्वरापवादोऽयमिति। कृदुतरपदप्रकृतिस्वरेणोदातस्याञ्चत्यकारस्य विभक्तिनिमिक्तकः ठचःऽ इति लोपः। चावतद्धित इति वक्तव्यमिति। चौ यः स्वरः स तद्धिते परतो न भवतीत्यर्थः; इन्यथा योऽनुदातः प्रत्ययः -दधीचः पश्येत्यादौ, तत्र यथोदातनिवृत्तिस्वरं बाधते, तथा दाधीच इत्यादौ प्रत्ययस्वरमपि सतिशिष्ट स्वरो वादेत, तस्मादतद्धित इति वक्तव्यम्, अस्मिश्च सति उदातनिवृत्तिस्वरस्यायमपवादो भवति ॥

Nyaas

उदात्तनिवृत्तिस्वरापवादोऽयम् इति। दधीचः इति। दध्यञ्चतीति क्विन्, गतिकारकोपपदात् कृत् (6.2.139) इत्युत्तरपदप्रकृतिस्वरेणाञ्चेरकार उदात्तः। विभक्तावजादावसर्वनामस्थाने अचः (6.4.138) इत्यकारलोपे कृते अनुदात्तस्य च यत्रोदात्तलोपः (6.1.161) इत्युदात्तनिवृत्तिस्वरः प्राप्नोति, अतस्यस्याय मपवादः। चावतद्धिते इत्यादि। यदिदमञ्चेः पूर्वस्यान्तोदात्तत्वं विधीयते, तदा तद्धितं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानञ्चेदम् -अन्यतरस्यांग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा, तेन तद्धिते न भविष्यतीति॥

Prakriyasarvasvam

लुप्तनकाराकारेऽञ्चतौ परे पूर्वस्यान्तोदात्तः स्यात् । उदात्तनिवृत्तिस्वरा- पवादः । दधीचः पश्य । अत्र गतिपूर्वत्वे तु “अनिगन्तोऽञ्चतौ-” (६-२-५२) ‘न्यधीच’(६-२-५३) इत्याभ्य मुक्तस्वर एवेष्टः । तामु पराच आहुः । ‘चावतद्धित इति वाच्यम्’ (वा.) दाधीचः ।

Vartika

चोरतद्धित इति वक्तव्यम् ।