61223: समासस्य¶
Padacheda: समासस्य | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
A compound word has the acute on the last syllable.
Vasu English Translation¶
A compound word has the acute on the last syllable. Thus राजपुरुषः꣡ ब्राह्मणकम्बलः꣡, कन्याखनः꣡, पटहशब्दः꣡, नदीघोषः꣡, राजदृष꣡त्, ब्राह्मणसमि꣡त् ॥ The consonants being held to be non-existent for the purposes of accent, the udatta will fall on the vowel though it may not be final, the final being a consonant. The exceptions to this rule will be mentioned in the next chapter.
Bhashya¶
समासस्य (2660) (6322 उपसंख्यानवार्तिकम् ॥ 1 ॥) - समासान्तोदात्तत्वे व्यञ्जनान्तेषूपसंख्यानम् - समासान्तोदात्तत्वे व्यञ्जनान्तेषूपसंख्यानं कर्तव्यम् । राजदृषत्, ब्राह्मणसमित् ॥ (6323 परिभाषोपस्थापकवार्तिकम् ॥ 1 ॥) - हल्स्वरप्राप्तौ वा व्यञ्जनमविद्यमानवत् - अथवा हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवत् भवतीत्येषा परिभाषा कर्तव्या ॥ (उभयकरणाक्षेपभाष्यम्) किमर्थमिदमुभयमुच्यते, न हल्स्वरप्राप्तावविद्यमानवदित्येवोच्येत, स्वरप्राप्तौ व्यञ्जनमविद्यमानवद्भवति - इति वा । द्विर्बद्धं सुबद्धं भवति ॥ (परिभाषास्वरूपाक्षेपभाष्यम्) यदि हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवद्भवतीत्युच्यते, दधि - उदात्तादनुदात्तस्य स्वरितः (8.4.66) इति स्वरितत्वं न प्राप्नोति । उदात्ताच्च स्वरितविधौ व्यञ्जनमविद्यमानवद्भवतीत्येषा परिभाषा कर्तव्या ॥ (परिभाषाप्रयोजनजिज्ञासाभाष्यम्) कान्येतस्याः परिभाषायाः प्रयोजनानि ? (6324 प्रयोजनवार्तिकम् ॥ 1 ॥) - प्रयोजनं लिदाद्युदात्तान्तोदात्तविधयः - लित्यति प्रयात्पूर्वमुदात्तं भवति - इति, इहैव स्यात् - भौरिकिविधम्, भौलिकिविधम् । चिकीर्षकः, जिहीर्षक इत्यत्र न स्यात् ॥ ञ्ञ्नित्यादिरुदात्तो भवति - इति, इहैव स्यात् - अहिचुम्बकायनिः, आग्निवेश्यः, गार्ग्यः । कृतिः - इत्यत्र न स्यात् ॥ धातोरन्त उदात्तो भवति - इति, इहैव स्यात् - ऊर्णौति । पचति - इत्यत्र न स्यात् ॥ (परिभाषास्वरूपाक्षेपभाष्यम्) इदं तावदयुक्तम् - यदुच्यते - हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवद्भवतीति । कथं हि हलो नाम स्वरप्राप्तिः स्यात् ? तच्चापि ब्रुवता उदात्ताच्च स्वरितविधौ इति वक्तव्यम् । तथाऽनुदात्तादेरन्तोदात्ताच्च यदुच्यते तद्व्यञ्जनादेर्व्यञ्जनान्ताच्च न प्राप्नोति ॥ (एकदेशिनः परिभाषास्वरूपोपस्थापकभाष्यम्) यदि पुनः स्वरविधौ व्यञ्जनमविद्यमानवद्भवतीत्युच्यते । अथ स्वरविधौ व्यञ्जनमविद्यमानवद्भवतीत्युच्यमानेऽनुदात्तादेरन्तोदात्ताच्च यदुच्यते तत्किं सिद्धं भवति व्यञ्जनादेर्व्यञ्जनान्ताच्च ? बाढं सिद्धम् । कथम् ? स्वरविधिरिति सर्वविभक्त्यन्तः समासः । स्वरेण विधिः - स्वरविधिः, स्वरस्य विधिः - स्वरतो विधिः - स्वरविधिरिति । नैवं शक्यम् । इह हि दोषः स्यात् - उदश्वित्वान् घोषः, विद्युत्वान् बलाहक इति, ह्रस्वनुड्भ्यां मतुप् (6.1.176) इत्येष स्वरः प्रसज्येत ॥ (परिभाषास्वरूपस्थापकभाष्यम्) अस्तु तर्हि हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवद्भवति - इति । ननु चोक्तम् - कथं हि हलो नाम स्वरप्राप्तिः स्यात् - इति । उच्चैरुदात्तः (1.2.29) नीचैरनुदात्तः (30) इत्यत्र षष्ठीनिर्दिष्टमज्ग्रहणं निवृत्तम्, तस्मिन्निवृत्ते हलोऽपि स्वरप्राप्तिर्भवति ॥ यदप्युच्यते - उदात्ताच्च स्वरितविधाविति वक्तव्यमिति । न वक्तव्यम् । नेदं पारिभाषिकस्यानुदात्तस्य ग्रहणम् । किं तर्हि ? अन्वर्थग्रहणम् । अविद्यमानोदात्तमनुदात्तं भवति । उदात्तादनुदात्तस्य स्वरित इति ॥ यदप्युच्यते - अनुदात्तादेरन्तोदात्ताच्च यदुच्यते तद्व्यञ्जनादेर्व्यञ्जनान्ताच्च न प्राप्नोति - इति । आचार्यप्रवृत्तिर्ज्ञापयति - तत्र सिद्धं तद्भवति व्यञ्जनादेर्व्यञ्जनान्ताच्चेति, यदयं नोत्तरपदेऽनुदात्तादावित्युक्त्वा अपृथिवीरुद्रपूषमन्थिषु इति प्रतिषेधं शास्ति ॥ (परिभाषाज्ञापकोपपादकभाष्यम्) सा तर्ह्येषा परिभाषा कर्तव्या । न कर्तव्या । आचार्यप्रवृत्तिर्ज्ञापयति - भवत्येषा परिभाषेति, यदयं यतोऽनावः (6.1.213) इति नावः प्रतिषेधं शास्ति ॥ इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठस्याध्यायस्य प्रथमे पादे षष्ठमाह्निकम् ॥ पादश्च समाप्तः ॥
Kashika¶
समासस्यान्त उदात्तो भवति। रा॒ज॒पु॒रु॒षः। ब्रा॒ह्म॒ण॒क॒म्ब॒लः। क॒न्या॒स्व॒नः। प॒ट॒ह॒श॒ब्दः। न॒दी॒घो॒षः। रा॒ज॒पृ॒षत्। ब्रा॒ह्म॒ण॒स॒मित्। **स्वरविधौ व्यञ्जनमविद्यमानवद्०**इति हलन्तेऽप्यन्तोदात्तत्वं भवति। नानापदस्वरस्यापवादः॥
॥ इति श्रीवामनविरचितायां काशिकायां वृत्तौ षष्ठाध्यायस्य प्रथमः पादः॥
Siddhanta Kaumudi¶
अन्तः उदात्तः स्यात् । यज्ञश्रियम् (य॒ज्ञ॒श्रिय॑म्) ॥
Padamanjari¶
राजदृषदिति। ननु च योऽत्र समासस्यान्तो दकारो नासौ स्वरभाक्, यश्च ततः पूर्वोऽकारो नासौ समासस्यान्तः ? अत आह -स्वरविधाविति। न स्वरस्यैव विधिः, किं तर्हि ? योऽपि ठनुदातादेरञ्ऽ इत्यादिः, सोऽपि स्वरविधिः; स्वराश्रयत्वात्। तेन सोऽपि विधिर्व्यञ्जनादौ व्यञ्जनान्ते च भवति। अत्र च ज्ञापकम् -ठ्नोतरपदेऽनुदातादौऽ इत्युतवा पृथिव्याः प्रतिषेधः। नानास्वरापवाद इति यद्यपि ठनुदातं पदमेकवर्जम्ऽ इत्यस्ति, तथापि वर्जने विशेषाश्रयणात्पर्यायेण नानास्वरप्रसङ्गः। तत्र राजशब्दः’कनिन्युवृषितक्षि’ इत्यादिना कनिन्प्रत्यान्तत्वादाद्यौदातः;’पुरः कुषन्’ - पुरुषः; ब्रह्मणोऽपत्यं ब्राह्मणाः -अणन्तः;’कलतृपश्च’ ;’वृषादिभ्यश्चित्’ ;ठ्कमेर्बुक् चऽ - कम्बलः;’कन्याराजन्यशिप्यामनुप्याणामन्तः’ इति कन्याशब्दोऽनतस्वरितः;’स्वनहसोर्वा’ इत्यप्, धातुस्वरः; पटत्पटद्धन्यत इति पटहः, पृषोदरादिरन्तोदातः;’स्वनहसोर्वा’ इत्यप्, धातुस्वरः; पटत्पटद्धन्यत इति पटहः, पृषोदरादिरन्तोदातः;’शाशपिभ्यां दनौ’ , पचादिषु नदडिति पठ।ल्ते, टित्वान्ङीप्-नदी; उदातनिवृत्तिस्वरः; पोषशब्दो घञन्तः;’श्रदृभसो’ दिःऽ’दृणातेः षुग् ह्रस्वश्च’ दृषत्, प्रत्ययस्वरः; समिध्यते ययेति समित्, सम्पदादित्वात्क्विप्, कृदुतरपदप्रकृतिस्वरः -एते नानास्वराः, तेषामपवादः ॥
Nyaas¶
राजपुरुषः इत्यादिषूदहरणेषु समासपदानां तस्मस्तस्मिन्? स्वरे प्राप्ते सतीदमारभ्यते, स आख्यायते। राजशब्दे तावत्? कनिन्? युवृषितक्षिराजि (द।उ।6।51) इति कनिन्प्रत्ययान्तत्वात्? नित्स्वरेणाद्युदात्तत्वम्। एवं पुरुषेऽपि, स हि पुरः कुषन् (द।उ।6।51) इति कुषन्प्रत्ययान्तो व्युत्पाद्यते। ब्राहृण इदमिति तस्येदम् (4.3.120) इति ब्राआहृणशब्दोऽणन्तः प्रत्ययस्वरेणान्तोदात्तः। कलस्तृपश्च (दा।उ।8।107) इति बृषादिभ्यश्चित् (द।उ।8।109) बहुलवचनात्? कमेर्बुक् (द।उ।8।114) इति कम्बलशब्दो व्युत्पाद्यते, तेनायं चित्स्वरेणान्तोदात्तः। कन्यशब्दोऽन्तस्वरित; अध्न्यादयश्च (द।उ।8।14) इति निपात्यते। अथ वा -कनी [`कन -धातुपाठः-] दीप्तिकान्तिगतिषु` (धातुपाठः-460) इत्यस्मात्? ऋहलोण्र्यत् (3.1.124) इति ण्यत्, कन्यायाः कनीन च (4.1.116) इति निपातनात्? वृद्ध्यभावः। तित्स्वरेणायमन्तस्वरितः सम्पद्यते। स्वनशब्दः स्वनहसोर्वा (3.3.62) इत्यबन्तत्वात्? धातुस्वरेणाद्युदात्तः। पटत्? पटद्? ष्यन्यत इति पटहशब्दः पृषोदरादित्वादन्तोदात्तः। शब्दशब्दः शाशपिभ्यां ददनौ (द।उ6।48) इति दन्प्रत्ययान्तत्वान्नित्स्वर#एणाद्युदात्तः। पचादिषु नदट् इति पठते, तेन टिड्ढाणञ् (4.1.15) इति ङीपि कृते तत्र च यस्येति च (6.4.148) इत्यकारलोपे कृत उदात्तनिवृत्तिस्वरेणान्तोदात्तो नदीशब्दो भवति। घोशब्दो घञन्तत्वान्? ञित्स्वरेणाद्युदात्तः। पृषत्समिच्छब्दौ प्रातिपदिकस्दरेणान्तोदात्तौ। अथ राजपृषत्, ब्राआहृणसमिदित्यत्र कथमन्तो भवति, यावता योऽत्र समासस्यान्तो नासौ स्वरभाक्? यस्तु तस्मात्? पूर्वः स तकारेण व्यवहितः? इत्याह -स्वरविधौ इतद्यादि। हलन्तेऽपि इति। समासस्येदं विशेषणम्। अन्तोदात्तत्वम् इति। समासे येऽचः पूर्वे तदपेक्षया परस्याचोऽन्तत्वं वेदित्वयम्। तेन नानपदस्वरस्यापवादः इति। समासे हि पदानां पृथक्? स्वरो भवति। यदिवं नोच्येत ततो नानापृथक्पदानां स्वरः प्राप्नोति। अतस्तदपवादोऽयमुच्यते॥ इति बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्चिकायां षष्ठाध्यायस्यप्रथमः पादः॥- - - अथ षष्ठोऽध्यायःद्वितीयः पादः
Prakriyasarvasvam¶
अन्त उदात्तः स्यात् । अधिहरि । अत्राद्ययोरचोरनुदात्तत्वम् । उपान्त्यस्याति- नीचत्वं च ज्ञेयम् । अथ सर्वसमासेष्वेतत्प्राप्तावुक्तिः—