61222: चौ ========= **Padacheda:** चौ | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In compound words ending in अञ्च् , the final vowel of the preceding word has the acute accent in the weak cases in which only च् of अञ्च् remains. Vasu English Translation ------------------------ In compound words ending in अञ्च् , the final vowel of the preceding word has the acute accent in the weak cases in which only च् of अञ्च् remains. Thus द꣡धीचः पश्य; द꣡धीचा, दधी꣡चेः मधू꣡चः पश्य, मधू꣡चा, मधू꣡चे ॥ This is an exception to (6.1.161), (6.1.170) and (6.2.52). Vart:- This rule does not apply before a *Taddhita* affix. As दाधीचः꣡, माधूचः꣡ ॥ Here the accent is regulated by the affix (3.1.3). Bhashya ------- चौ (2659) (6321 उपसंख्यानवार्तिकम् ॥ 1 ॥) - चोरतद्धिते - चुस्वरः अतद्धिते इति वक्तव्यम् । इह मा भूत् - दाधीचः, माधूचेति ॥ (वार्तिकाक्षेपभाष्यम्) तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । प्रत्ययस्वरोऽत्र बाधको भविष्यति ॥ (समाधानभाष्यम्) स्थानान्तरप्राप्तश्चुस्वरः । प्रत्ययस्वरस्यापवादः अनुदात्तौ सुप्तितौ (3.1.4) इति । अनुदात्तौ सुप्तितावेतस्योदात्तनिवृत्तिस्वरः । उदात्तनिवृत्तिस्वरस्य चुस्वरः । स यथैवोदात्तनिवृत्तिस्वरं बाधते, एवं प्रत्ययस्वरमपि बाधेत ॥ (समाधानाक्षेपभाष्यम्) नात्रोदात्तनिवृत्तिस्वरः प्राप्नोति । किं कारणम् ? न गोश्वन्साववर्ण - (6.1.182) इति प्रतिषेधात् ॥ (प्रत्याक्षेपभाष्यम्) नैष उदात्तनिवृत्तिस्वरस्य प्रतिषेधः । कस्य तर्हि ? तृतीयादिस्वरस्य ॥ (प्रत्याक्षेपसमाधानभाष्यम्) यत्र तर्हि तृतीयादिस्वरो नास्ति - दधीचः पश्येति ॥ (सिद्धान्तभाष्यम्) एवं तर्हि न तृतीयादिलक्षणस्य प्रतिषेधं शिष्मः । किं तर्हि ? येन केन चिल्लक्षणेन प्राप्तस्य विभक्तिस्वरस्य प्रतिषेधम् । यदि विभक्तिस्वरस्य प्रतिषेधः, वृक्षवान् - प्लक्षवान् - अत्र न प्राप्नोति । मतुब्ग्रहणमपि प्रकृतमनुवर्तते । क्व प्रकृतम् ? ह्रस्वनुड्भ्यां मतुप् (176) इति । यदि तदनुवर्तते, वेतस्वान् - अत्रापि प्राप्नोति । मतुब्ग्रहणमनुवर्तते, ड्मतुश्चैषः । यदि तर्हि मतुपो ग्रहणे ड्मतुपो ग्रहणं न भवति, वेतस्वानिति वत्वं न प्राप्नोति । सामान्यग्रहणं वत्वे, इह पुनर्विशिष्टस्य ग्रहणम् । यत्र तर्हि विभक्तिर्नास्ति - दधीची - इति । यदि पुनरयमुदात्तनिवृत्तिस्वरस्यापि प्रतिषेधो विज्ञायेत । नैवं शक्यम् । इहापि प्रसज्येत - कुमारीति ॥ सति शिष्टः खल्वपि चुस्वरः । कथम् ? चौ इत्युच्यते । यत्रास्यैतद्रूपम् । क्व चास्यैतद्रूपम् ? यजादावसर्वनामस्थानेऽभिनिर्वृत्ते नकारलोपेऽकारलोपे च । तस्मात्सुष्ठूच्यते - चोरतद्धित इति ॥ Kashika ------- चावित्यञ्चतिर्लुप्तनकारो गृह्यते। तस्मिन् परतः पूर्वस्यान्त उदात्तो भवति। द॒धीचः॑ पश्य। द॒धीचा॑। द॒धीचे॑। म॒धूचः॑ पश्य। म॒धूचा॑। म॒धूचे॑। उदात्तनिवृत्तिस्वरापवादोऽयम्॥ चावतद्धित इति वक्त व्यम्॥ दा॒धी॒चः। मा॒धू॒चः। प्रत्ययस्वर एवात्र भवति॥ Siddhanta Kaumudi ----------------- लुप्ताकारेऽञ्चतौ परे पूर्वस्यान्तोदात्तः स्यात् । उदात्तनिवृत्तिस्वरापवादः । देवद्रीचीं नयत देवयन्तः (दे॒व॒द्रीचीं॑ नयत देव॒यन्तः॑) । (वार्तिकम्) ॥ दाधीचः । माधूचः । प्रत्ययस्वर एवात्र ॥ Padamanjari ----------- उदातनिवृत्तिस्वरापवादोऽयमिति। कृदुतरपदप्रकृतिस्वरेणोदातस्याञ्चत्यकारस्य विभक्तिनिमिक्तकः ठचःऽ इति लोपः। चावतद्धित इति वक्तव्यमिति। चौ यः स्वरः स तद्धिते परतो न भवतीत्यर्थः; इन्यथा योऽनुदातः प्रत्ययः -दधीचः पश्येत्यादौ, तत्र यथोदातनिवृत्तिस्वरं बाधते, तथा दाधीच इत्यादौ प्रत्ययस्वरमपि सतिशिष्ट स्वरो वादेत, तस्मादतद्धित इति वक्तव्यम्, अस्मिश्च सति उदातनिवृत्तिस्वरस्यायमपवादो भवति ॥ Nyaas ----- `उदात्तनिवृत्तिस्वरापवादोऽयम्` इति। `दधीचः` इति। दध्यञ्चतीति क्विन्, **गतिकारकोपपदात् कृत्** (6.2.139) इत्युत्तरपदप्रकृतिस्वरेणाञ्चेरकार उदात्तः। विभक्तावजादावसर्वनामस्थाने `अचः` (6.4.138) इत्यकारलोपे कृते **अनुदात्तस्य च यत्रोदात्तलोपः** (6.1.161) इत्युदात्तनिवृत्तिस्वरः प्राप्नोति, अतस्यस्याय मपवादः। `चावतद्धिते` इत्यादि। यदिदमञ्चेः पूर्वस्यान्तोदात्तत्वं विधीयते, तदा तद्धितं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानञ्चेदम् -अन्यतरस्यांग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा, तेन तद्धिते न भविष्यतीति॥ Prakriyasarvasvam ----------------- लुप्तनकाराकारेऽञ्चतौ परे पूर्वस्यान्तोदात्तः स्यात् । उदात्तनिवृत्तिस्वरा- पवादः । दधीचः पश्य । अत्र गतिपूर्वत्वे तु "अनिगन्तोऽञ्चतौ-" (६-२-५२) 'न्यधीच'(६-२-५३) इत्याभ्य मुक्तस्वर एवेष्टः । तामु पराच आहुः । 'चावतद्धित इति वाच्यम्' (वा.) दाधीचः । Vartika ------- चोरतद्धित इति वक्तव्यम् ।