61221: ईवत्याः

Padacheda: ईवत्याः | S | 6 | 1 |

Sutrartha


Vasu English Summary

The Names ending in ईवति have the acute on the last syllable.

Vasu English Translation

The Names ending in ईवति have the acute on the last syllable. Thus अहीवती꣡, कृषीवती꣡, मुनीवती꣡ ॥

Bhashya

इर्वत्याः (2658) (सूत्रद्वयप्रयोजनभाष्यम्) किमर्थमिदमुभयमुच्यते, न वत्याः इत्येवोच्येत ? वत्याः इतीयत्युच्यमाने राजवती - अत्रापि प्रसज्येत । अथ अवत्याः इत्युच्यमाने कस्मादेवात्र न भवति ? असिद्धो नलोपः, तस्यासिद्धत्वान्नैषोऽवतीशब्दः । कस्तर्हि ? अन्वतीशब्दः । यथैव तर्हि नलोपस्यासिद्धत्वान्नावतीशब्दः, एवं वत्त्वस्यासिद्धत्वान्नावतीशब्दः । आश्रयात्सिद्धत्वं स्यात् ॥

Kashika

ईयतीशब्दान्तस्यान्त उदात्तो भवति स्त्रियां संज्ञायां विषये। अ॒ही॒व॒ती। कृ॒षी॒व॒ती। मु॒नी॒व॒ती॥

Siddhanta Kaumudi

ईवत्यन्तस्यापि प्राग्वत् । अहीवती । मुनीवती ॥

Padamanjari

अहीवतीत्यादौ पूर्वं दीर्घः,’संज्ञायाम्’ इति वत्वम्। योगविभागश्चिन्त्यप्रयोजनः ॥

Nyaas

अयमपि पित्त्वानुदात्तस्यैवापवादः अहीवती इत्यादि। शरादीनां च (6.3.120) इति दीर्घः, संज्ञायाम् (8.2.11) इति च वत्वम्॥

Prakriyasarvasvam

नाम्नि स्त्रियामीवती शब्दस्यान्त उदात्तः स्यात् । मुनिवती ॥ <karika>कृदादिप्रातिपदिके स्वरान् स्त्रीप्रत्यये तथा । उदीर्यान्यप्रकृत्यर्थं फिट्सूत्राणि लिखाम्यथ ॥ ८९६ ॥</karika>