61194: आदिर्णमुल्यन्यतरस्याम्

Padacheda: आदिः | S | 1 | 1 |

णमुलि | S | 7 | 1 |

अन्यतरस्याम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

The first syllable may be optionally acute when the absolutive affix णमुल् follows.

Vasu English Translation

The first syllable may be optionally acute when the absolutive affix णमुल् follows. Thus लो꣡लूयम् or लोलू꣡यम् ॥ In the reduplicate form लोलू, the second part लू is unaccented by (8.1.3). The present sutra makes लो accented. When लो is not accented, लू will get the accent by लित् accent. This rule is confined to polysyllabic Absolutives, namely to reduplicated Absolutives (8.1.4).

Kashika

णमुलि परतोऽन्यतरस्यामादिरुदात्तो भवति। लोलू॑यंलोलूयम्, लोलूयं॑लोलूयम्। पोपू॑यंपोपूयम्, पो॒पूयं॑पोपूयम्। आम्रेडितानुदात्तत्वे (८.१.३) कृते पूर्वो लोलूयंशब्द एकत्राद्युदात्तः, अपरत्र लित्स्वरेण मध्योदात्तः॥

Siddhanta Kaumudi

अभ्यस्तानामादिरुदात्तो वा णमुलि परे लोलूयंलोलूयम् । पक्षे लित्स्वरः ॥

Padamanjari

लोलूयंलोलूयमिति। एकाक्षु धातुषु लित्स्वरस्य, अस्य च विशेषाभावादनेकाजुदाहृतः। आम्रेडितानुदातत्वे कृत इति। ठनुदातं चऽ इत्यनेन ॥

Nyaas

लित्स्वरे प्राप्ते णमुलि परत आद्युदात्तत्वं विकल्पेन विधीयते। तेन मुक्ते पक्षे लित्स्वरोऽपि भवत्येव। अनेकाचश्च धातवो विकल्पं प्रयोजयन्तीति। ये त्वेकाचस्तेषां लित्स्वरेणानेन वा विशेषो नास्ति। लोलुयं लोलूयम्, `पोपूयम्पोपूयम् इति। यदन्ताण्णमुल्, तस्य आभीक्ष्णे द्वे भवतः (वा।887) इति द्विर्दचनम्। `अनुदात्तं च (8.1.3) इत्याम्रेडितस्यानुदात्तत्वम्॥