61194: आदिर्णमुल्यन्यतरस्याम् ============================= **Padacheda:** आदिः | S | 1 | 1 | णमुलि | S | 7 | 1 | अन्यतरस्याम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The first syllable may be optionally acute when the absolutive affix णमुल् follows. Vasu English Translation ------------------------ The first syllable may be optionally acute when the absolutive affix णमुल् follows. Thus लो꣡लूयम् or लोलू꣡यम् ॥ In the reduplicate form लोलू, the second part लू is unaccented by (8.1.3). The present *sutra* makes लो accented. When लो is not accented, लू will get the accent by लित् accent. This rule is confined to polysyllabic Absolutives, namely to reduplicated Absolutives (8.1.4). Kashika ------- णमुलि परतोऽन्यतरस्यामादिरुदात्तो भवति। लोलू॑यंलोलूयम्, लोलूयं॑लोलूयम्। पोपू॑यंपोपूयम्, पो॒पूयं॑पोपूयम्। आम्रेडितानुदात्तत्वे (८.१.३) कृते पूर्वो लोलूयंशब्द एकत्राद्युदात्तः, अपरत्र लित्स्वरेण मध्योदात्तः॥ Siddhanta Kaumudi ----------------- अभ्यस्तानामादिरुदात्तो वा णमुलि परे लोलूयंलोलूयम् । पक्षे लित्स्वरः ॥ Padamanjari ----------- लोलूयंलोलूयमिति। एकाक्षु धातुषु लित्स्वरस्य, अस्य च विशेषाभावादनेकाजुदाहृतः। आम्रेडितानुदातत्वे कृत इति। ठनुदातं चऽ इत्यनेन ॥ Nyaas ----- लित्स्वरे प्राप्ते णमुलि परत आद्युदात्तत्वं विकल्पेन विधीयते। तेन मुक्ते पक्षे लित्स्वरोऽपि भवत्येव। अनेकाचश्च धातवो विकल्पं प्रयोजयन्तीति। ये त्वेकाचस्तेषां लित्स्वरेणानेन वा विशेषो नास्ति। `लोलुयं लोलूयम्, `पोपूयम्पोपूयम्` इति। यदन्ताण्णमुल्, तस्य `आभीक्ष्णे द्वे भवतः` (वा।887) इति द्विर्दचनम्। `अनुदात्तं च (8.1.3) इत्याम्रेडितस्यानुदात्तत्वम्॥