61193: लिति¶
Padacheda: लिति | S | 7 | 1 |
Sutrartha¶
लित्-प्रत्यये परे प्रत्ययात् पूर्वमुपस्थितः स्वरः उदात्तः भवति ।
यस्मिन् प्रत्यये लकारः इत्संज्ञकः अस्ति, सः प्रत्ययः ‘लित्’ प्रत्ययः नाम्ना ज्ञायते । एतादृशः लित्-प्रत्ययः यस्य प्रकृति-प्रत्यय-समुदायस्य अन्ते अस्ति, तस्य समुदायस्य प्रत्ययात् पूर्वः स्वरः अनेन सूत्रेण उदात्तः भवति । यथा - 1. भौरिकि + विधल् → भौ॒रि॒किवि॑ध । अत्र ‘विधल्’ इति प्रत्ययः अस्ति, अतः अस्मात प्रत्ययात् पूर्वम् विद्यमानः स्वरः (इत्युक्ते, ककारोत्तरः इकारः) अनेन सूत्रेण उदात्तः जायते । 2. पठ् + ण्वुल् → पाठ॑क । अत्र ‘ण्वुल्’ इति प्रत्ययः अस्ति । अस्मात् प्रत्ययात् पूर्वम् विद्यमानः स्वरः (इत्युक्ते, पकारोत्तरः आकारः) अनेन सूत्रेण उदात्तः जायते । ज्ञातव्यम् - अस्मिन् सूत्रे ‘अङ्गस्य अन्तिमः स्वरः’ इति प्रोक्तम् नास्ति, अपितु ‘प्रत्ययात् पूर्वः स्वरः’ इति उक्तमस्ति । किम् अस्य कारणम् ? एकमुदाहरणम् पश्यामः । कृ-धातोः सन्-प्रत्ययं कृत्वा अग्रे ण्वुल्-प्रत्ययः क्रियते चेत् ‘कृ + सन् + ण्वुल्’ अस्याम् स्थितौ अङ्गस्य अन्तिमः स्वरः अस्ति सकारोत्तरः अकारः । परन्तु अस्य अकारस्य उदात्तत्वमनेन सूत्रेण न विधीयते, अपितु प्रकृति-प्रत्यय समुदाये ण्वुल्-प्रत्ययात् पूर्वम् यः स्वरः श्रूयते, तस्य (इत्युक्ते इकारस्य) उदात्तत्वमनेन सूत्रेण विधीयते । प्रक्रियां पश्यामश्चेत् प्रायः स्पष्टं भवेत् - कृ + सन् + ण्वुल् → कृ + स + वु [इत्संज्ञालोपः] → कृ + स + अक [युवोरनाकौ (7.2.1) इति वु-इत्यस्य अक-आदेशः] → कॄ + स + अक [अज्झनगमां सनि (6.4.16) इति दीर्घादेशः] → किर् + स + अक [ऋत इद्धातोः (7.1.100) इति ॠकारस्य इकारादेशः । उरण् रपरः (1.1.51) इति सः रपरः] → किर् स् किर् स + अक [सन्यङोः (6.1.9) इति द्वित्वम्] → चिर् स् किर् स + अक [कुहोश्चुः (7.4.62) इति चकारः] → चि किर् स + अक [हलादि शेषः (7.4.60) इति रेफसकारयोः लोपः] → चि किर् स् + अक [अतो लोपः (6.4.48) इत्यनेन आर्धधातुके प्रत्यये परे अङ्गस्य अन्तिम-अकारस्य लोपः] इदानीम् प्रत्ययात् पूर्वः स्वरः अस्ति ककारोत्तरः इकारः । अतः अस्य इकारस्य वर्तमानसूत्रेण उदात्तत्वं विधीयते । अग्रे - → चिकीर् सक [हलि च (8.2.77) इति उपधा-इकारस्य दीर्घः] → चिकीर्षक [आदेशप्रत्यययोः (8.3.59) इति षत्वम्] अङ्गस्य अन्तिमः स्वरः यः, स एव सर्वदा प्रत्ययात् पूर्वः स्वरः नास्ति - एतत् अनेन उदाहरणेन स्पष्टं भवेत् ।
Sutrartha (English)¶
For the प्रकृति-प्रत्यय-समुदाय that ends in a लित्-प्रत्यय, the स्वर that comes before the प्रत्यय becomes उदात्त.
Vasu English Summary¶
The acute accent falls on the syllable immediately preceding the affix that has an indicatory ल्।
Vasu English Translation¶
The acute accent falls on the syllable immediately preceding the affix that has an indicatory ल्। Thus चिकी꣡र्षकः, जिही꣡र्षकः with the affix ण्वुल् (3.1.133), भौरिकि꣡विधम् and ऐषुकारिभ꣡क्तम् with the affixes विधल् and भक्तल् (4.2.54) accent on the कि and रि ॥
Kashika¶
लिति प्रत्ययात् पूर्वमुदात्तं भवति। चि॒कीर्ष॑कः। जि॒हीर्ष॑कः। भौ॒रि॒किवि॑धम्। भा॒ैलि॒किवि॑धम्। ऐ॒षु॒का॒रिभ॑क्तम्॥
Siddhanta Kaumudi¶
प्रत्ययात्पूर्वमुदात्तम् । चिकीर्षकः ॥
Padamanjari¶
प्परत्ययात्पूर्वमिति वर्तते, तेन लिदन्ते स्वरप्रसङ्गो न चोदनीयः ॥
Nyaas¶
लकारेत्संज्ञके इति। लकार इत्संज्ञको यस्य स तथोक्तः। चिकीर्षकः इति। सन्नन्ताण्ण्वुल्। तत्र अतो लोपः (6.4.48) इत्कारलोपे कृते ण्वुलः पूर्वस्येकारस्योदात्तत्वम्। भौरिकविधम् इति भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ (4.2.54) इति विधल्प्रत्ययः। भौरिकिर्विषयो देश इति ऐषुकारिभक्तम् ऐषुकारिर्विषयो देश इति। पूर्वसूत्रेणैव भक्तल्प्रत्ययः॥
Prakriyasarvasvam¶
स्वरविधौ सप्तम्यस्तदन्तसप्तम्य इति हुः । लिदन्ते पदे लितः प्रत्ययात् पूर्वाऽजुच्चः स्यात् । आसायकः । कारकः ‘उदात्तादनुदात्तस्य—’ (८-४-६६) इति रेफे (स्वा? का) रः (स्वरितः) । ककारे तु ।