61195: अचः कर्तृयकि¶
Padacheda: अचः | S | 6 | 1 |
कर्तृयकि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The roots which are exhibited in धातुपाठ with a final vowel, may be optionally have the acute on the first syllable, before the affixes of the Passive (यक्), when the sense of the verb is Reflexive.
Vasu English Translation¶
The roots which are exhibited in धातुपाठ with a final vowel, may be optionally have the acute on the first syllable, before the affixes of the Passive (यक्), when the sense of the verb is Reflexive. The word उपदेश is understood here. Thus लू꣡यते or लूय꣡ते केदारः स्वयमेव ॥ स्ती꣡र्यते or स्तीर्य꣡ते केदारः स्वयमेव ॥ When the accent does not fall on the first syllable, it falls on य (6.1.186). This rule applies to जन्, खन् , and सन् when they get the form जायते, सायते and खायते; the long आ (6.4.43) substitute is considered as if these verbs were taught in the Dhatupatha with long आ ॥ Thus जा꣡यते or जाय꣡ते स्वयमेव सा꣡यते or सा꣡यते स्वयमेव; खा꣡यते or खाय꣡ते स्वयमेय ॥ Why do we say ‘when ending in a vowel’? Observe भिद्य꣡ते स्वयमेव ॥ Why do we say “when the sense is Reflexive (कर्तृ)”? Observe लू꣡यते केदारो देवदत्तेन ॥
Bhashya¶
अचः कर्तृयकि (2632) (6313 उपसंख्यानवार्तिकम् ॥ 1 ॥) - यकि रपर उपसंख्यानम् - यकि रपर उपसंख्यानं कर्तव्यम् । स्तीर्यते स्वयमेव ॥ (6314 उपसंख्यानानर्थक्यबोधकवार्तिकम् ॥ 2 ॥) - उपदेशवचनात्सिद्धम् - उपदेश इति वक्तव्यम् ॥ (6315 आनर्थक्यप्रकारे आक्षेपवार्तिकम् ॥ 3 ॥) - उपदेशवचने जनादीनाम् - उपदेशवचने जनादीनां स्वरो न सिध्यति । जायते स्वयमेव । जायते स्वयमेव ॥ (6316 समाधानवार्तिकम् ॥ 4 ॥) - योगविभागात्सिद्धम् - योगविभागः करिष्यते - अजन्तानां कर्तृयकि, वाऽऽदिरुदात्तो भवति । चीयते स्वयमेव - चीयते स्वयमेव । जायते स्वयमेव - जायते स्वयमेव । ततः उपदेशे, उपदेशे चाजन्तानां कर्तृयकि वा आदिरुदात्तो भवति । स्तीर्यते स्वयमेव - स्तीर्यते स्वयमेव ॥ (उपदेशपदानुवर्तनबोधकभाष्यम्) तत्तर्ह्युपदेशग्रहणं कर्तव्यम्, न ह्यन्तरेणोपदेशग्रहणं योगाङ्गं जायते । न कर्तव्यम्, प्रकृतमनुवर्तते । क्व प्रकृतम् ? तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः (6.1.186) इति । ननु चोक्तम् - उपदेशे जनादीनां स्वरो न सिद्ध्यतीति । नैष दोषः । नैवं विज्ञायते - उपदेशवचने जनादीनां स्वरो न सिध्यतीति । कथं तर्हि ? जनादीनामप्यात्वे उपदेशवचनं कर्तव्यमिति । तत्तर्हि तत्रोपदेशग्रहणं कर्तव्यम् । न कर्तव्यम्, प्रकृतमनुवर्तते । क्व प्रकृतम् ? अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (6.4.37) इति ॥
Kashika¶
उपदेश इति वर्तते। अजन्ता ये उपदेशे धातवस्तेषां कर्तृयक्यन्यतरस्यामादिरुदात्तो भवति। लूय॑ते केदारः स्वयमेव, लू॒यते॑ केदारः स्वयमेव। स्तीर्य॑ते केदारः स्वयमेव, स्ती॒र्यते॑ केदारः स्वयमेव। यदाद्युदात्तत्वं न भवति, तदा लसार्वधातुकनिघाते कृ ते यक एव स्वरो भवति। जनादीनामुपदेश एवात्वं द्रष्टव्यम्। तत्राप्ययं स्वर इष्यते। जाय॑ते, जा॒यते॑ स्वयमेव। साय॑ते, सा॒यते॑ स्वयमेव। खाय॑ते,खा॒यते॑ स्वयमेव। अच इति किम् ? भि॒द्यते॑ स्वयमेव। कर्तृग्रहणं किम् ? लू॒यते॑ केदारो देवदत्तेन॥
Siddhanta Kaumudi¶
उपदेशेऽजन्तानां कर्तृयकि परे आदिरुदात्तो वा । लूयते केदारः स्वयमेव ॥
Padamanjari¶
कर्तृवाचिनि सार्वधातुके विहितो यक् कर्तृयक्। उपदेश इति वर्तत इति। ठदुपदेशात्ऽ इतियत्र यदुपदेशग्रहणं तदुपसमस्तमपि स्वरितत्वप्रतिज्ञानादिह सम्बद्ध्यते, तच्चार्थात्सप्तम्यन्तं सम्पद्यत इति मत्वोक्तम्, न तु सप्तम्यन्तमुपदेशग्रहणं प्रकृतमस्ति। यदि तूपदेशग्रहणं नानुवर्तेत, कार्यत इत्यादौ रपरत्वे सति न स्यात्, तस्मादुपदेश इत्यनुवर्त्यम्। यद्येवम्, जायते स्वयमेवेत्यादौ न स्यात्,’ये विभाषा’ इत्यात्वे सत्युतरकालमजन्ता जनादयः, न तूपदेशे ? इत्यत आह -जनादीनामिति।’ये विभाषा’ इत्यत्र ठनुदातोपदेशेऽ इत्यत उपदेशग्रहणमनुवर्तते, सा च विषयसप्तमीति उपदेशएव जनादीनामात्वं भवति। जायते स्वयमेवेति। अन्तर्भावितण्यर्थो जनिः कर्मकर्तृविषयः। दृश्यते चान्तर्भावितण्यर्थस्य प्रयोगः, यथा -एकं द्वादशधा जज्ञे इति ॥
Nyaas¶
कर्तृयकि इति। सार्वधातुकं कर्तृशब्देनोक्तम्। अभिधानेऽभिधेयोपचारात्। तत्र यः कर्तरि यक्? स कर्तृयक्, सप्तमी (2.1.40) इति योगविभागात्? समासः। लूयते केदारः स्वयमेव इति। लुनाति केदारं देवदत्तः, केदारो लवनक्रियया व्याप्तुमिष्टतमत्वात्? कर्म। यदा तु सौकार्यात्? तस्यैव कर्त्तृत्वं विवक्ष्यते तदाऽसौ कर्ता भवति; कर्मवत्? कर्मणा तुल्यक्रियः (3.1.87) इत्यतिदेशात्? यगात्मनेपदञ्च। स्तीर्यते इति। स्तृ आच्छादने (धातुपाठः-1252) [स्तृञ्? आचछादने -धातुपाठः-] ॠत इद्धातोः (7.1.100) , हलि च (8.2.77) इती दीर्घः। लसार्वधातुकनिघाते कृते इति। अदुपदेशभक्तयक एव स्वरो भवति इति। प्रत्ययलक्षणः। अथेह कथं भवति -जायते स्वयमेव, सायते स्वयमेव, खायते स्वयमेवेति, यावता ये विभाषा (6.4.43) इत्यात्वे कृते सत्युत्तरकालं जनादयोऽजन्ता भवन्ति, न तूपदेश? इत्याह -जनादनाम् इत्यादि। जनादीनां ह्रात्वविधावनुदात्तोपदेशग्रहणमनुवर्तते। तेन तेषामुपदेश एवात्त्वं द्रष्टव्यम्। जायते स्वयमेव इति। कथं पुनरकर्मकर्ता, यावता जनिरकर्मकः? अन्तर्भावितण्यर्थं सकर्मको भवतीत्यदोषः। लूयते केदारो देवदत्तेन इति। अत्र शुद्धकर्मण्यात्मनेपदविधानात्? कर्तृयग्न भवति॥