61154: मस्करमस्करिणौ वेणुपरिव्राजकयोः¶
Padacheda: मस्कर-मस्करिणौ | S | 1 | 2 |
वेणु-परिव्राजकयोः | S | 7 | 2 |
Sutrartha¶
Vasu English Summary¶
The word मस्कर means ‘a bamboo’, and मस्करिन् means ‘a medicant monk’.
Vasu English Translation¶
The word मस्कर means ‘a bamboo’, and मस्करिन् means ‘a medicant monk’. When not having these meanings, the form is मकरः ॥ This is an underived nominal stem, having no derivation, to which सुट् is added when ‘a bamboo’ is meant; and the affix इनि in addition, when a mendicant is to be expressed and thus we have मस्कर and मस्करिन् ॥ Why do we say “when meaning a bamboo or a mendicant”. Observe मकरोग्राहः “an alligator”, मकरा समुद्र “an ocean”. Some say the word मकर is a derivative word, being derived from कृ ‘to do’ with the negative particle मा and the affix अच्, the long आ being shortened. Thus मा क्रियते येन प्रतिषिध्यते = मस्करः ‘a bamboo or stick by which the prohibition is made’. So also by adding that इनि in the sense of ताच्छील्य to the root कृ preceded by the upapada मा; we get मस्करिन् ॥ Thus मा करणशाला = मस्करी “a monk, who has renounced all works”. A mendicant always says “मा कुरुतः कर्माणि शान्तिर्वः श्रेयसी” - “Do no works ye men, for peace is your highest end”.
Bhashya¶
मस्करमस्करिणौ वेणुपरिव्राजकयोः (2591) (मस्करिग्रहणप्रयोजनभाष्यम्) मस्करिग्रहणं शक्यमकर्तुम् । कथं मस्करी परिव्राजक इति ? इनिनैतन्मत्वर्थीयेन सिद्धम् । मस्करोस्यास्तीति । न वै मस्करी मस्करोऽस्यास्तीति - परिव्राजकः । किं तर्हि ? मा कृत कर्माणि मा कृत कर्माणि शान्तिर्वः श्रेयसीत्याह, अतो मस्करी - परिव्राजकः ॥
Kashika¶
मस्कर मस्करिन् इत्येतौ यथासंख्यं वेणौ परिव्राजके च निपात्येते। मकरशब्दो ह्यव्युत्पन्नं प्रातिपदिकम्, तस्य वेणावभिधेये सुट् निपात्यते, परिव्राजके त्विनिरपि। मस्करो वेणुः। मस्करी परिव्राजकः। वेणुपरिव्राजकयोरिति किम् ? मकरो ग्राहः। मकरी समुद्रः। केचित् पुनरत्र माङ्युपपदे करोतेः करणेऽच्प्रत्ययमपि निपातयन्ति, माङश्च ह्रस्वत्वं सुट् च। मा क्रियते येन प्रतिषिध्यते, स मस्करो वेणुः। वेणुग्रहणं च प्रदर्शनार्थमन्यत्रापि भवति — मस्करो दण्ड इति। परिव्राजकेऽपि माङ्युपपदे करोतेस्ताच्छील्य इनिर्निपात्यते, माङो ह्रस्वत्वं सुट् च तथैव। माकरणशीलो मस्करी कर्मापवादित्वात् परिव्राजक उच्यते। स ह्येवमाह — मा कुरूत कर्माणि, शान्तिर्वः श्रेयसीति॥
Siddhanta Kaumudi¶
मकरशब्दोऽव्युत्पन्नस्तस्य सुडिनिश्च निपात्यते । वेण्विति किम् । मकरो ग्राहः । मकरी समुद्रः ॥
Balamanorama¶
मस्करमस्करिणौ वेणुपरिव्राजकयोः - मस्करमस्करिणौ । यथासंख्यमन्वयः । मस्करिग्रहणात्परिव्राजक एव मस्करिशब्दः, अन्यत्र तु मकरीत्येवेत्याहुः ।
Tattvabodhini¶
मस्करमस्करिणौ वेणुपरिव्राजकयोः - मस्कर । मस्करशब्दादिनिना मत्वर्थीयेनेष्टसिद्धौ मस्करिग्रहणंपरिव्राजक एवायं प्रयोगो यथा स्या॑दित्येवमर्थमित्याहुः ।
Padamanjari¶
परिव्राजके त्विनिरपीति। मत्वर्थाभावादिनिरप्राप्तः, अतः सोऽपि निपात्यते, न हि परिव्राजको मकरेण तद्वान्, मस्करेण तु वेणुना तद्वान् भवति; दण्डधारणात्, ततः किम् ? मस्करशब्दादिनिना सिद्धम्। एवमपि संयोगे मत्वर्थीयविधानान्मस्करसंयुक्त एव मस्करीत्युच्येत, मा भूदेवं परिव्राजकमात्रवचनो यथा स्यादितीनिर्निपात्यते, व्युत्पतेरदर्शनाद्वा नात्र स्पष्ट्ंअ निपात्यम्, तद्दर्शयति - केचिदिति। माकरणशील इति। प्रतिषेधशीलस इत्यर्थः। कर्मापवादित्वादिति। कर्मशब्देनेह काम्यमर्माणि विवक्षितानि, न नित्यनैमितिकानि, तानि हि ममुक्षोरपि कर्तव्यानि। यथाऽऽहुः - मोक्षार्थी न प्रवर्तेत ततः काम्यनिपिद्धयोः। नित्यनैमितिके कुर्यात् प्रत्यवायनिवृतये ॥ इति । तानि कर्माण्यपवदितुं प्रतिषेद्धुअं शीलमस्य स कर्मापवादी। परमहंसास्तु कर्ममात्रमपवदन्ति। मा कुरुतेति। न कर्तव्यानीत्यर्थः। कर्मणि लुङ् ॥
Prakriyasarvasvam¶
मस्करो वेण्वाख्या । <karika>मा कर्म कृषतेत्येवं माशब्दकरणादसौ । मस्करीत्युच्यते भिक्षुर्न तु मस्करधारणात् ॥ ३५ ॥</karika>
Sutra Prayogas¶
मस्करि (भट्टिकाव्यम्): मस्कर-म- स्करिणौ इति परिब्राजके सुट्।