61155: कास्तीराजस्तुन्दे नगरे

Padacheda: कास्तीर-अजस्तुन्दे | S | 1 | 2 |

नगरे | S | 7 | 1 |

Sutrartha


Vasu English Summary

The words कास्तर and अजस्तुन्द are names of cities.

Vasu English Translation

The words कास्तर and अजस्तुन्द are names of cities. When not meaning cities, we have कातीरम् (ईषत् तीरमस्य); and अजतुन्दम् (अजस्येव तुन्दमस्य) ॥

Kashika

कास्तीर अजस्तुन्द इत्येतौ शब्दौ निपात्येते नगरेऽभिधेये। ईषत्तीरमस्य, अजस्येव तुन्दमस्येति व्युत्पत्तिरेव क्रियते, नगरं तु वाच्यमेतयोः। कास्तीरं नाम नगरम्। अजस्तुन्दं नाम नगरम्। नगर इति किम् ? कातीरम्। अजतुन्दम्॥

Siddhanta Kaumudi

ईषत्तीरमस्यास्तीति कास्तीरं नाम नगरम् । अजस्येव तुन्दमस्येति अजस्तुन्दं नाम नगरम् । नगरे किम् । कातीरम् । अजतुन्दम् ॥

Tattvabodhini

कातीरमिति। ईषदर्थे इति कोः कादेशः।

Padamanjari

केचिन्नगरे इति प्रथमाद्विवचनान्तभाहुः। वृतौ तु सप्तम्यन्तं व्याख्यात्म्। कातीरमिति। ठीषदर्थे चऽ इति काभावः ॥

Prakriyasarvasvam

कास्तीरम् । अजस्तुन्दम् ।