61153: प्रस्कण्वहरिश्चन्द्रावृषी

Padacheda: प्रस्कण्व-हरिश्चन्द्रौ | S | 1 | 2 |

ऋषी | S | 1 | 2 |

Sutrartha


Vasu English Summary

The words प्रस्कण्व and हरिश्चन्द्र are formed by सुट् meaning the two Rishis of that name.

Vasu English Translation

The words प्रस्कण्व and हरिश्चन्द्र are formed by सुट् meaning the two Rishis of that name. Thus प्रस्कण्व ऋषिः, हरिश्चन्द्र ऋषिः ॥ The word हरिश्चन्द्र could be formed by (6.1.151) in the Mantra, here it refers to other than Mantras. When not referring to Rishis, we have प्रकण्वो देशः, (कण्वं पापं तत्प्रगतं यस्मात्) हरिश्चन्द्रो मानवकः (हरिः चन्द्रो यस्य मुग्धस्य)॥

Kashika

प्रस्कण्वो हरिश्चन्द्र इति सुट् निपात्यत ऋषी चेदभिधेयौ भवतः। प्रस्कण्व ऋषिः। हरिश्चन्द्र ऋषिः। हरिश्चन्द्रग्रहणममन्त्रार्थम्। ऋषी इति किम् ? प्रकण्वो देशः। हरिचन्द्रो माणवकः॥

Siddhanta Kaumudi

हरिश्चन्द्रग्रहणममन्त्रार्थम् । ऋषीति किम् । प्रकण्वो देशः । हरिचन्द्रो माणवकः ॥

Balamanorama

प्रस्कण्वहरिश्चन्द्रावृषी - प्रस्कण्वहरिश्चन्द्रावृषी । अमन्त्रार्थमिति । मन्त्रे तुह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे॑ इति पूर्वसूत्रेणैव सिद्धमिति भावः । तत्सूत्रं वैदिकप्रक्रियायां व्याख्यास्यते ।

Tattvabodhini

प्रस्कण्वहरिश्चन्द्रावृषी - अमन्त्रार्तमिति । मन्त्रे तुह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे॑इत्यनेनैव सिद्ध्यतीति भावः ।