61154: मस्करमस्करिणौ वेणुपरिव्राजकयोः ===================================== **Padacheda:** मस्कर-मस्करिणौ | S | 1 | 2 | वेणु-परिव्राजकयोः | S | 7 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- The word मस्कर means 'a bamboo', and मस्करिन् means 'a medicant monk'. Vasu English Translation ------------------------ The word मस्कर means 'a bamboo', and मस्करिन् means 'a medicant monk'. When not having these meanings, the form is मकरः ॥ This is an underived nominal stem, having no derivation, to which सुट् is added when 'a bamboo' is meant; and the affix इनि in addition, when a mendicant is to be expressed and thus we have मस्कर and मस्करिन् ॥ Why do we say "when meaning a bamboo or a mendicant". Observe मकरोग्राहः "an alligator", मकरा समुद्र "an ocean". Some say the word मकर is a derivative word, being derived from कृ 'to do' with the negative particle मा and the affix अच्, the long आ being shortened. Thus मा क्रियते येन प्रतिषिध्यते = मस्करः 'a bamboo or stick by which the prohibition is made'. So also by adding that इनि in the sense of ताच्छील्य to the root कृ preceded by the *upapada* मा; we get मस्करिन् ॥ Thus मा करणशाला = मस्करी "a monk, who has renounced all works". A mendicant always says "मा कुरुतः कर्माणि शान्तिर्वः श्रेयसी" - "Do no works ye men, for peace is your highest end". Bhashya ------- मस्करमस्करिणौ वेणुपरिव्राजकयोः (2591) (मस्करिग्रहणप्रयोजनभाष्यम्) मस्करिग्रहणं शक्यमकर्तुम् । कथं मस्करी परिव्राजक इति ? इनिनैतन्मत्वर्थीयेन सिद्धम् । मस्करोस्यास्तीति । न वै मस्करी मस्करोऽस्यास्तीति - परिव्राजकः । किं तर्हि ? मा कृत कर्माणि मा कृत कर्माणि शान्तिर्वः श्रेयसीत्याह, अतो मस्करी - परिव्राजकः ॥ Kashika ------- मस्कर मस्करिन् इत्येतौ यथासंख्यं वेणौ परिव्राजके च निपात्येते। मकरशब्दो ह्यव्युत्पन्नं प्रातिपदिकम्, तस्य वेणावभिधेये सुट् निपात्यते, परिव्राजके त्विनिरपि। मस्करो वेणुः। मस्करी परिव्राजकः। वेणुपरिव्राजकयोरिति किम् ? मकरो ग्राहः। मकरी समुद्रः। केचित् पुनरत्र माङ्युपपदे करोतेः करणेऽच्प्रत्ययमपि निपातयन्ति, माङश्च ह्रस्वत्वं सुट् च। मा क्रियते येन प्रतिषिध्यते, स मस्करो वेणुः। वेणुग्रहणं च प्रदर्शनार्थमन्यत्रापि भवति — मस्करो दण्ड इति। परिव्राजकेऽपि माङ्युपपदे करोतेस्ताच्छील्य इनिर्निपात्यते, माङो ह्रस्वत्वं सुट् च तथैव। माकरणशीलो मस्करी कर्मापवादित्वात् परिव्राजक उच्यते। स ह्येवमाह — मा कुरूत कर्माणि, शान्तिर्वः श्रेयसीति॥ Siddhanta Kaumudi ----------------- मकरशब्दोऽव्युत्पन्नस्तस्य सुडिनिश्च निपात्यते । वेण्विति किम् । मकरो ग्राहः । मकरी समुद्रः ॥ Balamanorama ------------ **मस्करमस्करिणौ वेणुपरिव्राजकयोः** - मस्करमस्करिणौ । यथासंख्यमन्वयः । मस्करिग्रहणात्परिव्राजक एव मस्करिशब्दः, अन्यत्र तु मकरीत्येवेत्याहुः । Tattvabodhini ------------- **मस्करमस्करिणौ वेणुपरिव्राजकयोः** - मस्कर । मस्करशब्दादिनिना मत्वर्थीयेनेष्टसिद्धौ मस्करिग्रहणंपरिव्राजक एवायं प्रयोगो यथा स्या॑दित्येवमर्थमित्याहुः । Padamanjari ----------- परिव्राजके त्विनिरपीति। मत्वर्थाभावादिनिरप्राप्तः, अतः सोऽपि निपात्यते, न हि परिव्राजको मकरेण तद्वान्, मस्करेण तु वेणुना तद्वान् भवति; दण्डधारणात्, ततः किम् ? मस्करशब्दादिनिना सिद्धम्। एवमपि संयोगे मत्वर्थीयविधानान्मस्करसंयुक्त एव मस्करीत्युच्येत, मा भूदेवं परिव्राजकमात्रवचनो यथा स्यादितीनिर्निपात्यते, व्युत्पतेरदर्शनाद्वा नात्र स्पष्ट्ंअ निपात्यम्, तद्दर्शयति - केचिदिति। माकरणशील इति। प्रतिषेधशीलस इत्यर्थः। कर्मापवादित्वादिति। कर्मशब्देनेह काम्यमर्माणि विवक्षितानि, न नित्यनैमितिकानि, तानि हि ममुक्षोरपि कर्तव्यानि। यथाऽऽहुः - मोक्षार्थी न प्रवर्तेत ततः काम्यनिपिद्धयोः। नित्यनैमितिके कुर्यात् प्रत्यवायनिवृतये ॥ इति । तानि कर्माण्यपवदितुं प्रतिषेद्धुअं शीलमस्य स कर्मापवादी। परमहंसास्तु कर्ममात्रमपवदन्ति। मा कुरुतेति। न कर्तव्यानीत्यर्थः। कर्मणि लुङ् ॥ Prakriyasarvasvam ----------------- मस्करो वेण्वाख्या । मा कर्म कृषतेत्येवं माशब्दकरणादसौ । मस्करीत्युच्यते भिक्षुर्न तु मस्करधारणात् ॥ ३५ ॥ Sutra Prayogas -------------- * **मस्करि** (भट्टिकाव्यम्): `मस्कर-म- स्करिणौ` इति परिब्राजके सुट्।