61092: वा सुप्यापिशलेः¶
Padacheda: वा | S | 0 | 0 |
सुपि | S | 7 | 1 |
आपिशलेः | S | 6 | 1 |
Sutrartha¶
अवर्णान्तात् उपसर्गात् ऋकारादौ सुब्धातौ परे विकल्पेन पूर्वपरयोः एकः वृद्धि-एकादेशः भवति ।
- अवर्णान्त-उपसर्गात् ऋकारादौ धातुरूपे परे पूर्वपरयोः आद्गुणः (6.1.87) इत्यनेन गुणैकादेशे प्राप्ते ; तं बाधित्वा उपसर्गादृति धातौ (6.1.91)
इत्यनेन नित्यम् वृद्ध्येकादेशे प्राप्ते; नामधातूनां विषये प्रकृतसूत्रेण अयम् वृद्ध्येकादेशः विकल्प्यते, अतः पक्षे गुणैकादेशः अपि भवति। यथा —
‘ऋषभम् आत्मनः इच्छति’ इत्यत्र सुप आत्मनः क्यच् (3.1.8) इत्यनेन क्यच्-प्रत्यये कृते ‘ऋषभीय’ इति आतिदेशिकधातुः सिद्ध्यति । अस्य धातोः रूपम् अवर्णान्त-उपसर्गात् परम् विद्यते चेत् पूर्वपरयोः विकल्पेन वृद्ध्यादेशः भवति, पक्षे गुणैकादेशः अपि सिद्ध्यति । “प्र + ऋषभीयति → प्रार्षभीयति, प्रर्षभीयति ।”
अस्मिन् सूत्रे अनुवृत्तिरूपेण ‘ऋति’ इति गृह्यमाणेन शब्देन तात्कालिकभेदग्रहणम् अपि भवति, अतः ऌकारस्य विषये अपि प्रकृतं सूत्रं प्रवर्तते । यथा, ‘ऌकारम् आत्मनः इच्छति’ इत्यत्र सुप आत्मनः क्यच् (3.1.8) इत्यनेन क्यच्-प्रत्यये कृते ‘ऌकारीय’ इति आतिदेशिकधातौ सिद्धे, तस्य रूपम् अवर्णान्त-उपसर्गात् परम् विद्यते चेत् पूर्वपरयोः विकल्पेन वृद्ध्यादेशः भवति, पक्षे गुणैकादेशः अपि सिद्ध्यति । “प्र + ऌकारीयति → प्राल्कारीयति, प्रल्कारीयति ।”
ऋति इत्यत्र तपरकरणम्
केवलम् ‘ऋ’ इति निर्देशः अणुदित् सवर्णस्य चाप्रत्ययः (1.1.69) इत्येतं सूत्रम् अनुसृत्य सवर्णग्रहणं करोति । तद्बाधित्वा तपरस्तत्कालस्य (1.1.70) इत्यनेन तात्कालिक-भेदानाम्व एव ग्रहणं कर्तुम् ऋति-शब्दे तपरकरणं क्रियते । अनेन तपरकरणेन दीर्घ-ॠकारस्य अस्मिन् सूत्रे ग्रहणं न भवति, अतश्च दीर्घ-ॠकारादि-धातुरूपाणां विषये इदं सूत्रं नैव प्रवर्तते । अतः ‘ॠकारम् आत्मनः इच्छति’ इत्यत्र ‘ॠकार’ शब्दात् सुप आत्मनः क्यच् (3.1.8) इत्यनेन क्यच्-प्रत्यये कृते ‘ॠकारीय’ इति नामधातुः सिद्ध्यति, तस्य विषये इदं सूत्रं न प्रवर्तते । अतः अस्य धातोः विषये आद्गुणः (6.1.87) इत्यनेन नित्यम् गुणैकादेशः एव विधीयते । “प्र + ॠकारीयति → प्रर्कारीयति ।” <note>दीर्घ-ॠकारान्त-नामधातूनां विषये प्रकृतसूत्रेण वृद्ध्येकादेशस्य बाधः भवति चेत् उपसर्गादृति धातौ (6.1.91) इत्यनेन पुनः वृद्ध्येकादेशः न हि प्रवर्तते, यतः तस्मिन् सूत्रे अपि ‘ऋति’ इति शब्दः विद्यते एव ।</note>
आपिशलिग्रहणम् पूजार्थम्
प्रकृतसूत्रे ‘आपिशलेः’ इति निर्देशः ‘आपिशलिः’ इति कस्यचन वैयाकरणस्य निर्देशः अस्ति । अष्टाध्याय्यां सामान्यरूपेण यत्र पाणिनिः अन्येषाम् आचार्याणाम् नाम उक्त्वा किञ्चन कार्यं वदति, तत्र तत् कार्यं वैकल्पिकं मन्यते । परन्तु अत्र पाणिनिना ‘वा’ इति उक्त्वा आदौ एव वैकल्पिकत्वम् उक्तमस्ति । अतः अत्र ‘आपिशलि’-मुनेः ग्रहणम् केवलं पूजार्थम् (आदरार्थम्, to show respect, to give credit etc) क्रियते, न हि विकल्पविधानार्थम् ।
Sutrartha (English)¶
When an अवर्णान्त उपसर्ग is followed by a ऋकारादि सुब्धातु, both of them are optionally replaced by a single वृद्धि letter.
Vasu English Summary¶
According to the opinion of आपिशलि, the वृद्धि is optionally the single substitute, when the अ or आ of a preposition is followed by a Denominative Verb beginning with ऋ।
Vasu English Translation¶
According to the opinion of आपिशलि, the वृद्धि is optionally the single substitute, when the अ or आ of a preposition is followed by a Denominative Verb beginning with ऋ। Thus उपार्षभीयति or उपर्षभीयति, उपल्कारीयति or उपाल्कारीयति ॥ The ऋ and लृ are considered as homogenous letters, therefore the word ऋ in the last sutra includes लृ also. The name of the Grammarian Apisali is mentioned for the sake of respect; the वा itself was enough to make it an optional rule.
Kashika¶
आदित्येव, उपसर्गादृति धाताविति च। सुबन्तावयवे धातावृकारादौ परतोऽवर्णान्तादुपसर्गात् पूर्वपरयोरापिशलेराचार्यस्य मतेन वा वृद्धिरेकादेशो भवति। उपर्षभीयति, उपार्षभीयति। उपल्कारीयति, उपाल्कारीयति। ऋकारऌकारयोः सावर्ण्यविधिः (का० १.१.९) इति ऋतीति ऌकारोऽपि गृह्यते। आपिशलिग्रहणं पूजार्थम्। वेति ह्युच्यत एव॥
Siddhanta Kaumudi¶
अवर्णान्तादुपसर्गादृकारादौ सुब्धातौ परे वृद्धिरेकादेशः वा स्यात् । आपिशलिग्रहणं पूजार्थम् । प्रार्षभीयति । प्रर्षभीयति । सावर्ण्यात् ऌवर्णस्य ग्रहणम् । प्राल्कारीयति । प्रल्कारीयति । तपरत्वाद्दीर्घे न । उपऋकारीयति । उपर्कारीयति ॥
Laghu Shabdendushekhar¶
सुब्धाताविति । सुबन्तप्रकृतिके धातावित्यर्थः । तुल्यास्यसूत्रे (तुल्यास्यप्रयत्नं सवर्णम् (१.१.९)) “उपार्कारीयति” इत्यादेरेतदुदाहरणत्वस्य भाष्ये उक्तत्वात् । शास्त्रे सुबन्तस्य धातुप्रकृतित्वेनोक्ततया तत्प्रकृतिके इति व्याख्यानमेवोचितम् । ऋषभस्य समीपमुपर्षभं तदिच्छति “उपर्षभीयति” इत्यत्र तु न वृद्धिः, उपेत्यस्यानुपसर्गत्वात् । अत्रापि धाता वित्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तेन सुब्धातावपि न प्रकृतिभावः । प्रार्षभीयतीति । अत्र शरोऽचि (८.४.४९) इत्यस्यानुपन्यासेन व्यञ्जनात्परस्यैकस्यानेकस्य वोच्चारणे विशेषाभावेन अचो रहाभ्यां द्वे (८.४.४६) इत्यस्य तन्निषेधस्य चानावश्यकता सूचिता ॥
Balamanorama¶
वा सुप्यापिशलेः - न भवतीति । परोऽपि प्रकृतिभावः पुनर्विधानसामर्थ्याद्बाध्यत इत्यर्थः । वा सुपि । उपसर्गादृति धाताविति पूर्वसूत्रमनुवर्तते । आद्गुण #इत्यतो वृद्धिरेचीत्यतश्च आदिति वृद्धिरिति चानुवर्तते । आदित्यनेन उपसर्गादिति विशेष्यत इति तदन्तविधिः । प्रत्ययग्रहणपरिभाषया सुप्शब्देन सुबन्तप्रकृतिको धातुर्विवक्षितः । एकः पूर्वपरयोरिति चाधिकृतम् । तदाह — अवर्णान्तादित्यादिना । सुब्धाताविति । सुबन्तप्रकृतकधातौ परत इत्यर्थः, सुबन्तस्य धातोरसंभवात् । एकादेश इति ।पूर्वपरयोरचो॑रिति शेषः । यद्यपि ऋच्छ गतावित्यादीनां क्विपि धातुत्वं सुबन्तत्वं च संभवति, तथापि तुस्यास्यसूत्रभाष्ये उपार्कारीयतीत्यादेरेतदुदाहरणत्वेन भाष्ये उक्तत्वात्सुबन्तप्रकृतिके इत्येव व्याख्यानमुचितम् । ननु वाग्रहणादेव सिद्धे आपिशालिग्रहणं व्यर्थमित्यत आह — आपिशलिग्रहणमिति । आपिशलेराचार्यस्याप्ययमर्थः संमत इत्यादेर्लाभार्थमित्यर्थः । प्रार्षभीयतीति । ऋषभमात्मन इच्छतीत्यर्थेसुप आत्मनः क्यच्॒सनाद्यन्ताः॑ इति धातुत्वम् ।सुपो धातुप्रातिपदिकयोः॑ इति सुपो लुक् ।क्यचि चे॑ति ईत्वम् । लट्, तिप्, शप् । पररूपम् । प्र ऋषभीयतीति स्थितेऽनेन वृद्धिराकारः । रपत्वम् । प्रर्षभीयतीति । वृद्ध्यभावपक्षे आद्गुणः, रपरत्वम् । सावण्र्यादिति । ऋऌवर्णयोरिति सावण्र्यादृतीत्यनेन लृतोऽपि ग्रहणमित्यर्थः । उपाल्कारीयतीति । ऌकारमात्मान इच्छतीत्यर्थे क्यजादि पूर्ववत् । लपरत्वं विशेषः । उपल्कारीयतीति । वृद्ध्वभावादत्र गुणः । लपरत्वम् । तपरत्वादिति । ऋतीति तपरकरणेन तत्कालस्यैव ग्रहणाद्दीर्घऋकारे परे वृद्धिविकल्पोऽयं न भवति, किं तु गुण एवेत्यर्थः । ऋकारीयतीति । ऋकारमात्मन इच्छतीत्यर्थे क्यजादि पूर्ववत् । वृद्ध्यभावादत्र गुण एव ।
Tattvabodhini¶
वा सुप्यापिशलेः - सुब्धाताविति । सुबन्तावयवके इत्यर्थः । सुबन्तस्य धातोरसंभवात् । यद्यपिऋज गतौ॑ इत्यादीनां क्विपि धातुत्वं सुबन्तत्वं च संभवति, तथापि न तादृशेषु तपरत्वव्यावर्त्त्यत्वं प्रसिद्धं, नामधातुष्वेव तत्संभवतीति न त एवेह गृह्यन्ते इति भावः । प्रार्षभीयतीति ।शरोऽची॑ति वक्ष्यमाणेन द्वित्वनिषेधः ।
Padamanjari¶
सुबन्तस्य धातोरसम्भवात्सुबित्येत्येतद्धातोरवयवद्वारकं विशेषणमित्याह -सुबन्तावयवे धाताविति। आचार्यग्रहणेनैव पूजाविकल्पयोरपि सिद्धयोः पुनर्वाग्रहणमाचार्यग्रहणस्य प्राधान्येन पूजार्थतां ख्यापयितुं कृतम् ॥
Nyaas¶
धातावित्यनुवर्तते, सुपीति चोच्यते, न च सुबन्तो धातुरस्ति, तत्र समथ्र्याद्धात्वेकदेशे वर्तमानं सुपत्येतदिह विशेषणं विज्ञायते, इत्याह -सुबन्तावयवे धातौ इत्यादि। उपाल्कारीयति इति। कथं पुनरृतीतयुच्यमाने लुकारे वृद्धिः प्रवर्तते? इत्याह -ऋकारऌकारयोः इत्यादि। ऋकारऌकारयोः सवर्णसंज्ञा विहितेति ऋकारो गृह्रमाण ऌकारमपि ग्राहयतीति तत्रापि वृद्धिर्भवति। आपिशलिग्रहणं पूजार्थम् इति। अथ विकल्पार्थं कस्मान्न भवति? इत्याह - वेत्युच्यत एव इति। यद्यप्याचार्यग्रहणेनैव पूजा, विकल्पश्चोभयं सम्पद्यते; तथाप्याचार्यग्रहणस्य प्राधान्येन पूजां ख्यापयितुं वाग्रहणं कृतमिति भावः॥
Praudhamanorama¶
प्रार्षभीयतीति। शरोऽचि (8.4.49) इति द्वित्वनिषेधः।
Prakriyasarvasvam¶
आदुपसर्गादृदादौ सुब्धातौ वा वृद्धिः स्यात् । आपिशलिग्रहः पूजार्थः । उपर्षभीयति उपार्षभीयति । लृतोऽपि सवर्णग्रहाद्, उपल्कारीयति उपाल्कारीयति ।