61091: उपसर्गादृति धातौ¶
Padacheda: उपसर्गात् | S | 5 | 1 |
ऋति | S | 7 | 1 |
धातौ | S | 7 | 1 |
Sutrartha¶
अवर्णान्तात् उपसर्गात् ऋकारादौ धातुरूपे परे पूर्वपरयोः एकः वृद्धि-एकादेशः भवति ।
अवर्णान्त-उपसर्गात् ऋकारादौ धातुरूपे परे पूर्वपरयोः आद्गुणः (6.1.87) इत्यनेन गुणैकादेशे प्राप्ते तं बाधित्वा प्रकृतसूत्रेण ‘आर्’ इति वृद्ध्येकादेशः विधीयते । उदाहरणानि एतानि —
प्र + ऋच्छति → प्रार्च्छति । अत्र ऋच्छति इति ऋच्छँ ((6.16)) धातोः लट्लकारस्य एकवचनस्य रूपम् ।
परा + ऋणाति → परार्णाति । अत्र ऋणाति इति ॠ ((9.32)) धातोः लट्लकारस्य एकवचनस्य रूपम् अस्ति ।
अप + ऋध्नोति → अपार्ध्नोति । अत्र ऋध्नोति इति ऋध् ((5.27)) धातोः लट्लकारस्य एकवचनस्य रूपम् ।
अव + ऋणोति → अवार्णोति । अत्र ॠणोति इति ॠण् ((8.5)) धातोः लट्लकारस्य एकवचनस्य रूपम् ।
5. आ + ऋतीयते → आर्तीयते । अत्र ऋतीयते इति ऋति ((1.1166)) धातोः लट्लकारस्य एकवचनस्य रूपम् । 7. उप + ऋच्छति → उपार्च्छति । अत्र ऋच्छति इति ऋ ((1.1086)) धातोः लट्लकारस्य एकवचनस्य रूपम् ।
आदेशनिर्णयः
आकार-ऐकार-औकाराणाम् वृद्धिरेचि इत्यनेन वृद्धिसंज्ञा भवति । अतः एतेषु अन्तरतमः आदेशः एकादेशरूपेण विधीयते । तत्र अवर्णस्य उच्चारणस्थानम् कण्ठः इति, ऋवर्णस्य उच्चारणस्थानम् मूर्धा इति । वॄद्धिसंज्ञकेभ्यः त्रिभ्यः वर्णेभ्यः ‘मूर्धा’ इति उच्चारणस्थानम् कस्यापि वर्णस्य नास्ति । परन्तु उरण् रपरः (1.1.51) इत्यनेन सूत्रेण एतत् ज्ञायते यत् ऋकारस्य स्थाने जायमानः आकारः नित्यम् रेफेण सह (इत्युक्ते, ‘आर्’ इत्यस्मिन् रूपे) विधीयते । अतः अवर्णात् ऋवर्णे परे उभयोः केवलम् ‘आ’ इति आदेशः कदापि नैव भवति, अपितु ‘आर्’ इति रेफयुक्तः आदेशः एव सम्भवति । अस्मिन् आदेशे विद्यमानस्य आकारस्य उच्चारणस्थानम् कण्ठः, रेफस्य उच्चारणस्थानम् च मूर्धा; अतः अत्र स्थानसाधर्म्यम् अपि सिद्ध्यति । अतः अवर्णात् ऋवर्णे परे ‘आर्’ इत्येव वृद्ध्येकादेशरूपेण विधीयते ।
दलकृत्यम्
अस्मिन् सूत्रे विद्यमानानाम् शब्दानाम् प्रयोजनम् इत्थम् — 1. ** उपसर्गात् इति किमर्थम् ? ** यत्र उपसर्गभिन्नः अवर्णान्तः शब्दः ऋकारादेः धातोः पूर्वम् प्रयुज्यते, तत्र प्रकृतसूत्रस्य प्रसक्तिः नास्ति । यथा, ‘माला ऋच्छति’ इत्यत्र आद्गुणः (6.1.87) इत्यनेन गुणैकादेशे कृते ‘मालर्च्छति’ इत्येव सिद्ध्यति । 2. ** ‘प्रादेः’ इति वक्तव्ये ‘उपसर्गात्’ इति किमर्थम् ? ** प्रादिगणस्य शब्दाः केवलम् क्रियायोगे एव उपसर्गसंज्ञकाः भवन्ति, अन्यसन्दर्भेषु न । यत्र प्रादिगणस्य शब्दाः उपसर्गसंज्ञकाः न सन्ति, तत्र अस्य सूत्रस्य प्रसक्तिः मा भूत्, इति स्पष्टीकर्तुम् अस्मिन् सूत्रे ‘उपसर्गात्’ इति पदं निर्दिश्यते । यथा, ‘प्रगताः ऋच्छकाः अस्मात् देशात्’ अत्र ऋच्छक-शब्दः ऋच्छ्-धातोः निर्मितःअस्ति, परन्तु अस्मिन् समासे ‘प्र’शब्दः क्रियायोगे न प्रयुज्यते अतः तस्य उपसर्गसंज्ञा अपि नास्ति । अस्मिन् स्थले प्रकृतसूत्रं न प्रयुज्यते, अतः ‘प्र + ऋच्छक’ इति स्थिते आद्गुणः (6.1.87) इत्यनेन गुणैकादेशे कृते ‘प्रर्च्छक’ इत्येव सिद्ध्यति । <light>प्र-उपसर्गपूर्वकात् ऋच्छ्-धातोः ण्वुल्-प्रत्यये कृते तु प्रकृतसूत्रेण ‘प्रार्च्छक’ इत्येव रूपं भवति ।</light> 3. ऋति धातौ इति किमर्थम् ? ** अत्र ‘धातौ’ इत्यनेन धातुरूपस्य ग्रहणं भवति । यत्र धातुरूपम् ऋकारादिः नास्ति, तत्र यद्यपि मूलधातुः ऋकारादिः अस्ति, तथापि प्रकृतसूत्रम् नैव प्रयोक्तव्यम् । यथा, जुहोत्यादिगणस्य ‘ऋ’ धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् ‘इयर्ति’ इति भवति । अत्र धातुरूपम् ऋकारादिः नास्ति, अतः अत्र प्रकृतसूत्रेण वृद्धिः न विधीयते, अपि तु **आद्गुणः (6.1.87) इत्यनेन गुणैकादेशे कृते एव रूपं सिद्ध्यति । “प्र + इयर्ति → प्रेयर्ति ।” 4. उपसर्गात् इत्युच्यमाने पुनः धातुग्रहणम् किमर्थम्? ‘उपसर्गात्’ इत्यनेनैव धातोः सन्दर्भे स्पष्टे सति, अस्मिन् सूत्रे पुनः धातुविधानम् बाधकबाधनार्थम् क्रियते । अग्रे वक्ष्यमाणेन ऋत्यकः (6.1.128) इति सूत्रेण अकारात् ऋकारे परे विकल्पेन पूर्वपरयोः यः प्रकृतिभावः प्राप्नोति, तं बाधित्वा अत्र नित्यमेव वृद्ध्येकादेशविधानार्थम् अस्मिन् सूत्रे धातुग्रहणं क्रियते । अतः ‘प्र + ऋच्छति’ इत्यत्र प्रकृतिभावः नैव सम्भवति, अपितु वृद्ध्येकादेशे कृते ‘प्रार्च्छति’ इति एकमेव रूपम् सिद्ध्यति । 5. ऋति इत्यत्र तपरकरणम् किमर्थम् ? दीर्घ-ॠकारादीनि धातुरूपाणि धातुपाठे नैव विद्यन्ते । परन्तु दीर्घ-ॠकारादि-सुब्धातूनां विषये इदं सूत्रं नैव प्रयोक्तव्यम्, इति ज्ञापयितुम् अस्मिन् सूत्रे ‘ऋति’ इति शब्दः स्वीक्रियते । अतएव ‘ॠकारम् आत्मनः इच्छति’ इत्यत्र ‘ॠकारीय’ इति दीर्घ-ॠकारादि-धातोः ॠकारस्य अकारान्त-उपसर्गेण सह वृद्ध्येकादेशः न सम्भवति, अपितु आद्गुणः (6.1.87) इत्यनेन गुणैकादेशे कृते एव रूपं सिद्ध्यति । “प्र + ॠकारीयति → प्रर्कारीयति ।” <note> 1. क्र्यादिगणस्य ॠ-धातुः यद्यपि दीर्घ-ॠकारादिः अस्ति, तथापि तस्य सर्वाणि ऋवर्णादीनि रूपाणि ह्रस्व-ऋकारादीनि एव सन्ति, यतः प्रक्रियायाम् प्वादीनां ह्रस्वः (7.3.80) इत्यनेन तस्य ह्रस्वादेशः विधीयते । अतः अस्य धातोः विषये प्रकृतसूत्रम् अवश्यम् प्रवर्तते । यथा, परा + ऋणाति → परार्णाति । 2. ह्रस्व-ॠकारादि-सुब्धातूनां विषये प्रकृतसूत्रेण नित्यम् वृद्ध्यादेशे प्राप्ते वा सुप्यापिशलेः (6.1.92) इति अग्रिमसूत्रेण सः विकल्प्यते । </note>
Sutrartha (English)¶
When an अवर्णान्त उपसर्ग is followed by a ऋकारादि verb form, both of them are replaced by a single वृद्धि letter.
Vasu English Summary¶
The वृद्धि is the single substitute when the अ or आ of a preposition (उपसर्ग) is followed by the short ऋ of a verb.
Vasu English Translation¶
The वृद्धि is the single substitute when the अ or आ of a preposition (उपसर्ग) is followed by the short ऋ of a verb. The word आत् is understood here also. When a preposition ending in अ or आ is followed by a root beginning with ऋ, the Vriddhi is the single substitute for the precedent अ or आ and the subsequent ऋ ॥ This debars the guna taught in (6.1.87). Thus उप + ऋच्छति = उपार्च्छति, प्रार्च्छति, उपाध्रोति ॥ Why do we say ‘after a preposition’? Observe खट्वर्च्छति, मालर्च्छति, प्रर्च्छकोदेशः = प्रगता ऋच्छका अस्माद् देशात् ॥ Here the word प्र is not treated as an upasarga, hence this sutra does not apply. It is a Gati here. Why do we say ‘when ऋ follows’? Observe उप + इत = उपेतः ॥ Why have we used त् after ऋ indicating that short ऋ is to be taken? Observe उप + ऋकारी यति = उपर्कारीयति ॥ No option is allowed here by the subsequent sutra. The त् is used, in fact, for the sake of the subsequent sutra in case of Denominative verbs, no ordinary verb can begin with a long ॠ ॥ Why have we employed the word धातु, when the word ‘upasarga’ would have caused us to infer its correlative धातु? It is used in order to prevent the application of the rule (6.1.129) which causes प्रकृतिभावः or non-sandhi of ऋ ॥ The repetition of ‘Dhatu’ shows that the alternative prakriti bhava taught in (6.1.129), would not apply in the case of the ऋ of a Dhatu.
Bhashya¶
उपसर्गादृति धातौ( 2528) (धातुग्रहणप्रयोजनभाष्यम्) धाताविति किमर्थम् ? इह मा भूत् । प्रर्षभं वनम् ॥ (6168 धातुग्रहणानर्थक्यबोधकवार्तिकम् ॥ 1 ॥) - उपसर्गाद्वृद्धिविधौ धातुग्रहणे उक्तम् - किमुक्तम् ? गत्युपसर्गसंज्ञाः क्रियायोगे यत्क्रियायुक्ताः प्रादयस्तं प्रतीति वचनमिति ॥ क्रियमाणेऽपि धातुग्रहणे प्रर्छक इति प्राप्नोति । यत्क्रियायुक्ताः प्रादयस्तं प्रतीति वचनान्न भवति ॥ (धातुग्रहणप्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम् - उपसर्गादृति धातौ वृद्धिरेव यथा स्यात्, यदन्यत् प्राप्नोति तन्मा भूदिति । किं चान्यत् प्राप्नोति ? ह्रस्वत्वम् ऋत्यकः (6.1.128) इति । ऋति ह्रस्वादुपसर्गाद्वृद्धिः पूर्वविप्रतिषेधेन इति चोदयिष्यति स न वक्तव्यो भवति ॥ (6169 विप्रतिषेधवार्तिकम् ॥ 2 ॥) - छे तुकः संबुद्धिगुणः - छे तुग्भवतीत्यस्मात्संबुद्धिगुणो भवति विप्रतिषेधेन । छे तुग्भवतीत्यस्यावकाशः - इच्छति, गच्छति । संबुद्धिगुणस्यावकाशः - अग्ने, वायो । इहोभयं प्राप्नोति - अग्नेच्छत्रम् - अग्ने छत्रम्, वायोच्छत्रम् -वायो छत्रम् । संबुद्धिगुणो भवति विप्रतिषेधेन ॥ स तर्हि विप्रतिषेधो वक्तव्यः । (6170 विप्रतिषेधखण्डनवार्तिकम् ॥ 3 ॥) - न वा बहिरङ्गलक्षणत्वात् - न वा वक्तव्यः । किं कारणम् ? बहिरङ्गलक्षणत्वात् । बहिरङ्गलक्षणस्तुक् । अन्तरङ्गलक्षणः सम्बुद्धिगुणः । असिद्धं बहिरङ्गमन्तरङ्गे ॥ (आक्षेप - समाधानपरभाष्यम्) अन्तरेणापि विप्रतिषेधमन्तरेणापि चैतां परिभाषां सिद्धम् । कथम् ? इदमिह संप्रधार्यम् - संबुद्धिलोपः क्रियतां गुण इति, किमत्र कर्तव्यम् ? परत्वाद् गुणः । नित्यः संबुद्धिलोपः । कृतेऽपि गुणे प्राप्नोत्यकृतेऽपि । गुणोऽपि नित्यः। कृतेऽपि संबुद्धिलोपे प्राप्नोत्यकृतेऽपि। अनित्यो गुणः । न हि संबुद्धिलोपे कृते प्राप्नोति । तावत्येव छेनानन्तर्यम्, तत्र तुका भवितव्यम् । तस्मात्सुष्ठूच्यते - छे तुकः संबुद्धिगुणे न वा, बहिरङ्गलक्षणत्वादिति ॥ (6171 विप्रतिषेधवार्तिकम् ॥ 4 ॥) - सम्प्रसारणदीर्घत्वण्यल्लोपाभ्यासगुणादयश्च - संप्रसारणदीर्घत्वण्यल्लोपाभ्यासगुणादयश्च तुको भवन्ति विप्रतिषेधेन ॥ संप्रसारणदीर्घत्वस्यावकाशः - हूतः, जीनः, संवीतः, शूनः । तुकोऽवकाशः - अग्निचित्, सोमसुत् । इहोभयं प्राप्नोति - परिवीषु, शकहूषु ॥ णिलोपस्यावकाशः - कारणा, हारणा । तुकः स एव । इहोभयं प्राप्नोति - प्रकार्य गतः, प्रहार्य गतः ॥ अल्लोपस्यावकाशः - प्रचिकीर्षिता, प्रजिहीर्षिता । तुकः स एव । इहोभयं प्राप्नोति - प्रचिकीर्ष्य गतः, प्रजिहीर्ष्य गतः ॥ अभ्यासगुणादयश्च तुको भवन्ति विप्रतिषेधेन । के पुनरभ्यासगुणादयः ? ह्रस्वत्वात्त्वेत्त्वगुणाः । ह्रस्वत्वस्यावकाशः - ययतुः - ययुः, तस्थतुः - तस्थुः । तुकः स एव । इहोभयं प्राप्नोति - अपचच्छतुः, अपचच्छुः ॥ अत्वस्यावकाशः - चक्रतुः, चक्रुः । तुकः स एव । इहोभयं प्राप्नोति - अपचच्छृदतुः, अपचच्छृदुः ॥ इत्वस्यावकाशः - यियक्षति, पिपक्षति । तुकः स एव । इहोभयं प्राप्नोति - चिच्छादयिषति, चिच्छर्दयिषति ॥ गुणस्यावकाशः - लोलूयते, बेभिद्यते । तुकः स एव । इहोभयं प्राप्नोति - चेच्छिद्यते, चोच्छुप्यते ॥ (6172 विप्रतिषेधवार्तिकम् ॥ 5 ॥) - यणादेशादाद्गुणः - यणादेशादाद्गुणो भवति विप्रतिषेधेन । यणादेशस्यावकाशः - दध्यत्र, मध्वत्र । आद्गुणस्यावकाशः - खट्वेन्द्रः, खट्वोदकम् । इहोभयं प्राप्नोति - वृक्षोऽत्र, प्लक्षोऽत्र ॥ (6173 विप्रतिषेधवार्तिकम् ॥ 6 ॥) - इरुर्गुणवृद्धिविधयश्च - इरुर्गुणवृद्धिविधयश्च यणादेशाद्भवन्ति विप्रतिषेधेन ॥ इरुरोरवकाशः - आस्तीर्णम्, निपूर्ताः पिण्डाः । यणादेशस्यावकाशः - चक्रतुः, चक्रुः । इहोभयं प्राप्नोति - दूरे ह्यध्वा जगुरिः, मित्रावरुणौ ततुरिः, किरति, गिरति ॥ गुणवृद्ध्योरवकाशः - चेता, गौः । यणादेशस्य स एव । इहोभयं प्राप्नोति - चयनम् - चायकः, लवनम् -लावकः ॥ (6174 विप्रतिषेधवार्तिकम् ॥ 7 ॥) - भलोपधातुप्रातिपदिकप्रत्ययसमासान्तोदात्तोदात्तनिवृत्तिस्वरा एकादेशाच्च - भलोपधातुप्रातिपदिकप्रत्ययसमासान्तोदात्तोदात्तनिवृत्तिस्वरा एकादेशाच्च यणादेशाच्च भवन्ति विप्रतिषेधेन ॥ भलोपस्यावकाशः - गार्ग्यः, वात्स्यः । एकादेशयणादेशयोरवकाशः - दधीन्द्रः मधूदकम्, दध्यत्र - मध्वत्र । इहोभयं प्राप्नोति - दाक्षी - दाक्षायणः, प्लाक्षीप्लाक्षायणः ॥ (अचि भलोप एकादेशाद्भवति विप्रतिषेधेन । अचि भलोपस्यावकाशः - दाक्षी - दाक्षायणः, प्लाक्षी - प्लाक्षायणः । एकादेशस्यावकाशः - दण्डाग्रम्, क्षुपाग्रहम् । इहोभयं प्राप्नोति - गाङ्गेयः, गाङ्गः ॥) धातुस्वरस्यावकाशः - पचति, पठति । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति - श्र्यर्थम्, श्रीषा ॥ प्रातिपदिकस्वरस्यावकाशः - आम्रः, शालः । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति - अग्न्युदकम्, वृक्षार्थम् ॥ प्रत्ययस्वरस्यावकाशः - चिकीर्षुः, औपगवः । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति - चिकीर्ष्वर्थम्, औपगवार्थम् ॥ समासान्तोदात्तस्यावकाशः - राजपुरुषः, ब्राह्मणकम्बलः । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति - राजवैद्यर्थम्, राजवैदीहते ॥ उदात्तनिवृत्तिस्वरस्यावकाशः - नदी, कुमारी । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति - कुमार्यर्थम्, कुमारीहते ॥ (6175 विप्रतिषेधवार्तिकम् ॥ 8 ॥) - अल्लोपाल्लोपौ चार्धधातुके - अल्लोपाल्लोपौ चार्धधातुके एकादेशाद्भवतो विप्रतिषेधेन ॥ अल्लोपस्यावकाशः - चिकीर्षिता, जिहीर्षिता । एकादेशस्यावकाशः - पचन्ति, पठन्ति । इहोभयं प्राप्नोति - चिकीर्षकः, जिहीर्षकः ॥ आल्लोपस्यावकाशः - पपिः सोमम्, ददिर्गाः । एकादेशस्यावकाशः - यान्ति, वान्ति । इहोभयं प्राप्नोति - ययतुः, ययुः ॥ (6176 विप्रतिषेधवार्तिकम् ॥ 9 ॥) - इयङुवङ्गुणवृद्धिटित्किन्मित्पूर्वपदविकाराश्च - इयङुवङ्गुणवृद्धिटित्किन्मित्पूर्वपदविकाराश्चैकादेशयणादेशाभ्यां भवन्ति विप्रतिषेधेन । इयङुवङोरवकाशः - श्रियौ - श्रियः, भ्रुवौ - भ्रुवः । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति - चिक्षियिव - चिक्षियिम, लुलुवतुः - लुलुवुः, पुपुवतुः - पुपुवुः ॥ गुणवृद्ध्योरवकाशः - चेता, गौः । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति - साधुचायी, सुचायी, नग्नंभावुकोऽध्वर्युः, शयिता, शयितुम् ॥ टितोऽवकाशः - षण्णाम्, सप्तानाम्, पञ्ञ्चानाम् । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति - वृक्षाणाम्, प्लक्षाणाम् ॥ कितोऽवकाशः - साधुदायी, सुष्ठुदायी । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति - दायकः, धायकः ॥ मितोऽवकाशः - त्रपुणी, जतुनी । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति - अस्थीनि, दधीनि, अतिसखीनि ब्राह्मणकुलानि ॥ पूर्वपदविकाराणामवकाशः - होतापोतारौ । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति - नेष्टोद्गातारौ, आग्नेन्द्रम् ॥ (6177 विप्रतिषेधबोधकवार्तिकम् ॥ 10 ॥) - उत्तरपदविकाराश्च - उत्तरपदविकाराश्चेति वक्तव्यम् ॥ उत्तरविकाराणामवकाशः - समीपम्, दुरीपम् । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति - नीपम्, वीपम्, प्रेपम्, परेपम् ॥
Kashika¶
आदित्येव। अवर्णान्तादुपसर्गादृकारादौ धातौ परतः पूर्वपरयोः स्थाने वृद्धिरेकादेशो भवति। आद्गुणापवादः। उपार्च्छति। प्रार्च्छति। उपार्ध्नोति। उपसर्गादिति किम् ? खट्वर्च्छति। मालर्च्छति। प्रगता ऋच्छका अस्माद् देशात् प्रर्च्छको देशः। यत्क्रियायुक्त ाः प्रादयस्तं प्रति गत्युपसर्गसंज्ञकाः (महाभाष्य १.७५) इति। ऋतीति किम् ? उप इत उपेतः। तपरकरणं किम् ? उप ॠकारीयति उपर्कारीयति। वा सुप्यापिशलेः (६.१.९२) इति विकल्पः स्यात्। उपसर्गग्रहणादेव धातुग्रहणे सिद्धे धातुग्रहणं शाकलनिवृत्त्यर्थम्। ऋत्यकः (६.१.१२८) इति हि शाकल्यस्य प्रकृतिभावः प्राप्नोति॥
Siddhanta Kaumudi¶
अवर्णान्तादुपसर्गादृकारादौ धातौ परे वृद्धिरेकादेशः स्यात् । उपार्च्छति । प्रार्च्छति ॥
Laghu Siddhanta Kaumudi¶
अवर्णान्तादुपसर्गादृकारादौ धातौ परे वृद्धिरेकादेशः स्यात्। प्रार्च्छति॥
Laghu Shabdendushekhar¶
उपसर्गादृति । तपरकरणात् “उपऋकारीयति” इत्यादौ वा सुप्यापिशलेः (६.१.९२) इति न वृद्धिः । सौत्रऋतिस्तु न गृह्यते, व्याख्यानात् । आदित्यनुवृत्तेन तदन्तविधिरित्याह - अवर्णान्तादिति । “यस्मिन्विधिः” (** यस्मिन्विधिस्तदादावल्ग्रहणे ** (PB३३)) इति परिभाषयाऽऽह – ऋकारादाविति । पूर्वपरयोस्तयोः समुदाययोरन्त्याद्योर्वर्णयोरेकादेश इत्यर्थः । उपसर्गावयवाकाराद्धात्ववयवे ऋकारे तयोः पूर्वपरयोर्वृद्धिरित्युचितम् । गतेरिति तु नोक्तम् । “अच्छर्छति” इत्यादौ दोषात् ॥
Balamanorama¶
उपसर्गादृति धातौ - उपसर्गादृति । आद्गुण इत्यत आदिति पञ्चम्यन्तमनुवर्तते । तच्च उपसर्गाविशेषणम्, अतस्तदन्तविधिः । अकारान्तादिति लभ्यते । ऋतीति धातोर्विशेषणम् । यस्मिन्विधिरिति तदादिविधिः । ऋकारादाविति लभ्यते । वृद्धिरेचीत्यतो वृद्धिरिति चानुवर्तते ।एकः पूर्वपरयो॑रित्यधिकृतम् । तदाह — अवर्णान्तादित्यादिना । एकादेश इति ।पूर्वपरयोरचो॑रिति शेषः । अन्यथा उपसर्गस्य धातोश्च सर्वादेशः स्यात् । उपाच्र्छति प्राच्र्छतीति । उप ऋच्छतिं प्रऋच्छतीति स्थिते गुणे प्राप्तेऽनेन वृद्धी-रपरत्वम् ।
Tattvabodhini¶
उपसर्गादृति धातौ - उपसर्गादृति । उपसर्गात्किम् , खट्वच्र्छति । ऋति किम् , उपेतः । तपरकरणमुत्तरार्थम् । इह दीर्घर्कारादेर्धातोरसंभवेन व्यावर्त्त्याऽलाभात् । धातौ किम् , उपर्कारः । नन्वत्रउपेत्युपसर्ग एव न भवति, क्रियायोग एवोपसर्गत्वात् । उपगत ऋकार इति विगृह्र क्रियायोगत्वसंपादनेऽपियत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञः॑ इति ऋकारं प्रति अनुपसर्ग एव । तथा चाऽकृतेऽपि धातुग्रहणे ऋकारादिधातावेव वृद्धिर्भविष्ट्यनुपसर्गेण धातोराक्षेपात्, नत्वत्रेति चेत्सत्यम्; अतएवयोगविभागेन पुनर्विधानार्थ॑मित्यनुपदं वक्ष्यतीति न काप्यनुपपत्तिः ।
Padamanjari¶
उपार्च्छतीति। ठृच्छ गन्तीन्द्रियप्रलयमूर्तिभावेषुऽ। प्रर्च्छको देश इति। अत्र यत्क्रियायुक्ताः प्रादयः इति गमिं प्रति प्रशब्दस्योपसर्गत्वं नर्च्छतिं प्रतीति भवति प्रत्युदाहरणम्। वा सुप्यापिशलेरिति हि विकल्पः स्यादिति। तेनोतरार्थन्तपरकरणमिति भावः। धातुग्रहणमनर्थकम्, यत्र चोपसर्गत्वं न सम्भवति, तत्रोपसर्गग्रहणेन प्रादयोऽपिलक्ष्यन्ते, यथा-नासिकाया नस्बावविधौ; इह तु मुख्यमेवोपसर्गत्वं सम्भवति तत्किं धातुग्रहणेन ? इत्यत आह-उपसर्गग्रहणादेवेति। शाकल्यस्येदं शाकलम्, तस्य निवृत्यर्थं पुनर्द्धातुग्रहणम्। सति तु दातुग्रहणे योगविभागेन पुनर्वृद्धिर्विधीयत इति शाकलं बाध्यते। असति तु तस्मिन् शाकल्यमतेन परत्वात् प्रकृतिभावः स्यादेव ॥
Nyaas¶
उपाच्र्छति इति। ऋच्छ गतन्द्रियप्रलयमूर्तिभावेषु (धा।प।1296) प्रगता ऋच्छका अस्माद्देशात्? प्रच्छको देशः इति। अत्र यं प्रति क्रियायुक्ता प्रादयस्तं प्रत गत्यपसर्गसंज्ञका भवन्ति इति गमिं प्रति प्रशब्दो गत्युपसर्गसंज्ञकः, न ऋच्छतिं परतीति भवति प्रत्युदाहरणमिदम्। वा सुप्यापिशलेरिति विकल्पः स्यत् इति। एतेनोत्तरार्थतां तपरकरणस्य दर्शयति। अथ धातग्रहणं किमर्थम्, यावत सम्बन्धिशब्दा हि नियतं प्रत्ययोगिनमुपस्थापयन्ति, तद्यथा -पुत्रादशब्दाः, उपसर्गश्चायं धात्वपेक्षत्वात्? सम्बन्धिशब्दः तत्रोपसर्गग्रहणादेव धातुग्रहणं सिध्यति? अत आह -उपसर्गग्रहणादेव इत्यादि। यदि धातुग्रहणं न क्रयेत, तदा पराच्र्छतीत्यत्र ऋत्यकः (6.1.128) इति परत्वात्? शाकल्यस्य मतेन परकृतवद्भावः ल्यात्। तस्मात् तस्य शाकल्यस्य प्रकृतिवद्भावस्य निवृत्त्यर्थं धातुग्रहणं क्रियते। कथं पुनः क्रियमाणे धातग्रहणे शाकल्यस्य प्रकृतवद्भावनिवृत्तिर्लभ्यते? योगविभागकारणात्। सति हि धातुग्रहणे योगविभागः क्रियते -उपसर्गावृत्ति वृद्धिर्भवतीति; ततो धाताविति, इहोपसर्गादिति वर्तते। ततो द्वितीयो योगो बाधकबाधनार्थो विज्ञायते। अथ उपसर्गाच्छन्दसि धात्वर्थे (5.1.118) इत्यत्र यथा प्राद्युपलक्षणार्थमुपसर्गग्रहणं विज्ञायते, तथेहापि कस्मान्न विज्ञायेत? अशक्यत्वात्। उपसर्गाच्छन्दसि धात्वर्थे इत्यत्र हि धातोरुपस्थानं न सम्भवतीति युक्तं प्राद्युपलक्षणार्थमुपसर्गग्रहणम्। इह हि धातोरुपस्थानं सम्भवतीत्ययुक्तम्॥
Prakriyasarvasvam¶
अवर्णान्तादुपसर्गाद् ऋकारादौ धातौ परे वृद्धिः स्यात् । उपाच्छर्ति ।
Sarala¶
प्रार्च्छति = प्रकर्षेण याति ॥
Sudha¶
प्रार्च्छति इति । “प्र-ऋच्छति” इति स्थितेऽत्र ऋच्छतीत्यस्य क्रियावाचकत्वात् भूवादयो धातवः (1.3.1) इत्यनेन धातुसंज्ञायाम, प्र इत्यस्य क्रियायोगात् उपसर्गाः क्रियायोगे (1.4.59) इत्यनेन उपसर्गसंज्ञायाम् उपसर्गादृति धातौ (6.1.91) इत्यनेन पूर्वपरयोः स्थाने आरूपवृद्धौ रपरे च “प्रार्च्छति” इति सिद्ध्यति ॥
Sutra Prayogas¶
दुर्वहश्रोणिपयोधरार्ता (कुमारसम्भवम्): उपसर्गादृति धातौ इति वृध्दिः।