61093: औतोऽम्शसोः¶
Padacheda: आ | S | | | 1
ओतः | S | 5 | 1 |
अम्-शसोः | S | 7 | 1 |
Sutrartha¶
ओकारात् अम्/शस्-प्रत्यये परे पूर्वपरयोः एकः आकारादेशः भवति ।
ओकारान्तशब्दात् पर: द्वितीया-एकवचनस्य अम्-प्रत्ययः / द्वितीयाबहुवचनस्य शस्-प्रत्ययः विधीयते चेत् पूर्वपरवर्णयोः एकः आकारादेशः भवति । अम्-प्रत्ययस्य / शस्-प्रत्ययस्य आदौ अकारः एव विद्यते, अतः अत्र ओ + अ → आ इति भवति इत्याशयः । ** अस्य सूत्रस्य प्रयोगः ओकारान्तशब्दानाम् रूपसिद्धौ एव भवति, नान्यत्र ।** उदाहरणे एते — 1. गो-शब्दस्य द्वितीयैकवचनस्य अम्-प्रत्यये परे ‘गाम्’ इति रूपं इत्थं सिद्ध्यति —
गो + अम् [द्वितीयैकवचनस्य प्रत्ययः]
→ गाम् [**औतोऽम्शसोः** (6.1.93) इत्यनेन ओकार-अकारयोः एकादेशः आकारः । अत्र वस्तुतः **गोतो णित्** (7.1.90) इत्यनेन 'अम्' इति णिद्भावं प्राप्नोति, अतः णित्-प्रत्यये परे **अचो ञ्णिति** (7.2.115) इति सूत्रेण अत्र अङ्गस्य वृद्धिः प्राप्नोति । एतां वृद्धिं बाधित्वा अत्र सूत्रनिर्माणसामर्थ्यात् **औतोऽम्शसोः** (6.1.93) इत्यनेन ओकार-अकारयोः एकादेशः आकारः विधीयते ।]
<note>शस्-प्रत्ययस्य साहचर्यात् ‘अम्’ इत्यनेन द्वितीयैकवचनस्य अम्-प्रत्ययः एव गृह्यते, न हि लङ्-लकारस्य अम्-प्रत्ययः । </note> 2. द्यो-शब्दस्य द्वितीयाबहुवचनस्य शस्-प्रत्यये परे ‘द्याः’ इति रूपं इत्थं सिद्ध्यति —
द्यो + शस् [द्वितीयैकवचनस्य प्रत्ययः]
→ द्यो + अस् [शकारस्य **लशक्वतद्धिते** (1.3.8) इति इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः]
→ द्यास् [**औतोऽम्शसोः** (6.1.93) इत्यनेन ओकार-अकारयोः एकादेशः आकारः ]
→ द्याः [**ससजुषो रुः** (8.2.66) इति रुत्वम्, **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]
Sutrartha (English)¶
When an ओकार is followed by the अम्-प्रत्यय or the शस्-प्रत्यय, both the letters are replaced by single आकार.
Vasu English Summary¶
For the ओ of a nominal stem + अ of the Accusative case-ending अम् and अस् the single substitute is आ।
Vasu English Translation¶
For the ओ of a nominal stem + अ of the Accusative case-ending अम् and अस् the single substitute is आ। The word औतः is a compound of आ + ओतः ॥ Thus गौ - अम्, = गाम्, गो + अस् = गाः ॥ Thus गां पश्य, गाः पश्यः ॥ This debars the Vriddhi of (7.1.90). So also द्यो or द्याः पश्य; as the word द्यो is also a nominal stem ending in ओ ॥ The Sarvanamasthana affixes are णित् after this word also (see (7.1.90)) which would have caused Vriddhi, therefore, this आ debars the Vriddhi. The word अम् here means the affix of the Accusative Singular, as it is read in connection with the case-affix शस्, and as the word सुप् of the last sutra governs this also. Therefore अम् the verbal Tense-affix of the Imperfect is not meant: thus we have अचिनवम्, असुनवम् ॥
Bhashya¶
औतोम्शसोः (2530) (6178 प्रतिषेधोपसंख्यानवार्तिकम् ॥ 1 ॥) - ओतस्तिङि प्रतिषेधः - ओतस्तिङि प्रतिषेधो वक्तव्यः । अचिनवम्, असुनवम् ॥ (वार्तिकप्रत्याख्यानभाष्यम्) स तर्हि प्रतिषेधो वक्तव्यः । न वक्तव्यः । गोग्रहणं करिष्यते, आ गोतः - इति वक्तव्यम् ॥ (6179 उपसंख्यानवार्तिकम् ॥ 2 ॥) - गोग्रहणे द्योरुपसंख्यानम् - गोग्रहणे द्योरुपसंख्यानं कर्तव्यम् । द्यां गच्छ ॥ (6180 प्रतिषेधोपसंख्यानवार्तिकम् ॥ 3 ॥) - समासाच्च प्रतिषेधः - समासाच्च प्रतिषेधो वक्तव्यः । चित्रगुं पश्य, शबलगुं पश्य ॥ ननु च आ-ओतः इत्युच्यमानेऽपि समासात्प्रतिषेधो वक्तव्यः । न वक्तव्यः । ह्रस्वत्वे कृते न भविष्यति । इदमिह संप्रधार्यम् - आत्वं क्रियतां ह्रस्वत्वमिति, किमत्र कर्तव्यम् ? परत्वादात्वम् ॥ (6181 पूर्ववार्तिकप्रत्याख्यानवार्तिकम् ॥ 4 ॥) - न वा बहिरङ्गलक्षणत्वात् - न वा वक्तव्यः । न वक्तव्यः । किं कारणम् ? बहिरङ्गलक्षणत्वात् । बहिरङ्गलक्षणमात्वम्, अन्तरङ्गं ह्रस्वत्वम् । असिद्धं बहिरङ्गमन्तरङ्गे ॥ ननु च - आ गोतः - इत्युच्यमानेऽपि समासात्प्रतिषेधो न वक्तव्यः । कथम् ? ह्रस्वत्वे कृते न भविष्यति । स्थानिवद्भावात्प्राप्नोति । ननु च ओतः इत्युच्यमानेऽपि स्थानिवद्भावात् प्राप्नोति । नेत्याह । अनल्विधौ स्थानिवद्भावः । आ गोतः इत्युच्यमानेऽपि न दोषः । प्रतिषिध्यतेऽत्र स्थानिवद्भावः - गोः पूर्वणित्त्वात्त्वस्वरेषु स्थानिवन्न भवतीति ॥ स एव तर्हि दोषः - गोग्रहणे द्योरुपसंख्यानमिति । सूत्रञ्च भिद्यते । यथान्यासमेवास्तु । ननु चोक्तम् - ओतस्तिङि प्रतिषेध इति ॥ (6182 प्रथमवार्तिकप्रत्याख्याने वार्तिकम् ॥ 5 ॥) - सुबधिकारात्सिद्धम् - सुपीति प्रकृतं वर्तते । क्व प्रकृतम् ? वा सुप्यापिशलेः (92) इति ॥ यद्यनुवर्तते, इहापि विभाषा प्राप्नोति । सुब्ग्रहणमनुवर्तते, वाग्रहणं निवृत्तम् ॥ कथं पुनरेकयोगनिर्दिष्टयोरेकदेशोऽनुवर्तते, एकदेशो न ? । (6183 प्रत्याख्यानोपष्टम्भकवार्तिकम् ॥ 6 ॥) - एकयोगे चैकदेशानुवृत्तिरन्यत्रापि - एकयोगनिर्दिष्टानामप्येकदेशानुवृत्तिर्भवति । अन्यत्रापि, नावश्यमिहैव । क्वान्यत्र ? अलुगधिकारः प्रागानङः, उत्तरपदाधिकारः प्रागङ्गाधिकारात् ॥ एवमपि - (6184 आक्षेपवार्तिकम् ॥ 7 ॥) - अम्युपसंख्यानं वृद्धिबलीयस्त्वात् - अम्युपसंख्यानं कर्तव्यम् । गां पश्य । किं पुनः कारणं न सिध्यति ? वृद्धिबलीयस्त्वात् । परत्वाद् वृद्धिः प्राप्नोति ॥ (6185 समाधानवार्तिकम् ॥ 8 ॥) - न वाऽनवकाशत्वात् - न वा वक्तव्यम् । किं कारणम् ? अनवकाशत्वात् । अनवकाशमात्वं वृद्धिं बाधिष्यते ॥ सावकाशमात्वम् । कोऽवकाशः ? द्यां गच्छ ॥ (6186 समाधानसाधकवार्तिकम् ॥ 9 ॥) - द्योश्च सर्वनामस्थाने वृद्धिविधिः - द्योश्च सर्वनामस्थाने वृद्धिर्विधेया । किं प्रयोजनम् ? (6187 समाधानसाधकप्रयोजनवार्तिकम् ॥ 10 ॥) - यद्याव इन्द्रेति दर्शनात् - यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः । यावता चेदानीं द्योरपि सर्वनामस्थाने वृद्धिरुच्यते, अनवकाशमात्वं वृद्धिं बाधिष्यते ॥
Kashika¶
ओतोऽमि शसि च परतः पूर्वपरयोराकार आदेशो भवति। गां पश्य। गाः पश्य। द्यां पश्य। द्याः पश्य। द्योशब्दोऽप्योकारान्त एव विद्यते, ततोऽपि परं सर्वनामस्थानं णिदिष्यते, तेन नाप्राप्तायां वृद्धावयमाकारो विधीयमानस्तां बाधते । अमिति द्वितीयैकवचनं गृह्यते, शसा साहचर्यात्, सुपीति चाधिकारात्। तेनाचिनवमसुनवमित्यत्र न भवति॥
Siddhanta Kaumudi¶
आ ओत इति छेदः । ओकारादम्शसोरचि परे आकार एकादेशः स्यात् । शसा साहचर्यात्सुबेव अम् गृह्यते । नेह । अचिनवम् । असुनवम् । गाम् । गावौ । गाः । गवा । गवे । गोः । गोः । इत्यादि ॥<!ओतो णिदिति वाच्यम् !> (वार्तिकम्) ॥ विहितविशेषणं च । तेन सुद्यौः । सुद्यावौ । सुद्यावः इत्यादि । ओकारान्ताद्विहितं सर्वनामस्थानमिति व्याख्यानान्नेह । हे भानो । हे भानवः । उः शम्भुः स्मृतो येन सः स्मृतौः । स्मृतावौ । स्मृतावः । स्मृताम् । स्मृतावौ । स्मृताः । इत्यादि । इत्योदन्ताः ॥
Laghu Siddhanta Kaumudi¶
ओतोऽम्शसोरचि आकार एकादेशः। गाम्। गावौ। गाः। गवा। गवे। गोः। इत्यादि॥
Balamanorama¶
ओतोऽम्शसोः - औतोऽम्शसोः । छेद इति । आ-ओत इति च्छेदः, व्याख्यानादिति भावः । ‘ओत’ इति तपरकरणम् । ओकारादित्यर्थः । अम्च शश्च अम्शसौ, तयोरिति विग्रहः । अवयवषष्ठन्तमेतत् ।इको यणची॑त्यतोऽचीत्यनुवर्तते । ‘एकः पूर्वपरयोः’ इत्यधिकृतम् । तदाह — ओकारादित्यादिना । शस इह सुबेव गृह्रते ननु बह्वल्पार्थादिति तद्धितः शंस्, अचीत्यनुवृत्तेः, तद्धितस्य च शसोऽजादित्वाऽसंभवात्, ‘लशक्वतद्धिते’ इत्यत्र तद्धितपर्युदासात् । ननु ‘चिञ् चयने’ लङ्, अडागमः, उत्तमपुरुषो मिप् ।तस्थस्थमिपा॑मिति तस्य अमादेशः । श्नुर्विकरणः ।सार्वधातुकार्घधातुकयोः॑ इति गुण ओकारः । अचिनो इति स्थितेऽवादेशे अचिनवमिति रूपम् । तत्र अचिनो अम् इति स्थिते अवादेशं बाधित्वा ‘औतोऽम्शसोः’ इत्यात्वे ‘अचिताम्’ इति स्यादित्यत आह — शसेति । गामिति । परापिअञ्चोणिती॑ति वृद्धिरिह न भवति, आत्वस्य निरवकाशतया तदपवादत्वादिति भाष्यम् । नहि वृद्धिविषयादन्यत्राऽऽत्वस्य प्रवृत्तिरस्तीति तदाशयः । नच द्योशब्दादमि आत्वं सावकाशंगोतोणि॑दिति णित्त्वस्य तत्राऽभावे वृद्धेरप्रसक्तेरिति वाच्यम् । अस्मादेव भाष्यादोतोणिदिति णित्त्वस्य वक्ष्यमाणत्वेन तस्यापि वृद्धिविषयत्वादिति भावः । गा इति । असर्वनामस्थानत्वान्न णिद्वत्त्वम् । नापि वृद्धिः । ‘औतोऽम्शसोः’ इत्यात्वमिति भावः । टादावच्यावादेशं मत्वाह — गवा गवे इति । गोरिति ।ङसिङसोश्चे॑ति पूर्वरूपमिति भावः । इत्यादीति । गवोः गवाम् । गवि इत्यादिशब्दार्थः । द्योशब्दओकारान्तः स्त्रीलिङ्गः ।सुरलोको द्योदिवौ द्वे स्त्रिया॑मित्यमरः । सु=शोभना द्यौर्यस्येति बहुव्रीहौ पुंलिङ्गः । सुद्योस् इत्यादिसर्वनामस्थानेगोतो णि॑दित्यप्राप्ते ।ओतो णिदिति वाच्यं । गोत इति गकारमपनीय ‘ओतो णित्’ इति वाच्यमित्यर्थः । तत्र प्रमाणमनुपदमेवोक्तम् । नत्विदं वार्तिकम् । तत्र ओत इति तपरकरणम् । ओकारात् सर्वनामस्थानं णिदिति लभ्यते ।विहितेति । ओकारद्विहितं सर्वनामस्थानमित्येवमोत इत्येतद्विहिताविशेषणमाश्रयणीयमित्यर्थः । तेनेति । गोत इति गकारमपनीय ओत इति वचनेनेत्यर्थः । सुद्यामित्यादीति । गोशब्दवद्रूपाणीति भावः । हे भानो इति ।ओकारात्परं सर्वनामस्थानं णि॑दिति व्याख्याने तु भानुशब्दात्सम्बुद्धौ ‘ह्रस्वस्य गुणः’ इति गुणे ओकारे सति सोरोकारात् परत्वाण्णिद्वत्त्वे वृद्धौ औकारे एङः परत्वाऽभावात्सुलोपाऽभावे रुत्वविसर्गयोः हेभानौ॑रिति स्यात् । अतो विहितविशेषणमित्यर्थः । ननुएह्ह्रस्वात्सम्बुद्धेः॑ इत्यत्र-एङ्ग्रहणसामर्थ्यादेव हे भानो इत्यत्र णित्त्वं तत्प्रयुक्तवृद्धिश्च न भवति । अन्यथा ‘एङ्ह्रस्वात्’ इत्येव ब्राऊयात् । अतो विहितविशेषणमनर्थकमित्यस्वारस्यादाह — हे भानव इति । तत्रजसि चे॑ति गुणे भानो अस् इति स्थिते ओतः परत्वाणिद्वत्त्वे वृद्धौ आवादेशे ‘भानावः’ इति स्यात् । अतो विहितविशेषणमिति भावः । वस्तुतस्तु लक्षणप्रतिपदोक्तपरिभाषया हे भानो हे भानव इत्यत्र णिद्वत्त्वाऽभावोपपत्तेर्विहितविशेषणत्वाश्रयणं व्यर्थमेव । उः शम्भुरिति । उरित्यस्य विवरणं शम्भुरिति । उः स्मृतो येनेति विग्रहे बहुव्रीहिः ।निष्ठ॑ति स्मृतशब्दस्य पूर्वनिपातः ।आद्गुणः॑ । स्मृतो इति रूपम् । ततः सुबुत्पत्तौ गोशब्दवद्रूपाणि । वस्तुतस्तुगोतो णि॑दिति सूत्रशेषतयाद्योश्च वृद्धिवक्तव्ये॑त्येव वार्तिकं भाष्ये दृश्यते । ‘औतोऽम्शसोः’ इत्यत्र ओतो णिदिति तु न दृश्यते । अतोऽन्यदोकारान्तं प्रातिपदिकं नास्तीत्याहुः । इत्योदन्ताः । अथैदन्ताः । रैशब्दो धनवाची । ‘अर्थरैविभवा अपि’ इत्यमरः ।
Tattvabodhini¶
ओतोऽम्शसोः - गौरित्यादि ।चित्रगु॑रित्यत्र तु न भवतिओत॑इति वक्ष्यमाणत्वात् ।तद्धितो यः शस् स ओकारान्तान्न संभवती॑त्याशयेनाह — शसा साहचर्यादिति ।सुपी॑ — त्यनुवर्तनाच्चेत्यपि काशिकयामुक्तम् । कैयटस्तुतद्धितोऽपि शसस्तीति कथमिह साहचर्यादम्रः सुप्त्व॑मित्याशङ्क्य,अचीत्यधिकारदजादि शस सुबेव संभवति, न तु तद्धित॑इत्याह । अचिनवमिति । चिनोतेर्लह्शब्देशस्य मिपःतस्थस्थामिपाम् — — ॑इत्यम् ।ओतो णिदिति वाच्यम् । ओतो णिदिति वाच्यमिति ।गोत॑इत्यपहायओत॑इति वाच्यमित्यर्थः । एवंचगा॑मित्यत्र परत्वाद्धृद्धिः स्यादिति शङ्कया अनवकाशः, नरवकाशतया आत्वेन वृद्धेरेव बाधनात् ।इत्योदन्ताः ।
Padamanjari¶
गां पश्येति। ननु चात्र’गोतो णित्’ इति णित्वे सति परत्वा द्वद्धौ कृतायामोकाराभावादात्वेन न भाव्यम्, आत्वविधानं तु द्योशब्दार्थं स्यात्, न हि तत्र णित्वमस्ति,’गोतः’ इति वचनादित्यत आह-द्योशब्दोऽपीत्यादि। सत्यं यदि णित्वं न स्यात्, अस्ति तु तत्रापि णित्वम्,’गोतः’ इत्यस्यौकारान्तोपलक्षणत्वात्, वर्णनिर्द्देशेषु तपरत्वप्रसिद्धेः। ततः किम्? इत्याह -तेनेति। शसा साहचर्यादिति। सुप एव हि शशोऽत्र सम्भवः, नान्यस्य;ठचिऽ इत्यधिकारात्। अचितवमसुनवमिति। चिनोतेः, सुनोतेश्च लङ्,’तस्थस्थमिपाण्’ इत्यमि कृते विकरणस्य गुणावादेशौ ॥
Nyaas¶
गाम्पश्य इति। कथं पुनरेतदुदह्मतम्, यावता गोतो णित् (7.1.90) इति णित्त्वे सति परत्वात्? वृद्ध्यात्र भवितव्यम्? इत्यत आह -द्योशब्दोऽप्योकारान्तः इत्यादि। तपरकरणं हि वर्णनिर्देशेषु प्रसिद्धमिति गोतः इति तपरनिर्देश ओकारान्तोपलक्षमार्थो विज्ञायते, ततश्च द्योशब्दादपि परं सर्वनामस्थानं णिद्वद्भवति। यद्येवम्, तत्? किमिति वृद्धर्नात्र भवति? इत्याह -तेन इत्यादि। यदि द्योशब्दात्? परस्य सर्वनामस्थानस्य णित्त्वं न स्यात्, ततो द्यां पश्येत्यत्र सावकाशमात्वं गां पश्येत्यत्र परत्वाद्वृद्ध्या बाध्येत। यदि तु द्योशब्दादपि परं सर्वनामस्थानं णिद्भवतीति, तदा द्यां पश्येत्यत्र वृद्धिः प्राप्नोत्येव। ततो नाप्राप्तायां वृद्धाविदमात्वं विधीयमानमनवकाशत्वाद्वृदिंध बाधते। ततश्च युकतमेव गां पश्येत्येतदुदाहरणम्। अथेहाप्यचिनवम्, असुनवमित्यत्र चिनोतेः सुनोतेश्च लङि मिपि विकरणस्य गुणे कृते मिपः तस्थस्थमिपाम् (3.4.101) इत्यादिनाम्भावे चौकारस्यात्वं कस्मान्न भवति? इत्याह -अमि इत्यादि। शसा साहचर्यात्? सुबधिकाराद्वा सुप एवाम इदं ग्रहणम्। अतो नात्रात्वस्य प्रसङ्गः। चित्रगुं पश्येत्यत्र तु ह्रस्वत्वे कृत ओकाराभावात्? स्थानिवदादेशोऽनल्विधौ (1.1.56) इति स्थानिवद्भावप्रतिषेधादात्वं न भवति॥
Praudhamanorama¶
ओतो णिदिति वाच्यमिति। गोत इत्यपहाय ओत इति वाच्यमित्यर्थः। तथा च गामित्यत्र परत्वाद्वृद्धौ सत्यामात्वं न स्यादित्याशङ्क्य निरवकाशतया आत्वेन वृद्धिर्बाध्यत इति ‘औतोऽम्शसोः’ इति सूत्रे भाष्यकृतोक्तम्। कैयटोऽपि तत्रेत्थमाह- ओत इति सूत्रे पाठ्यम्, गोत इत्योकारोपलक्षणतया वा व्याख्येयमिति। स्मृतौरिति। यत्त्वाहुः—गोशब्देन औणादिकेन सादृश्याद् द्योशब्द एव लक्ष्यते न त्वोकारान्तमात्रम्। तेन स्मृतोः स्मृतवौ स्मृतव इत्येव भवतीति, तद्भाष्यविरुद्धम्। गोद्योभ्यामेव परस्य णित्वाभ्युपगमे हि ‘औतोऽम्शसोः’ इत्यात्वस्य स्मृतामित्यादिरवकाशः स्यात्। तथा च गामित्यत्र परत्वाद्वृद्धेर्दुर्वारतया उदाहृतभाष्योक्तमात्वस्य बाधकत्वं निरवकाशत्वं च सङ्गच्छेतेति दिक्। ॥ इत्योदन्ताः॥
Prakriyasarvasvam¶
आ ओत इति च्छेदः । ओदन्तादमि शसि च परे पूर्वपरयोः सहात्वं स्यात् । द्यांमन्या भूमिः । श्रियंमन्येत्यादि । <karika>क्लीबे त्वत्रान्यलिङ्गोऽपि क्लीबं स्यादिति भाष्यकृत् । तेन क्लीबोदितो ह्रस्वोऽप्यमोऽम्प्रत्ययवत्त्वतः ॥ ९६ ॥ स्वमोरित्यादिना लुक् च श्रिमन्यं वनिताकुलम् । इति त्रैकाल्यतुल्यानामुल्लासोऽयं कृतां कृतः ॥ ९७ ॥</karika>
Sudha¶
औतोऽम्शसोरिति । आ ओत इति च्छेदः, व्याख्यानादिति भावः। ओत इति तपरकरणम् । इको यणचि**(6.1.77) इत्यतोऽचीत्यनुवर्तते । **एकः पूर्वपरयोः**(6.1.84) इत्यधिकृतन्तदाह - **ओकारादित्यादिना । गामिति । गोशब्दादमि समागते औतोऽम्शसोः**(6.1.93) इत्यनेन पूर्वपरयोः स्थाने आकारादेशे कृते “गाम्” इति । **गावाविति । गोशब्दादौटि कृते गोतो णित्**(7.1.90) इति णिद्वद्भावे वृद्धावावादेशे च कृते “गावौ” इति । **गाः इति । गोशब्दात् शसि समागते लशक्वतद्धिते**(1.3.8) इति शस्येत्सञ्ज्ञायां लोपे च कृते **औतोऽम्शसोः**(6.1.93) इति पूर्वपरयोः स्थाने आकारादेशे च विहिते सस्य रुत्वे विसर्गे च “गाः” इति रूपम् । टादावचि अवादेशं मत्वाह - **गवा गवे इति । गोरिति । ङसिङसोश्च**(6.1.110) इति पूर्वरूपमिति भावः । **इत्यादीति । गवोः गवाम्, गवि इत्यादिशब्दार्थः।
Sutra Prayogas¶
द्यां (भट्टिकाव्यम्): औतोऽम्शसोः इत्यात्वम्।