61092: वा सुप्यापिशलेः ====================== **Padacheda:** वा | S | 0 | 0 | सुपि | S | 7 | 1 | आपिशलेः | S | 6 | 1 | Sutrartha --------- **अवर्णान्तात् उपसर्गात् ऋकारादौ सुब्धातौ परे विकल्पेन पूर्वपरयोः एकः वृद्धि-एकादेशः भवति ।** अवर्णान्त-उपसर्गात् ऋकारादौ धातुरूपे परे पूर्वपरयोः **आद्गुणः** (6.1.87) इत्यनेन गुणैकादेशे प्राप्ते ; तं बाधित्वा **उपसर्गादृति धातौ** (6.1.91) इत्यनेन नित्यम् वृद्ध्येकादेशे प्राप्ते; **नामधातूनां विषये प्रकृतसूत्रेण अयम् वृद्ध्येकादेशः विकल्प्यते, अतः पक्षे गुणैकादेशः अपि भवति**। यथा — 1. 'ऋषभम् आत्मनः इच्छति' इत्यत्र **सुप आत्मनः क्यच्** (3.1.8) इत्यनेन क्यच्-प्रत्यये कृते 'ऋषभीय' इति आतिदेशिकधातुः सिद्ध्यति । अस्य धातोः रूपम् अवर्णान्त-उपसर्गात् परम् विद्यते चेत् पूर्वपरयोः विकल्पेन वृद्ध्यादेशः भवति, पक्षे गुणैकादेशः अपि सिद्ध्यति । "प्र + ऋषभीयति → प्रार्षभीयति, प्रर्षभीयति ।" 2. अस्मिन् सूत्रे अनुवृत्तिरूपेण 'ऋति' इति गृह्यमाणेन शब्देन तात्कालिकभेदग्रहणम् अपि भवति, अतः ऌकारस्य विषये अपि प्रकृतं सूत्रं प्रवर्तते । यथा, 'ऌकारम् आत्मनः इच्छति' इत्यत्र **सुप आत्मनः क्यच्** (3.1.8) इत्यनेन क्यच्-प्रत्यये कृते 'ऌकारीय' इति आतिदेशिकधातौ सिद्धे, तस्य रूपम् अवर्णान्त-उपसर्गात् परम् विद्यते चेत् पूर्वपरयोः विकल्पेन वृद्ध्यादेशः भवति, पक्षे गुणैकादेशः अपि सिद्ध्यति । "प्र + ऌकारीयति → प्राल्कारीयति, प्रल्कारीयति ।" **ऋति इत्यत्र तपरकरणम्** केवलम् 'ऋ' इति निर्देशः **अणुदित् सवर्णस्य चाप्रत्ययः** (1.1.69) इत्येतं सूत्रम् अनुसृत्य सवर्णग्रहणं करोति । तद्बाधित्वा **तपरस्तत्कालस्य** (1.1.70) इत्यनेन तात्कालिक-भेदानाम्व एव ग्रहणं कर्तुम् ऋति-शब्दे तपरकरणं क्रियते । अनेन तपरकरणेन दीर्घ-ॠकारस्य अस्मिन् सूत्रे ग्रहणं न भवति, अतश्च दीर्घ-ॠकारादि-धातुरूपाणां विषये इदं सूत्रं नैव प्रवर्तते । अतः 'ॠकारम् आत्मनः इच्छति' इत्यत्र 'ॠकार' शब्दात् **सुप आत्मनः क्यच्** (3.1.8) इत्यनेन क्यच्-प्रत्यये कृते 'ॠकारीय' इति नामधातुः सिद्ध्यति, तस्य विषये इदं सूत्रं न प्रवर्तते । अतः अस्य धातोः विषये **आद्गुणः** (6.1.87) इत्यनेन नित्यम् गुणैकादेशः एव विधीयते । "प्र + ॠकारीयति → प्रर्कारीयति ।" दीर्घ-ॠकारान्त-नामधातूनां विषये प्रकृतसूत्रेण वृद्ध्येकादेशस्य बाधः भवति चेत् **उपसर्गादृति धातौ** (6.1.91) इत्यनेन पुनः वृद्ध्येकादेशः न हि प्रवर्तते, यतः तस्मिन् सूत्रे अपि 'ऋति' इति शब्दः विद्यते एव । **आपिशलिग्रहणम् पूजार्थम्** प्रकृतसूत्रे 'आपिशलेः' इति निर्देशः 'आपिशलिः' इति कस्यचन वैयाकरणस्य निर्देशः अस्ति । अष्टाध्याय्यां सामान्यरूपेण यत्र पाणिनिः अन्येषाम् आचार्याणाम् नाम उक्त्वा किञ्चन कार्यं वदति, तत्र तत् कार्यं वैकल्पिकं मन्यते । परन्तु अत्र पाणिनिना 'वा' इति उक्त्वा आदौ एव वैकल्पिकत्वम् उक्तमस्ति । अतः अत्र 'आपिशलि'-मुनेः ग्रहणम् केवलं पूजार्थम् (आदरार्थम्, to show respect, to give credit etc) क्रियते, न हि विकल्पविधानार्थम् । Sutrartha (English) ------------------- When an अवर्णान्त उपसर्ग is followed by a ऋकारादि सुब्धातु, both of them are optionally replaced by a single वृद्धि letter. Vasu English Summary -------------------- According to the opinion of आपिशलि, the वृद्धि is optionally the single substitute, when the अ or आ of a preposition is followed by a Denominative Verb beginning with ऋ। Vasu English Translation ------------------------ According to the opinion of आपिशलि, the वृद्धि is optionally the single substitute, when the अ or आ of a preposition is followed by a Denominative Verb beginning with ऋ। Thus उपार्षभीयति or उपर्षभीयति, उपल्कारीयति or उपाल्कारीयति ॥ The ऋ and लृ are considered as homogenous letters, therefore the word ऋ in the last *sutra* includes लृ also. The name of the Grammarian *Apisali* is mentioned for the sake of respect; the वा itself was enough to make it an optional rule. Kashika ------- आदित्येव, उपसर्गादृति धाताविति च। सुबन्तावयवे धातावृकारादौ परतोऽवर्णान्तादुपसर्गात् पूर्वपरयोरापिशलेराचार्यस्य मतेन वा वृद्धिरेकादेशो भवति। उपर्षभीयति, उपार्षभीयति। उपल्कारीयति, उपाल्कारीयति। ऋकारऌकारयोः सावर्ण्यविधिः (का० १.१.९) इति ऋतीति ऌकारोऽपि गृह्यते। आपिशलिग्रहणं पूजार्थम्। वेति ह्युच्यत एव॥ Siddhanta Kaumudi ----------------- अवर्णान्तादुपसर्गादृकारादौ सुब्धातौ परे वृद्धिरेकादेशः वा स्यात् । आपिशलिग्रहणं पूजार्थम् । प्रार्षभीयति । प्रर्षभीयति । सावर्ण्यात् ऌवर्णस्य ग्रहणम् । प्राल्कारीयति । प्रल्कारीयति । तपरत्वाद्दीर्घे न । उपऋकारीयति । उपर्कारीयति ॥ Laghu Shabdendushekhar ---------------------- **सुब्धाताविति** । सुबन्तप्रकृतिके धातावित्यर्थः । तुल्यास्यसूत्रे (**तुल्यास्यप्रयत्नं सवर्णम्** (१.१.९)) "उपार्कारीयति" इत्यादेरेतदुदाहरणत्वस्य भाष्ये उक्तत्वात् । शास्त्रे सुबन्तस्य धातुप्रकृतित्वेनोक्ततया तत्प्रकृतिके इति व्याख्यानमेवोचितम् । ऋषभस्य समीपमुपर्षभं तदिच्छति "उपर्षभीयति" इत्यत्र तु न वृद्धिः, उपेत्यस्यानुपसर्गत्वात् । अत्रापि धाता वित्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तेन सुब्धातावपि न प्रकृतिभावः । **प्रार्षभीयतीति** । अत्र **शरोऽचि** (८.४.४९) इत्यस्यानुपन्यासेन व्यञ्जनात्परस्यैकस्यानेकस्य वोच्चारणे विशेषाभावेन **अचो रहाभ्यां द्वे** (८.४.४६) इत्यस्य तन्निषेधस्य चानावश्यकता सूचिता ॥ Balamanorama ------------ **वा सुप्यापिशलेः** - न भवतीति । परोऽपि प्रकृतिभावः पुनर्विधानसामर्थ्याद्बाध्यत इत्यर्थः । वा सुपि । उपसर्गादृति धाताविति पूर्वसूत्रमनुवर्तते । आद्गुण #इत्यतो वृद्धिरेचीत्यतश्च आदिति वृद्धिरिति चानुवर्तते । आदित्यनेन उपसर्गादिति विशेष्यत इति तदन्तविधिः । प्रत्ययग्रहणपरिभाषया सुप्शब्देन सुबन्तप्रकृतिको धातुर्विवक्षितः । एकः पूर्वपरयोरिति चाधिकृतम् । तदाह — अवर्णान्तादित्यादिना । सुब्धाताविति । सुबन्तप्रकृतकधातौ परत इत्यर्थः, सुबन्तस्य धातोरसंभवात् । एकादेश इति ।पूर्वपरयोरचो॑रिति शेषः । यद्यपि ऋच्छ गतावित्यादीनां क्विपि धातुत्वं सुबन्तत्वं च संभवति, तथापि तुस्यास्यसूत्रभाष्ये उपार्कारीयतीत्यादेरेतदुदाहरणत्वेन भाष्ये उक्तत्वात्सुबन्तप्रकृतिके इत्येव व्याख्यानमुचितम् । ननु वाग्रहणादेव सिद्धे आपिशालिग्रहणं व्यर्थमित्यत आह — आपिशलिग्रहणमिति । आपिशलेराचार्यस्याप्ययमर्थः संमत इत्यादेर्लाभार्थमित्यर्थः । प्रार्षभीयतीति । ऋषभमात्मन इच्छतीत्यर्थेसुप आत्मनः क्यच्॒सनाद्यन्ताः॑ इति धातुत्वम् ।सुपो धातुप्रातिपदिकयोः॑ इति सुपो लुक् ।क्यचि चे॑ति ईत्वम् । लट्, तिप्, शप् । पररूपम् । प्र ऋषभीयतीति स्थितेऽनेन वृद्धिराकारः । रपत्वम् । प्रर्षभीयतीति । वृद्ध्यभावपक्षे आद्गुणः, रपरत्वम् । सावण्र्यादिति । ऋऌवर्णयोरिति सावण्र्यादृतीत्यनेन लृतोऽपि ग्रहणमित्यर्थः । उपाल्कारीयतीति । ऌकारमात्मान इच्छतीत्यर्थे क्यजादि पूर्ववत् । लपरत्वं विशेषः । उपल्कारीयतीति । वृद्ध्वभावादत्र गुणः । लपरत्वम् । तपरत्वादिति । ऋतीति तपरकरणेन तत्कालस्यैव ग्रहणाद्दीर्घऋकारे परे वृद्धिविकल्पोऽयं न भवति, किं तु गुण एवेत्यर्थः । ऋकारीयतीति । ऋकारमात्मन इच्छतीत्यर्थे क्यजादि पूर्ववत् । वृद्ध्यभावादत्र गुण एव । Tattvabodhini ------------- **वा सुप्यापिशलेः** - सुब्धाताविति । सुबन्तावयवके इत्यर्थः । सुबन्तस्य धातोरसंभवात् । यद्यपिऋज गतौ॑ इत्यादीनां क्विपि धातुत्वं सुबन्तत्वं च संभवति, तथापि न तादृशेषु तपरत्वव्यावर्त्त्यत्वं प्रसिद्धं, नामधातुष्वेव तत्संभवतीति न त एवेह गृह्यन्ते इति भावः । प्रार्षभीयतीति ।शरोऽची॑ति वक्ष्यमाणेन द्वित्वनिषेधः । Padamanjari ----------- सुबन्तस्य धातोरसम्भवात्सुबित्येत्येतद्धातोरवयवद्वारकं विशेषणमित्याह -सुबन्तावयवे धाताविति। आचार्यग्रहणेनैव पूजाविकल्पयोरपि सिद्धयोः पुनर्वाग्रहणमाचार्यग्रहणस्य प्राधान्येन पूजार्थतां ख्यापयितुं कृतम् ॥ Nyaas ----- धातावित्यनुवर्तते, सुपीति चोच्यते, न च सुबन्तो धातुरस्ति, तत्र समथ्र्याद्धात्वेकदेशे वर्तमानं सुपत्येतदिह विशेषणं विज्ञायते, इत्याह -`सुबन्तावयवे धातौ` इत्यादि। `उपाल्कारीयति` इति। कथं पुनरृतीतयुच्यमाने लुकारे वृद्धिः प्रवर्तते? इत्याह -`ऋकारऌकारयोः` इत्यादि। ऋकारऌकारयोः सवर्णसंज्ञा विहितेति ऋकारो गृह्रमाण ऌकारमपि ग्राहयतीति तत्रापि वृद्धिर्भवति। `आपिशलिग्रहणं पूजार्थम्` इति। अथ विकल्पार्थं कस्मान्न भवति? इत्याह - `वेत्युच्यत एव` इति। यद्यप्याचार्यग्रहणेनैव पूजा, विकल्पश्चोभयं सम्पद्यते; तथाप्याचार्यग्रहणस्य प्राधान्येन पूजां ख्यापयितुं वाग्रहणं कृतमिति भावः॥ Praudhamanorama --------------- **प्रार्षभीयतीति।** **शरोऽचि** (8.4.49) इति द्वित्वनिषेधः। Prakriyasarvasvam ----------------- आदुपसर्गादृदादौ सुब्धातौ वा वृद्धिः स्यात् । आपिशलिग्रहः पूजार्थः । उपर्षभीयति उपार्षभीयति । लृतोऽपि सवर्णग्रहाद्, उपल्कारीयति उपाल्कारीयति ।