61090: आटश्च¶
Padacheda: आटः | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
आट्-आगमात् अच्-वर्णे परे उभयोः एकः वृद्धि-एकादेशः भवति ।
‘आट्’ इति अष्टाध्याय्याम् पाठितः कश्चन आगमः । अयम् आगमः त्रिषु स्थलेषु पाठितः अस्ति । एतेषु त्रिषु अपि स्थलेषु पाठितस्य अस्य आगमस्य आकारस्य तस्मात् परः विद्यमानेन स्वरेण सह प्रकृतसूत्रेण वृद्ध्येकादेशः विधीयते । एतानि त्रीणि स्थलानि सोदाहरणम् एतादृशानि —
<hlb>1) लुङ्/लङ्/लृङ्लकारप्रक्रियायाम् आडागमः, तस्य वृद्ध्येकादेशः —</hlb> लुङ्-लङ्-लृङ्-लकाराणाम् प्रक्रियासु अजादिधातून**आडजादीनाम्** (6.4.72) इत्यनेन सूत्रेण आट्-आगमः भवति । अस्य आट्-आगमस्य आकारस्य धातोः आदिस्थस्वरेण सह प्रकृतसूत्रेण वृद्ध्येकादेशः विधीयते । द्वे उदाहरणे एतादृशे — 1. ‘ईक्ष्’ धातोः लङ्-लकारस्य प्रथमपुरुषैकवचनस्य सिद्धिः इयम् —
ईक्षँ (दर्शने, भ्वादिः, (1.694))
→ ईक्ष् + लङ् [**अनद्यतने लङ्** (3.2.111)
→ आट् + ईक्ष् + लङ् [**आडजादीनाम्** (6.4.72) इति आडागमः]
→ आ + ईक्ष् + त [**तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् त-आदेशः]
→ आ + ईक्ष् + शप् + त [**कर्तरि शप्** (3.1.68) इति शप्]
→ आ + ईक्ष् + अ + त [इत्संज्ञालोपः]
→ ऐक्षत [**आद्गुणः** (6.1.87) इत्यनेन गुणैकादेशे प्राप्ते, तद्बाधित्वा **आटश्च** (6.1.90) इति वृद्ध्येकादेशः]
उब्ज्-धातोः लुङ्-लकारस्य प्रथमपुरुषैकवचनस्य सिद्धिः इयम् -
उब्जँ (आर्जवे, तुदादिः, (6.23))
→ उब्ज् + लुङ् [**लुङ्** (3.2.101) इति लुङ्-लकारः]
→ आट् + उब्ज् + लुङ् [**आडजादीनाम्** (6.4.72) इति आडागमः]
→ आ + उब्ज् + तिप् [**तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इति प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-आदेशः]
→ आ + उब्ज् + च्लि + ति [**च्लि लुङि** (3.1.43) इति च्लि-विकरणम्]
→ आ + उब्ज् + सिच् + ति [**च्लेः सिच्** (3.1.44) इति सिच्-आदेशः]
→ आ + उब्ज् + स् + त् [**इतश्च** (3.4.100) इति ति-प्रत्ययस्य इकारस्य लोपः]
→ आ + उब्ज् + इट् + स् + ति [**आर्धधातुकस्येड् वलादेः** (7.2.35) इति इडागमः]
→ आ + उब्ज् + इ + स् + ई + त् [**अस्तिसिचोऽपृक्ते** (7.3.96) इति ईट्-आगमः]
→ आ + उब्ज् + इ + ई + त् [**इट ईटि** (8.2.28) इति सकारलोपः]
→ आ + उब्ज् + ई + त् [**अकः सवर्णे दीर्घः** (6.1.101) इति इकार-ईकारयोः सवर्णदीर्घः ईकारः]
→ औब्ज् + ई + त् [आकार-उकारयोः **आद्गुणः** (6.1.87) इत्यनेन गुणैकादेशे प्राप्ते, तद्बाधित्वा **आटश्च** (6.1.90) इति वृद्ध्येकादेशः]
→ औब्जीत्
<hlb>2) लोट्लकारस्य उत्तमपुरुषैकवचनस्य रूपे आडागमः, तस्य वृद्ध्येकादेशः —</hlb> **आडुत्तमस्य पिच्च**(3.4.92) इत्यनेन लोट्लकारस्य उत्तमपुरुषस्य प्रत्ययानाम् ‘आट्’ इति आगमः भवति । तत्र आत्मनेपदस्य उत्तमपुरुषैकवचनस्य ‘इ’ इति अजादिप्रत्ययस्य अनेन आकारेण सह प्रकृतसूत्रेण वृद्ध्येकादेशः विधीयते । यथा, ‘चक्ष्’ धातोः लोट्लकारस्य उत्तमपुरुषैकवचनस्य प्रक्रिया इयम् —
चक्षिङ् (व्यक्तायां वाचि, अदादिः, (2.7)
→ चक्ष् [**हलन्त्यम्** (1.3.3) इति ङकारस्य इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः । इकारः उच्चारणार्थः, सोऽपि लुप्यते ।]
→ चक्ष् + लोट् [**लोट् च** (3.3.162) इति लोट्लकारः]
→ चक्ष् + इट् [**तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इति आत्मनेपदस्य उत्तमपुरुषैकवचनस्य इट्-प्रत्ययः]
→ चक्ष् + शप् + इ [**कर्तरि शप्** (3.1.68) इति शप्-विकरणम्]
→ चक्ष् + इ [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शपः लुक्]
→ चक्ष् + आट् + इ [**आडुत्तमस्य पिच्च** (3.4.92) इति आडागमः]
→ चक्ष् + ऐ [**आटश्च** (6.1.90) इति वृद्ध्येकादेशः]
→ चक्षै
<hlb>3) नदीसंज्ञकशब्देभ्यः विहितस्य ङित्-विभक्तिप्रत्ययस्य आडागमः, तस्य वृद्ध्येकादेशः —</hlb> नदीसंज्ञकशब्देभ्यः विहितस्य ङित्-प्रत्ययस्य आण्नद्याः (7.3.112) इत्यनेन आट्-आगमः भवति । वस्तुतः अत्र आट्-आगमे कृते, आटश्च (6.1.90) इति सूत्रं विना अपि, सवर्णदीर्घेण उत वृद्धिरेचि (6.1.88) इति वृद्ध्येकादेशेन उचितम् रूपम् अवश्यम् सम्भवति, परन्तु पर्जन्यवल्लक्षणप्रवृत्तिः इति परिभाषया अत्रापि आटश्च इत्यस्य अवश्यं प्रयोगः क्रियते । यथा, नदी-शब्दस्य चतुर्थ्येकवचनस्य प्रक्रियायाम् —
नदी + ङे [चतुर्थी-एकवचनस्य प्रत्ययः]
→ नदी + आट् + ए [ **आण्नद्याः** (7.3.112) इति आट्-आगमः]
→ नदी + ऐ [**आटश्च** (6.1.90) इति वृद्धि-एकादेशः । अत्र **वृद्धिरेचि** (6.1.88) इत्यनेनैव वृद्ध्येकादेशे प्राप्ते परत्वात् **आटश्च** (6.1.90) इति वृद्ध्येकादेशः एव भवति ।]
→ नद्यै [**इको यणचि** (6.1.77) इति यणादेशः।]
Sutrartha (English)¶
When the आट्-आगम is followed by a अच्-letter, both of them are replaced by a single वृद्धि letter.
Vasu English Summary¶
The वृद्धि is the single substitute when the augment आट् is followed by any vowel.
Vasu English Translation¶
The वृद्धि is the single substitute when the augment आट् is followed by any vowel. The anuvritti of एचि ceases : that of अचि however, is present. The vowel that is subsequent to the augment आट्, and the आट् which is precedent to a vowel-in the room of these two i. e. the आट् and the vowel-subsequent and precedent, the Vriddhi is the single substitute. The augment आट् is added to the roots beginning with a vowel, in the Imperfect, Aorist and Conditional Tenses (6.4.72) &c)). Thus ऐक्षिष्ट, ऐक्षत, ऐक्षिष्यत, औभीत्, और्द्ध्रीत्, औब्जीत् from roots ईक्षदर्शने (Bhvadi. 641), उभ उम्भ पूरणे (Tudadi. 32) and उ ब्ज आर्जवे (Tudadi. 20). According to Siddhanta Kaumudi the आट् is the augment which ङित् case-affixes take after nadi-words (7.3.112). According to him the following are the examples:- बहुश्रेयसी + आट् + ङे = बहुश्रेयस्यै (Dative Singular). The आट् is the augment also in the Vedic Tense लेट् ॥
The च् ‘and’ in the sutra shows that the पररूप rule, taught in (6.1.95), (6.1.96) when उस्, ओं and आङ् follow, is superseded, when the preceding vowel is आट् ॥ Thus औस्रीयत्, औकारीयत् ॥ आ + ऊढा = ओढा, तामैच्छत् = औढीयत् ॥
Bhashya¶
आटश्च (2527) (चकारप्रयोजनभाष्यम्) किमर्थश्चकारः ? वृद्धेरनुकर्षणार्थः । नैतदस्ति प्रयोजनम्, प्रकृता वृद्धिरनुवर्तिष्यते ॥ इदं तर्हि - आटोऽचि वृद्धिरेव यथा स्यात्, यदन्यत् प्राप्नोति तन्मा भूदिति । किं चान्यत् प्राप्नोति ? पररूपम् । उस्योमाङ्क्ष्वाटः पररूपप्रतिषेधं चोदयिष्यति स न वक्तव्यो भवति ॥
Kashika¶
एचीति निवृत्तम्। अचीत्यनुवर्तते। आटः परो योऽच्, अचि च पूर्वो य आट्, तयोः पूर्वपरयोराडचोः स्थाने वृद्धिरेकादेशो भवति। ऐक्षिष्ट। ऐक्षत। ऐक्षिष्यत। औभीत्। आर्ध्नोत्। औब्जीत्। चकारोऽधिकविधानार्थः, उसि॰, **ओमाङ ोश्च**(६.१.९६,९५) इति पररूपबाधनार्थः। औस्रीयत्। औङ्कारीयत्। आ ऊ ढा ओढा, तामैच्छत् औढीयत्॥
Siddhanta Kaumudi¶
आटोऽचि परे वृद्धिरेकादेशः स्यात् । बहुश्रेयस्यै । बहुश्रेयस्याः । नद्यन्तात्परत्वान्नुट् । बहुश्रेयसीनाम् ॥
Laghu Siddhanta Kaumudi¶
आटोऽचि परे वृद्धिरेकादेशः। बहुश्रेयस्यै। बहुश्रेयस्याः। बहुश्रेयसीनाम्॥
Balamanorama¶
आटश्च - टित्त्वादाद्यवयवः । बहुश्रेयसी आ ए इति स्थिते-आटश्चा ।इकोयणची॑त्यतः अचीति ‘वृद्धिरेचि’ इत्यतो वृद्धिरिति चानुवर्तते ।एकः पूर्वपरयो॑रिति चाधिकृतम् । तदाह-आटोऽचीत्यादिना । बहुश्रेयस्यै इति । ‘बहुश्रेयसी आ ए’ इति स्थितेआटश्चे॑ति वृद्धौ यणादेशे च रूपमिति भावः । यद्यपिवृद्धिरेची॑त्येव सिद्धं तथापि ऐक्षतेत्याद्यर्थ॒माटश्चे॑ति सूत्रमिहापि न्याय्यत्वादुपन्यस्तम् । बहुश्रेयस्या इति । ङसि ङसोर्बहुश्रेयसी आ अस् इति स्थितेआटश्चे॑ति वृद्धावाकारे यणि रूपमिति भावः । अत्रापि सवर्णदीर्घेण सिद्धम् । न्याय्यत्वादाटश्चेति वृद्धिः । नद्यन्तात्परत्वादिति । श्रेयसीशब्दस्य ईकारान्तनित्यस्त्रीलिङ्गतया नदीत्वेन बहुश्रेयत्वात् । सवर्णदीर्घे प्राप्ते- ।
Tattvabodhini¶
आटश्च - आटश्च । यद्यपि इह ङयिवृद्धिरेची॑त्येव सिद्धं, ङे सिङ्सोर्ङेरामि च सवर्णदीर्घेण, तथाप्यैन्दिददित्याद्यर्थं सूत्रमिहापि न्याय्यत्वादुपन्यस्तम् ।अजादीनामटा सिद्धम्आडजादीनाम्इति सूत्रं मास्तु इति वदतो वार्तिककारस्य मतेतुअटश्चे॑त्येव सूत्रमिति बोध्यम् ।
Padamanjari¶
ठीक्ष दर्शनेऽ, ठुभ उम्भ पूरणेऽ, ठुब्ज आर्जवेऽ,ठृधु वृद्धौऽ - इत्येतेषामुदाहरणानि। चकारोऽधिकविधानार्थ इति। अस्यैव विवरणम् - उस्योमाङेश्चेति। पररूपबाधनार्थं इति। उसि, ओमि, आङ् चि यत्पररूपं प्राप्नोति तद्बाधनार्थ इत्यर्थः; अन्यथा परत्वातदेव पररूपं स्यात्। औस्रीयदिति। अनर्थकेऽप्युसि पररूपविधानादत्र प्रसङ्गः ॥
Nyaas¶
एक्षत इति। ईक्ष दर्शने (धातुपाठः-610) इति लङ्। ऐक्षिष्ट इति। लुङ्। ऐक्षिष्यत इति। लृङ्। औम्भीत् इति। उभ उम्भ पूरणे (धातुपाठः-1319,1320) इति लुङ्, इट्, अस्तिसिचोऽयुक्ते` (7.3.96) इतीट्। ईटि (8.2.28) इति सिचो लोपः। औब्जीत् इति। उब्ज आर्जवे (धातुपाठः-1303)। आध्र्नोत् इति। ऋषु वृद्धौ (धातुपाठः-1271) इति लङ्, स्वादिभ्यः श्नुः (3.1.73) इति श्नुः। चकारोऽधिकविधानार्थः इति। न तु वृद्धेरनुकर्षणार्थः; तदनुवृत्तेः स्वरितत्वादेव सिद्धत्वादित्यभिप्रायः। अधिकविधानार्थ इत्यस्यार्थं वाक्यान्तरेण त्रिस्पष्टीकर्त्तुमाह - उस्योमाङोश्चेति पररूपबाधनार्थः इति। उसिओमि आङि च यत्? पररूपं प्राप्नोति तद्बाधनार्थ इत्यर्थः। चकारेम हि द्विर्वृद्धिविधानं विज्ञापयति। तत्र यद्द्वितीयं विधानं तद्? बाधकबाधनार्थं भवति। तेन उस्यपदान्तात् (6.1.96) इति यत्पररूपं प्राप्नोति, यच्च ओमाङोश्च (6.1.95) इति तदपि बाधित्वा वृद्धिरेव भवति। औरुआईयत् औङ्कारीयत् इति। उरुआशब्दादोङ्कारशब्दाच्च सुप आत्मनः क्यच् (3.1.8) , क्यचि च (7.4.33) इतीत्त्वम्, क्यजन्ताल्लुङ्, आट्? उस्यपदान्तात् (6.1.96) इति पररूपे बाधके प्राप्ते चकारस्याधिकविधानार्थत्वाद्वृद्धिरेव भवति। औढीयत् इति। ओढाशब्दात्? क्यजन्तल्लुङ्, आडागमे कृते ओमाङोश्च (6.1.95) इति पररूपे बाधके प्राप्ते चकारस्याधिकविधानार्थत्वाद्वृद्धिरेव भवति॥
Prakriyasarvasvam¶
आटोऽचि परे एका वृद्धिः स्यात् । मति ऐ । यण् । मत्यै । अन्यत्र मतये । एवं ङसिङसोः मत्याः, मतेः । ‘औत् (६-३-११८) इति ङेरौत्त्वे प्राप्ते,
Sudha¶
आटश्चेति । इको यणचि**(6.1.77) इत्यतोऽचीति **वृद्धिरेचि**(6.1.88) इत्यतो वृद्धिरिति चानुवर्तते । **एकः पूर्वपरयोः**(6.1.84) इति चाधिकृतम्, तदाह - **आटोऽचीत्यादिना । बहुश्रेयस्यै । बहुश्रेयसीशब्दाच्च्तुर्थ्येकवचनविवक्षायां ङे ससागते <!प्रथमलिङ्गग्रहणञ्च!> इति बहुश्रेयसीशब्दस्य नदीसञ्ज्ञायाम् आण्नद्याः**(7.3.112) इति ङे आडागमे टकारस्येत्सञ्ज्ञायां लोपे च **आद्यन्तौ टकितौ**(1.1.46) इत्याद्यावयवे भूते ङकारस्येत्सञ्ज्ञायां लोपे च “बहुश्रेयसी-आ ए” इति स्थिते **आटश्च**(6.1.90) इति पूर्वपरयोः स्थाने वृद्धौ कृतायां **इको यणचि**(6.1.77) इति यणि “बहुश्रेयस्यै” इति रूपम् । बहुश्रेयसीभ्यां, बहुश्रेयसीभ्यः चतुर्थी । **बहुश्रेयत्याः । बहुश्रयसीशब्दात् पञ्चम्येकवचनविवक्षायां ङसौ समागते ङकारस्येकारस्य चेत्सञ्ज्ञायां लोपे च <!प्रथमलिङ्गग्रहणञ्च!> इति नदीसञ्ज्ञायाम् आण्नद्याः**(7.3.112) इत्याडागमे **आटश्च**(6.1.90) इति वृद्धौ यणि रुत्वे विसर्गे च “बहुश्रेयस्याः” इति रूपम् । बहुश्रेयसीभ्याम, बहुश्रेयसीभ्यः, पञ्चमी । **बहुश्रेयस्याः । बहुश्रेयसीशब्दात् षष्ठ्येकवचने ङसि कृते पूर्ववत् साधनिका ज्ञेया । ओसि- बहुश्रेयस्योः । “बहुश्रेयसी-आम्” इति स्थिते नदीसञ्ज्ञायाम् ह्रस्वनद्यापो नुट्**(7.1.54) इति नदीसञ्ज्ञकात्परस्यामो नुडागमे टित्वाद्यावयवे जाते उकारटकारयोरित्सञ्ज्ञायां लोपे च कृते परेण संयोज्य – **बहुश्रेयसीनाम् इति रूपम् ।
Sutra Prayogas¶
तनवै (शिशुपालवधम्): आटश्च इति वृद्धिः।
सोऽध्यैष्ट (भट्टिकाव्यम्): आटश्च इति वृद्धिः ।
अभ्यैः (भट्टिकाव्यम्): आटश्च इति वृद्धिः।