61091: उपसर्गादृति धातौ
=======================
**Padacheda:** उपसर्गात् | S | 5 | 1 |
ऋति | S | 7 | 1 |
धातौ | S | 7 | 1 |
Sutrartha
---------
**अवर्णान्तात् उपसर्गात् ऋकारादौ धातुरूपे परे पूर्वपरयोः एकः वृद्धि-एकादेशः भवति ।**
अवर्णान्त-उपसर्गात् ऋकारादौ धातुरूपे परे पूर्वपरयोः **आद्गुणः** (6.1.87) इत्यनेन गुणैकादेशे प्राप्ते तं बाधित्वा प्रकृतसूत्रेण 'आर्' इति वृद्ध्येकादेशः विधीयते । उदाहरणानि एतानि —
1. प्र + ऋच्छति → प्रार्च्छति । अत्र ऋच्छति इति ऋच्छँ ((6.16)) धातोः लट्लकारस्य एकवचनस्य रूपम् ।
2. परा + ऋणाति → परार्णाति । अत्र ऋणाति इति ॠ ((9.32)) धातोः लट्लकारस्य एकवचनस्य रूपम् अस्ति ।
3. अप + ऋध्नोति → अपार्ध्नोति । अत्र ऋध्नोति इति ऋध् ((5.27)) धातोः लट्लकारस्य एकवचनस्य रूपम् ।
4. अव + ऋणोति → अवार्णोति । अत्र ॠणोति इति ॠण् ((8.5)) धातोः लट्लकारस्य एकवचनस्य रूपम् ।
5. आ + ऋतीयते → आर्तीयते । अत्र ऋतीयते इति ऋति ((1.1166)) धातोः लट्लकारस्य एकवचनस्य रूपम् ।
7. उप + ऋच्छति → उपार्च्छति । अत्र ऋच्छति इति ऋ ((1.1086)) धातोः लट्लकारस्य एकवचनस्य रूपम् ।
**आदेशनिर्णयः**
आकार-ऐकार-औकाराणाम् **वृद्धिरेचि** इत्यनेन वृद्धिसंज्ञा भवति । अतः एतेषु अन्तरतमः आदेशः एकादेशरूपेण विधीयते । तत्र अवर्णस्य उच्चारणस्थानम् कण्ठः इति, ऋवर्णस्य उच्चारणस्थानम् मूर्धा इति । वॄद्धिसंज्ञकेभ्यः त्रिभ्यः वर्णेभ्यः 'मूर्धा' इति उच्चारणस्थानम् कस्यापि वर्णस्य नास्ति । परन्तु **उरण् रपरः** (1.1.51) इत्यनेन सूत्रेण एतत् ज्ञायते यत् ऋकारस्य स्थाने जायमानः आकारः नित्यम् रेफेण सह (इत्युक्ते, 'आर्' इत्यस्मिन् रूपे) विधीयते । अतः अवर्णात् ऋवर्णे परे उभयोः केवलम् 'आ' इति आदेशः कदापि नैव भवति, अपितु 'आर्' इति रेफयुक्तः आदेशः एव सम्भवति । अस्मिन् आदेशे विद्यमानस्य आकारस्य उच्चारणस्थानम् कण्ठः, रेफस्य उच्चारणस्थानम् च मूर्धा; अतः अत्र स्थानसाधर्म्यम् अपि सिद्ध्यति । अतः अवर्णात् ऋवर्णे परे 'आर्' इत्येव वृद्ध्येकादेशरूपेण विधीयते ।
**दलकृत्यम्**
अस्मिन् सूत्रे विद्यमानानाम् शब्दानाम् प्रयोजनम् इत्थम् —
1. ** उपसर्गात् इति किमर्थम् ? ** यत्र उपसर्गभिन्नः अवर्णान्तः शब्दः ऋकारादेः धातोः पूर्वम् प्रयुज्यते, तत्र प्रकृतसूत्रस्य प्रसक्तिः नास्ति । यथा, 'माला ऋच्छति' इत्यत्र **आद्गुणः** (6.1.87) इत्यनेन गुणैकादेशे कृते 'मालर्च्छति' इत्येव सिद्ध्यति ।
2. ** 'प्रादेः' इति वक्तव्ये 'उपसर्गात्' इति किमर्थम् ? ** प्रादिगणस्य शब्दाः केवलम् क्रियायोगे एव उपसर्गसंज्ञकाः भवन्ति, अन्यसन्दर्भेषु न । यत्र प्रादिगणस्य शब्दाः उपसर्गसंज्ञकाः न सन्ति, तत्र अस्य सूत्रस्य प्रसक्तिः मा भूत्, इति स्पष्टीकर्तुम् अस्मिन् सूत्रे 'उपसर्गात्' इति पदं निर्दिश्यते । यथा, 'प्रगताः ऋच्छकाः अस्मात् देशात्' अत्र ऋच्छक-शब्दः ऋच्छ्-धातोः निर्मितःअस्ति, परन्तु अस्मिन् समासे 'प्र'शब्दः क्रियायोगे न प्रयुज्यते अतः तस्य उपसर्गसंज्ञा अपि नास्ति । अस्मिन् स्थले प्रकृतसूत्रं न प्रयुज्यते, अतः 'प्र + ऋच्छक' इति स्थिते **आद्गुणः** (6.1.87) इत्यनेन गुणैकादेशे कृते 'प्रर्च्छक' इत्येव सिद्ध्यति । प्र-उपसर्गपूर्वकात् ऋच्छ्-धातोः ण्वुल्-प्रत्यये कृते तु प्रकृतसूत्रेण 'प्रार्च्छक' इत्येव रूपं भवति ।
3. **ऋति धातौ इति किमर्थम् ? ** अत्र 'धातौ' इत्यनेन धातुरूपस्य ग्रहणं भवति । यत्र धातुरूपम् ऋकारादिः नास्ति, तत्र यद्यपि मूलधातुः ऋकारादिः अस्ति, तथापि प्रकृतसूत्रम् नैव प्रयोक्तव्यम् । यथा, जुहोत्यादिगणस्य 'ऋ' धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'इयर्ति' इति भवति । अत्र धातुरूपम् ऋकारादिः नास्ति, अतः अत्र प्रकृतसूत्रेण वृद्धिः न विधीयते, अपि तु **आद्गुणः** (6.1.87) इत्यनेन गुणैकादेशे कृते एव रूपं सिद्ध्यति । "प्र + इयर्ति → प्रेयर्ति ।"
4. **उपसर्गात् इत्युच्यमाने पुनः धातुग्रहणम् किमर्थम्?** 'उपसर्गात्' इत्यनेनैव धातोः सन्दर्भे स्पष्टे सति, अस्मिन् सूत्रे पुनः धातुविधानम् **बाधकबाधनार्थम्** क्रियते । अग्रे वक्ष्यमाणेन **ऋत्यकः** (6.1.128) इति सूत्रेण अकारात् ऋकारे परे विकल्पेन पूर्वपरयोः यः प्रकृतिभावः प्राप्नोति, तं बाधित्वा अत्र नित्यमेव वृद्ध्येकादेशविधानार्थम् अस्मिन् सूत्रे धातुग्रहणं क्रियते । अतः 'प्र + ऋच्छति' इत्यत्र प्रकृतिभावः नैव सम्भवति, अपितु वृद्ध्येकादेशे कृते 'प्रार्च्छति' इति एकमेव रूपम् सिद्ध्यति ।
5. **ऋति इत्यत्र तपरकरणम् किमर्थम् ?** दीर्घ-ॠकारादीनि धातुरूपाणि धातुपाठे नैव विद्यन्ते । परन्तु दीर्घ-ॠकारादि-सुब्धातूनां विषये इदं सूत्रं नैव प्रयोक्तव्यम्, इति ज्ञापयितुम् अस्मिन् सूत्रे 'ऋति' इति शब्दः स्वीक्रियते । अतएव 'ॠकारम् आत्मनः इच्छति' इत्यत्र 'ॠकारीय' इति दीर्घ-ॠकारादि-धातोः ॠकारस्य अकारान्त-उपसर्गेण सह वृद्ध्येकादेशः न सम्भवति, अपितु **आद्गुणः** (6.1.87) इत्यनेन गुणैकादेशे कृते एव रूपं सिद्ध्यति । "प्र + ॠकारीयति → प्रर्कारीयति ।"
1. क्र्यादिगणस्य ॠ-धातुः यद्यपि दीर्घ-ॠकारादिः अस्ति, तथापि तस्य सर्वाणि ऋवर्णादीनि रूपाणि ह्रस्व-ऋकारादीनि एव सन्ति, यतः प्रक्रियायाम् **प्वादीनां ह्रस्वः** (7.3.80) इत्यनेन तस्य ह्रस्वादेशः विधीयते । अतः अस्य धातोः विषये प्रकृतसूत्रम् अवश्यम् प्रवर्तते । यथा, परा + ऋणाति → परार्णाति ।
2. ह्रस्व-ॠकारादि-सुब्धातूनां विषये प्रकृतसूत्रेण नित्यम् वृद्ध्यादेशे प्राप्ते **वा सुप्यापिशलेः** (6.1.92) इति अग्रिमसूत्रेण सः विकल्प्यते ।
Sutrartha (English)
-------------------
When an अवर्णान्त उपसर्ग is followed by a ऋकारादि verb form, both of them are replaced by a single वृद्धि letter.
Vasu English Summary
--------------------
The वृद्धि is the single substitute when the अ or आ of a preposition (उपसर्ग) is followed by the short ऋ of a verb.
Vasu English Translation
------------------------
The वृद्धि is the single substitute when the अ or आ of a preposition (उपसर्ग) is followed by the short ऋ of a verb.
The word आत् is understood here also. When a preposition ending in अ or आ is followed by a root beginning with ऋ, the *Vriddhi* is the single substitute for the precedent अ or आ and the subsequent ऋ ॥ This debars the *guna* taught in (6.1.87). Thus उप + ऋच्छति = उपार्च्छति, प्रार्च्छति, उपाध्रोति ॥ Why do we say 'after a preposition'? Observe खट्वर्च्छति, मालर्च्छति, प्रर्च्छकोदेशः = प्रगता ऋच्छका अस्माद् देशात् ॥ Here the word प्र is not treated as an *upasarga*, hence this *sutra* does not apply. It is a *Gati* here. Why do we say 'when ऋ follows'? Observe उप + इत = उपेतः ॥ Why have we used त् after ऋ indicating that short ऋ is to be taken? Observe उप + ऋकारी यति = उपर्कारीयति ॥ No option is allowed here by the subsequent *sutra*. The त् is used, in fact, for the sake of the subsequent *sutra* in case of Denominative verbs, no ordinary verb can begin with a long ॠ ॥ Why have we employed the word धातु, when the word '*upasarga*' would have caused us to infer its correlative धातु? It is used in order to prevent the application of the rule (6.1.129) which causes प्रकृतिभावः or non-*sandhi* of ऋ ॥ The repetition of '*Dhatu*' shows that the alternative *prakriti* *bhava* taught in (6.1.129), would not apply in the case of the ऋ of a *Dhatu*.
Bhashya
-------
उपसर्गादृति धातौ( 2528) (धातुग्रहणप्रयोजनभाष्यम्) धाताविति किमर्थम् ? इह मा भूत् । प्रर्षभं वनम् ॥ (6168 धातुग्रहणानर्थक्यबोधकवार्तिकम् ॥ 1 ॥) - उपसर्गाद्वृद्धिविधौ धातुग्रहणे उक्तम् - किमुक्तम् ? गत्युपसर्गसंज्ञाः क्रियायोगे यत्क्रियायुक्ताः प्रादयस्तं प्रतीति वचनमिति ॥ क्रियमाणेऽपि धातुग्रहणे प्रर्छक इति प्राप्नोति । यत्क्रियायुक्ताः प्रादयस्तं प्रतीति वचनान्न भवति ॥ (धातुग्रहणप्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम् - उपसर्गादृति धातौ वृद्धिरेव यथा स्यात्, यदन्यत् प्राप्नोति तन्मा भूदिति । किं चान्यत् प्राप्नोति ? ह्रस्वत्वम् ऋत्यकः (6.1.128) इति । ऋति ह्रस्वादुपसर्गाद्वृद्धिः पूर्वविप्रतिषेधेन इति चोदयिष्यति स न वक्तव्यो भवति ॥ (6169 विप्रतिषेधवार्तिकम् ॥ 2 ॥) - छे तुकः संबुद्धिगुणः - छे तुग्भवतीत्यस्मात्संबुद्धिगुणो भवति विप्रतिषेधेन । छे तुग्भवतीत्यस्यावकाशः - इच्छति, गच्छति । संबुद्धिगुणस्यावकाशः - अग्ने, वायो । इहोभयं प्राप्नोति - अग्नेच्छत्रम् - अग्ने छत्रम्, वायोच्छत्रम् -वायो छत्रम् । संबुद्धिगुणो भवति विप्रतिषेधेन ॥ स तर्हि विप्रतिषेधो वक्तव्यः । (6170 विप्रतिषेधखण्डनवार्तिकम् ॥ 3 ॥) - न वा बहिरङ्गलक्षणत्वात् - न वा वक्तव्यः । किं कारणम् ? बहिरङ्गलक्षणत्वात् । बहिरङ्गलक्षणस्तुक् । अन्तरङ्गलक्षणः सम्बुद्धिगुणः । असिद्धं बहिरङ्गमन्तरङ्गे ॥ (आक्षेप - समाधानपरभाष्यम्) अन्तरेणापि विप्रतिषेधमन्तरेणापि चैतां परिभाषां सिद्धम् । कथम् ? इदमिह संप्रधार्यम् - संबुद्धिलोपः क्रियतां गुण इति, किमत्र कर्तव्यम् ? परत्वाद् गुणः । नित्यः संबुद्धिलोपः । कृतेऽपि गुणे प्राप्नोत्यकृतेऽपि । गुणोऽपि नित्यः। कृतेऽपि संबुद्धिलोपे प्राप्नोत्यकृतेऽपि। अनित्यो गुणः । न हि संबुद्धिलोपे कृते प्राप्नोति । तावत्येव छेनानन्तर्यम्, तत्र तुका भवितव्यम् । तस्मात्सुष्ठूच्यते - छे तुकः संबुद्धिगुणे न वा, बहिरङ्गलक्षणत्वादिति ॥ (6171 विप्रतिषेधवार्तिकम् ॥ 4 ॥) - सम्प्रसारणदीर्घत्वण्यल्लोपाभ्यासगुणादयश्च - संप्रसारणदीर्घत्वण्यल्लोपाभ्यासगुणादयश्च तुको भवन्ति विप्रतिषेधेन ॥ संप्रसारणदीर्घत्वस्यावकाशः - हूतः, जीनः, संवीतः, शूनः । तुकोऽवकाशः - अग्निचित्, सोमसुत् । इहोभयं प्राप्नोति - परिवीषु, शकहूषु ॥ णिलोपस्यावकाशः - कारणा, हारणा । तुकः स एव । इहोभयं प्राप्नोति - प्रकार्य गतः, प्रहार्य गतः ॥ अल्लोपस्यावकाशः - प्रचिकीर्षिता, प्रजिहीर्षिता । तुकः स एव । इहोभयं प्राप्नोति - प्रचिकीर्ष्य गतः, प्रजिहीर्ष्य गतः ॥ अभ्यासगुणादयश्च तुको भवन्ति विप्रतिषेधेन । के पुनरभ्यासगुणादयः ? ह्रस्वत्वात्त्वेत्त्वगुणाः । ह्रस्वत्वस्यावकाशः - ययतुः - ययुः, तस्थतुः - तस्थुः । तुकः स एव । इहोभयं प्राप्नोति - अपचच्छतुः, अपचच्छुः ॥ अत्वस्यावकाशः - चक्रतुः, चक्रुः । तुकः स एव । इहोभयं प्राप्नोति - अपचच्छृदतुः, अपचच्छृदुः ॥ इत्वस्यावकाशः - यियक्षति, पिपक्षति । तुकः स एव । इहोभयं प्राप्नोति - चिच्छादयिषति, चिच्छर्दयिषति ॥ गुणस्यावकाशः - लोलूयते, बेभिद्यते । तुकः स एव । इहोभयं प्राप्नोति - चेच्छिद्यते, चोच्छुप्यते ॥ (6172 विप्रतिषेधवार्तिकम् ॥ 5 ॥) - यणादेशादाद्गुणः - यणादेशादाद्गुणो भवति विप्रतिषेधेन । यणादेशस्यावकाशः - दध्यत्र, मध्वत्र । आद्गुणस्यावकाशः - खट्वेन्द्रः, खट्वोदकम् । इहोभयं प्राप्नोति - वृक्षोऽत्र, प्लक्षोऽत्र ॥ (6173 विप्रतिषेधवार्तिकम् ॥ 6 ॥) - इरुर्गुणवृद्धिविधयश्च - इरुर्गुणवृद्धिविधयश्च यणादेशाद्भवन्ति विप्रतिषेधेन ॥ इरुरोरवकाशः - आस्तीर्णम्, निपूर्ताः पिण्डाः । यणादेशस्यावकाशः - चक्रतुः, चक्रुः । इहोभयं प्राप्नोति - दूरे ह्यध्वा जगुरिः, मित्रावरुणौ ततुरिः, किरति, गिरति ॥ गुणवृद्ध्योरवकाशः - चेता, गौः । यणादेशस्य स एव । इहोभयं प्राप्नोति - चयनम् - चायकः, लवनम् -लावकः ॥ (6174 विप्रतिषेधवार्तिकम् ॥ 7 ॥) - भलोपधातुप्रातिपदिकप्रत्ययसमासान्तोदात्तोदात्तनिवृत्तिस्वरा एकादेशाच्च - भलोपधातुप्रातिपदिकप्रत्ययसमासान्तोदात्तोदात्तनिवृत्तिस्वरा एकादेशाच्च यणादेशाच्च भवन्ति विप्रतिषेधेन ॥ भलोपस्यावकाशः - गार्ग्यः, वात्स्यः । एकादेशयणादेशयोरवकाशः - दधीन्द्रः मधूदकम्, दध्यत्र - मध्वत्र । इहोभयं प्राप्नोति - दाक्षी - दाक्षायणः, प्लाक्षीप्लाक्षायणः ॥ (अचि भलोप एकादेशाद्भवति विप्रतिषेधेन । अचि भलोपस्यावकाशः - दाक्षी - दाक्षायणः, प्लाक्षी - प्लाक्षायणः । एकादेशस्यावकाशः - दण्डाग्रम्, क्षुपाग्रहम् । इहोभयं प्राप्नोति - गाङ्गेयः, गाङ्गः ॥) धातुस्वरस्यावकाशः - पचति, पठति । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति - श्र्यर्थम्, श्रीषा ॥ प्रातिपदिकस्वरस्यावकाशः - आम्रः, शालः । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति - अग्न्युदकम्, वृक्षार्थम् ॥ प्रत्ययस्वरस्यावकाशः - चिकीर्षुः, औपगवः । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति - चिकीर्ष्वर्थम्, औपगवार्थम् ॥ समासान्तोदात्तस्यावकाशः - राजपुरुषः, ब्राह्मणकम्बलः । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति - राजवैद्यर्थम्, राजवैदीहते ॥ उदात्तनिवृत्तिस्वरस्यावकाशः - नदी, कुमारी । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति - कुमार्यर्थम्, कुमारीहते ॥ (6175 विप्रतिषेधवार्तिकम् ॥ 8 ॥) - अल्लोपाल्लोपौ चार्धधातुके - अल्लोपाल्लोपौ चार्धधातुके एकादेशाद्भवतो विप्रतिषेधेन ॥ अल्लोपस्यावकाशः - चिकीर्षिता, जिहीर्षिता । एकादेशस्यावकाशः - पचन्ति, पठन्ति । इहोभयं प्राप्नोति - चिकीर्षकः, जिहीर्षकः ॥ आल्लोपस्यावकाशः - पपिः सोमम्, ददिर्गाः । एकादेशस्यावकाशः - यान्ति, वान्ति । इहोभयं प्राप्नोति - ययतुः, ययुः ॥ (6176 विप्रतिषेधवार्तिकम् ॥ 9 ॥) - इयङुवङ्गुणवृद्धिटित्किन्मित्पूर्वपदविकाराश्च - इयङुवङ्गुणवृद्धिटित्किन्मित्पूर्वपदविकाराश्चैकादेशयणादेशाभ्यां भवन्ति विप्रतिषेधेन । इयङुवङोरवकाशः - श्रियौ - श्रियः, भ्रुवौ - भ्रुवः । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति - चिक्षियिव - चिक्षियिम, लुलुवतुः - लुलुवुः, पुपुवतुः - पुपुवुः ॥ गुणवृद्ध्योरवकाशः - चेता, गौः । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति - साधुचायी, सुचायी, नग्नंभावुकोऽध्वर्युः, शयिता, शयितुम् ॥ टितोऽवकाशः - षण्णाम्, सप्तानाम्, पञ्ञ्चानाम् । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति - वृक्षाणाम्, प्लक्षाणाम् ॥ कितोऽवकाशः - साधुदायी, सुष्ठुदायी । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति - दायकः, धायकः ॥ मितोऽवकाशः - त्रपुणी, जतुनी । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति - अस्थीनि, दधीनि, अतिसखीनि ब्राह्मणकुलानि ॥ पूर्वपदविकाराणामवकाशः - होतापोतारौ । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति - नेष्टोद्गातारौ, आग्नेन्द्रम् ॥ (6177 विप्रतिषेधबोधकवार्तिकम् ॥ 10 ॥) - उत्तरपदविकाराश्च - उत्तरपदविकाराश्चेति वक्तव्यम् ॥ उत्तरविकाराणामवकाशः - समीपम्, दुरीपम् । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति - नीपम्, वीपम्, प्रेपम्, परेपम् ॥
Kashika
-------
आदित्येव। अवर्णान्तादुपसर्गादृकारादौ धातौ परतः पूर्वपरयोः स्थाने वृद्धिरेकादेशो भवति। आद्गुणापवादः। उपार्च्छति। प्रार्च्छति। उपार्ध्नोति। उपसर्गादिति किम् ? खट्वर्च्छति। मालर्च्छति। प्रगता ऋच्छका अस्माद् देशात् प्रर्च्छको देशः। **यत्क्रियायुक्त ाः प्रादयस्तं प्रति गत्युपसर्गसंज्ञकाः** (महाभाष्य १.७५) इति। ऋतीति किम् ? उप इत उपेतः। तपरकरणं किम् ? उप ॠकारीयति उपर्कारीयति। **वा सुप्यापिशलेः** (६.१.९२) इति विकल्पः स्यात्। उपसर्गग्रहणादेव धातुग्रहणे सिद्धे धातुग्रहणं शाकलनिवृत्त्यर्थम्। **ऋत्यकः** (६.१.१२८) इति हि शाकल्यस्य प्रकृतिभावः प्राप्नोति॥
Siddhanta Kaumudi
-----------------
अवर्णान्तादुपसर्गादृकारादौ धातौ परे वृद्धिरेकादेशः स्यात् । उपार्च्छति । प्रार्च्छति ॥
Laghu Siddhanta Kaumudi
-----------------------
अवर्णान्तादुपसर्गादृकारादौ धातौ परे वृद्धिरेकादेशः स्यात्। प्रार्च्छति॥
Laghu Shabdendushekhar
----------------------
**उपसर्गादृति** । तपरकरणात् "उपऋकारीयति" इत्यादौ **वा सुप्यापिशलेः** (६.१.९२) इति न वृद्धिः । सौत्रऋतिस्तु न गृह्यते, व्याख्यानात् । आदित्यनुवृत्तेन तदन्तविधिरित्याह - **अवर्णान्तादिति** । "यस्मिन्विधिः" (** यस्मिन्विधिस्तदादावल्ग्रहणे ** (PB३३)) इति परिभाषयाऽऽह – **ऋकारादाविति** । पूर्वपरयोस्तयोः समुदाययोरन्त्याद्योर्वर्णयोरेकादेश इत्यर्थः । उपसर्गावयवाकाराद्धात्ववयवे ऋकारे तयोः पूर्वपरयोर्वृद्धिरित्युचितम् । गतेरिति तु नोक्तम् । "अच्छर्छति" इत्यादौ दोषात् ॥
Balamanorama
------------
**उपसर्गादृति धातौ** - उपसर्गादृति । आद्गुण इत्यत आदिति पञ्चम्यन्तमनुवर्तते । तच्च उपसर्गाविशेषणम्, अतस्तदन्तविधिः । अकारान्तादिति लभ्यते । ऋतीति धातोर्विशेषणम् । यस्मिन्विधिरिति तदादिविधिः । ऋकारादाविति लभ्यते । वृद्धिरेचीत्यतो वृद्धिरिति चानुवर्तते ।एकः पूर्वपरयो॑रित्यधिकृतम् । तदाह — अवर्णान्तादित्यादिना । एकादेश इति ।पूर्वपरयोरचो॑रिति शेषः । अन्यथा उपसर्गस्य धातोश्च सर्वादेशः स्यात् । उपाच्र्छति प्राच्र्छतीति । उप ऋच्छतिं प्रऋच्छतीति स्थिते गुणे प्राप्तेऽनेन वृद्धी-रपरत्वम् ।
Tattvabodhini
-------------
**उपसर्गादृति धातौ** - उपसर्गादृति । उपसर्गात्किम् , खट्वच्र्छति । ऋति किम् , उपेतः । तपरकरणमुत्तरार्थम् । इह दीर्घर्कारादेर्धातोरसंभवेन व्यावर्त्त्याऽलाभात् । धातौ किम् , उपर्कारः । नन्वत्रउपेत्युपसर्ग एव न भवति, क्रियायोग एवोपसर्गत्वात् । उपगत ऋकार इति विगृह्र क्रियायोगत्वसंपादनेऽपियत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञः॑ इति ऋकारं प्रति अनुपसर्ग एव । तथा चाऽकृतेऽपि धातुग्रहणे ऋकारादिधातावेव वृद्धिर्भविष्ट्यनुपसर्गेण धातोराक्षेपात्, नत्वत्रेति चेत्सत्यम्; अतएवयोगविभागेन पुनर्विधानार्थ॑मित्यनुपदं वक्ष्यतीति न काप्यनुपपत्तिः ।
Padamanjari
-----------
उपार्च्छतीति। ठृच्छ गन्तीन्द्रियप्रलयमूर्तिभावेषुऽ। प्रर्च्छको देश इति। अत्र यत्क्रियायुक्ताः प्रादयः इति गमिं प्रति प्रशब्दस्योपसर्गत्वं नर्च्छतिं प्रतीति भवति प्रत्युदाहरणम्। वा सुप्यापिशलेरिति हि विकल्पः स्यादिति। तेनोतरार्थन्तपरकरणमिति भावः। धातुग्रहणमनर्थकम्, यत्र चोपसर्गत्वं न सम्भवति, तत्रोपसर्गग्रहणेन प्रादयोऽपिलक्ष्यन्ते, यथा-नासिकाया नस्बावविधौ; इह तु मुख्यमेवोपसर्गत्वं सम्भवति तत्किं धातुग्रहणेन ? इत्यत आह-उपसर्गग्रहणादेवेति। शाकल्यस्येदं शाकलम्, तस्य निवृत्यर्थं पुनर्द्धातुग्रहणम्। सति तु दातुग्रहणे योगविभागेन पुनर्वृद्धिर्विधीयत इति शाकलं बाध्यते। असति तु तस्मिन् शाकल्यमतेन परत्वात् प्रकृतिभावः स्यादेव ॥
Nyaas
-----
`उपाच्र्छति` इति। `ऋच्छ गतन्द्रियप्रलयमूर्तिभावेषु` (धा।प।1296) `प्रगता ऋच्छका अस्माद्देशात्? प्रच्छको देशः` इति। अत्र `यं प्रति क्रियायुक्ता प्रादयस्तं प्रत गत्यपसर्गसंज्ञका भवन्ति` इति गमिं प्रति प्रशब्दो गत्युपसर्गसंज्ञकः, न ऋच्छतिं परतीति भवति प्रत्युदाहरणमिदम्। `वा सुप्यापिशलेरिति विकल्पः स्यत्` इति। एतेनोत्तरार्थतां तपरकरणस्य दर्शयति। अथ धातग्रहणं किमर्थम्, यावत सम्बन्धिशब्दा हि नियतं प्रत्ययोगिनमुपस्थापयन्ति, तद्यथा -पुत्रादशब्दाः, उपसर्गश्चायं धात्वपेक्षत्वात्? सम्बन्धिशब्दः तत्रोपसर्गग्रहणादेव धातुग्रहणं सिध्यति? अत आह -`उपसर्गग्रहणादेव` इत्यादि। यदि धातुग्रहणं न क्रयेत, तदा पराच्र्छतीत्यत्र `ऋत्यकः` (6.1.128) इति परत्वात्? शाकल्यस्य मतेन परकृतवद्भावः ल्यात्। तस्मात् तस्य शाकल्यस्य प्रकृतिवद्भावस्य निवृत्त्यर्थं धातुग्रहणं क्रियते। कथं पुनः क्रियमाणे धातग्रहणे शाकल्यस्य प्रकृतवद्भावनिवृत्तिर्लभ्यते? योगविभागकारणात्। सति हि धातुग्रहणे योगविभागः क्रियते -उपसर्गावृत्ति वृद्धिर्भवतीति; ततो धाताविति, इहोपसर्गादिति वर्तते। ततो द्वितीयो योगो बाधकबाधनार्थो विज्ञायते। अथ **उपसर्गाच्छन्दसि धात्वर्थे** (5.1.118) इत्यत्र यथा प्राद्युपलक्षणार्थमुपसर्गग्रहणं विज्ञायते, तथेहापि कस्मान्न विज्ञायेत? अशक्यत्वात्। `उपसर्गाच्छन्दसि धात्वर्थे` इत्यत्र हि धातोरुपस्थानं न सम्भवतीति युक्तं प्राद्युपलक्षणार्थमुपसर्गग्रहणम्। इह हि धातोरुपस्थानं सम्भवतीत्ययुक्तम्॥
Prakriyasarvasvam
-----------------
अवर्णान्तादुपसर्गाद् ऋकारादौ धातौ परे वृद्धिः स्यात् । उपाच्छर्ति ।
Sarala
------
**प्रार्च्छति** = प्रकर्षेण याति ॥
Sudha
-----
**प्रार्च्छति इति ।** "प्र-ऋच्छति" इति स्थितेऽत्र ऋच्छतीत्यस्य क्रियावाचकत्वात् **भूवादयो धातवः** (1.3.1) इत्यनेन धातुसंज्ञायाम, प्र इत्यस्य क्रियायोगात् **उपसर्गाः क्रियायोगे** (1.4.59) इत्यनेन उपसर्गसंज्ञायाम् **उपसर्गादृति धातौ** (6.1.91) इत्यनेन पूर्वपरयोः स्थाने आरूपवृद्धौ रपरे च "प्रार्च्छति" इति सिद्ध्यति ॥
Sutra Prayogas
--------------
* **दुर्वहश्रोणिपयोधरार्ता** (कुमारसम्भवम्): `उपसर्गादृति धातौ` इति वृध्दिः।