61065: णो नः ============ **Padacheda:** णः | S | 6 | 1 | नः | S | 1 | 1 | Sutrartha --------- **धातोः औपदेशिकस्वरूपे आदिस्थस्य णकारस्य नकारादेशः भवति ।** धातुपाठे पाठितेभ्यः ~ 2000 धातुभ्यः प्रायेण 35 धातूनाम् औपदेशिस्वरूपे प्रथमवर्णः णकारः विद्यते । एते सर्वे धातवः **णोपदेशाः** धातवः नाम्ना ज्ञायन्ते । एतेषाम् सर्वेषाम् आदिस्थस्य णकारस्य **प्रक्रियायाः प्रारम्भे (इत्संज्ञालोपात् अनन्तरम्) नकारादेशः भवति** इति अस्य सूत्रस्य आशयः । कानिचन उदाहरणानि एतानि — 1. णीञ् (प्रापणे, भ्वादिः, (1.1049)) → नी । 2. णु (स्तुतौ, अदादिः, (2.30)) → नु । 3. णशँ (अदर्शने, दिवादिः, (4.91)) → नश् । 4. णुदँ (प्रेरणे, तुदादिः, (6.162)) → नुद् । 5. णभँ (हिंसायाम्, क्र्यादिः, (9.56)) → नभ् । सर्वेषम् अपि णोपदेशधातूनां विषये एतादृशी णत्वनिवृत्तिः सर्वासाम् प्रक्रियाणाम् प्रारम्भे एव भवति । णत्वनिवृत्तेः अनन्तरम् णकारस्य स्थाने नित्यं नकारः एव विधीयते, अतः एते सर्वेऽपि धातवः नकारादयः एव स्वीक्रियन्ते । **सुब्धातूनां विषये इदं सूत्रं न प्रवर्तते** प्रकृतसूत्रेण केवलम् औपदेशिकधातुषु विद्यमानस्य एव आदिस्थ-णकारस्य नकारादेशः भवति । आतिदेशिधातूनां विषये इदं सूत्रं न प्रवर्तते । अतः "णकारम् आत्मनः इच्छति" अस्मिन् अर्थे "णकार"-शब्दात् **सुप आत्मनः क्यच्** (3.1.8) इत्यनेन क्यच्-प्रत्यये कृते "णकारीय" इति यः नामधातुः सिद्ध्यति, तस्मिन् विद्यमानस्य णकारस्य प्रकृतसूत्रेण नत्वं नैव सम्भवति । अतएव अस्य धातोः रूपाणि "णकारीयति, णकारीयतु, अणकारीयत्" एतादृशानि णकारघटितानि एव भवन्ति । **णोपदेशधातूनां परिगणनम्** भाष्यकारेण प्रकृतसूत्रे णोपदेशधातूनां परिगणनं कृतम् अस्ति । अस्मिन् सन्दर्भे भाष्यकारः ब्रूते — के पुनः णोपदेशाः धातवः पठितव्याः ? ... अन्तरेण अपि पाठः किञ्चित् शक्यते वक्तुम् । कथम् ? सर्वे नादयः णोपदेशाः, नृति-नन्दि-नर्दि-नन्कि-नाटि-नाथृ-नाधृ-नॄ-वर्जम् । इत्युक्ते, धातुपाठे विद्यमानान् नृत्-आदीन् अष्टौ धातून् विहाय अन्ये सर्वे अपि नकारादयः धातवः मूलरूपेण णोपदेशाः एव सन्ति — इति अत्र आशयः ।वस्तुतस्तु चुरादिगणे "निष्कँ (परिमाणे, (10.209))", "नक्कँ (नाशने, (10.82))" — एतादृशाः केचन अत्र अपरिगणिताः अणोपदेशाः धातवः अपि विद्यन्ते, परन्तु अन्येषु गणेषु विद्यमानानाम् णोपदेशधातूनाम् सङ्कलनम् अस्याम् आवल्याम् साकल्येन एव कृतम् अस्ति । **धातोः णोपदेशत्वस्य प्रयोजनम्** धातुपाठे विद्यमानाः सर्वे अपि नकारादयः धातवः मूलरूपेण णोपदेशाः न सन्ति । केवलम् केषाञ्चन धातूनां विषये एव औपदेशिकस्वरूपे णकारः श्रूयते । एतेषु सर्वेषु धातुषु स्थापितस्य णकारस्य प्रयोजनम् **णत्वप्रकरणे** दृश्यते । तदित्थम् — उपसर्गस्थ-रेफेण धातौ विद्यमानस्य नकारणस्य **रषाभ्यां नो णः समानपदे** (8.4.1) अथ वा **अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इत्यनेन णत्वं न सम्भवति यतः उपसर्गः भिन्नं पदम् अस्ति । परन्तु **यदि धातुः णोपदेशः अस्ति, तर्हि **उपसर्गादसमासेऽपि णोपदेशस्य** (8.4.14) अनेन सूत्रेण उपसर्गस्थ-रेफम् निमित्तरूपेण स्वीकृत्य धात्वादि-णकारस्य नत्वम् अवश्यम् सम्भवति ।** इत्युक्ते, येषाम् धातूनाम् आदौ विद्यमानस्य नकारस्य उपसर्गस्थ-रेफेण णत्वम् इष्यते, तेषाम् धातुपाठे णोपदेशरूपेण स्थापनम् कृतम् वर्तते इत्याशयः । एकम् उदाहरणम् एतादृशम् — .. code-block:: text णमँ (प्रह्वत्वे शब्दे च, भ्वादिः, (1.1136)) → णम् [**उपदेशेऽजनुनासिक इत्** (1.3.2) इति अकारस्य इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः] → नम् [**णो नः** (6.1.65) इति धात्वादिणकारस्य नकारः] → प्र + नम् + क्त्वा [**समानकर्तृकयोः पूर्वकाले** (3.4.21) इति क्त्वा-प्रत्ययः] → प्र + नम् + ल्यप् [**समासेऽनञ्पूर्वे क्त्वो ल्यप्** (7.1.37) इति क्त्वा-प्रत्ययस्य ल्यप्-आदेशः] → प्र + नम् + य [लकारस्य **लशक्वतद्धिते** (1.3.8) इति इत्संज्ञा । पकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा । **तस्य लोपः** (1.3.9) इति द्वयोः अपि लोपः] → प्र + णम् + य [**उपसर्गादसमासेऽपि णोपदेशस्य** (8.4.14) इति नकारस्य णत्वम् । अत्र मूलः धातुः णोपदेशः अस्ति, अतः उपसर्गस्थ-रेफम् निमित्तरूपेण स्वीकृत्य धात्वादि-नकारस्य णत्वम् विधीयते ।] → प्रणम्य यः धातुः णोपदेशः नास्ति, तस्य विषये एतादृशम् णत्वं न भवति । यथा, "नर्दँ (शब्दे (1.58))" अस्य धातोः विषये णत्वं न विधीयते — "प्र + नर्द् + ल्यप् → प्रनर्द्य"। Sutrartha (English) ------------------- A णकार present at the beginning of औपदेशिक form of a धातु is converted to नकार. Vasu English Summary -------------------- There is the substitution of न् for the initial ण् of the root in the धातुपाठ। Vasu English Translation ------------------------ There is the substitution of न् for the initial ण् of the root in the धातुपाठ। The phrase धात्वादेः is understood here. Thus णीञ् - नयति, णम - नमति, णह - नह्यति ॥ But not अण् - अणति ॥ This does not apply to roots derived from nouns. णकारमिच्छति = णकारीयात ॥The roots are exhibited in the *Dhatupatha* with ण् for a similar reason as they are exibited with ष ॥ By (8.4.14), these roots change their न into ण when preceded by certain prepositions. All roots beginning with a ण should be understood to have been so taught, with the exception of the following:- नृ, नन्दि नर्दि, नक्क, नाटि, नाधृ and नाथृ ॥ Bhashya ------- णो नः (2502) (नत्वाधिकरणम्) (सूत्रप्रयोजनभाष्यम्) अथ किमर्थं णकारमुपदिश्य तस्य नकार आदेशः क्रियते, न नकार एवोपदिश्यते ? लघ्वर्थमित्याह । कथम् ? अविशेषेणायं णकारमुपदिश्य तस्य नकारमादेशमुक्त्वा तस्य लघुनोपायेन णत्वं निर्वर्तयति - उपसर्गादसमासेऽपि णोपदेशस्य (8.4.14) इति । इतरथा हि येषां णत्वमिष्यते तेषां तत्र ग्रहणं कर्तव्यं स्यात् । (णोपदेशपरिगणनभाष्यम्) के पुनर्णोपदेशा धातवः पठितव्याः ? कोऽत्र भवतः पुरुषकारः ? यद्यन्तरेण पाठं किंचिच्छक्यते वक्तुं तदुच्यताम् । अन्तरेणापि पाठं किंचिच्छक्यते वक्तुम् । कथम् ? सर्वे नादयो णोपदेशाः, नृतिनन्दिनर्दिनक्किनाटिनाथृनाधृनॄवर्जम् ॥ Kashika ------- धातोरादेरित्यनुवर्तते। धातोरादेर्णकारस्य नकार आदेशो भवति। णीञ् — नयति। णम — नमति। णह — नह्यति। धात्वादेरित्येव — अणति। सुब्धातोरयमपि नेष्यते। णकारमिच्छति णकारीयति। **उपसर्गादसमासेऽपि णोपदेशस्य** (८.४.१४) इत्यत्र णत्वविधेर्व्यवस्थार्थं णादयो धातवः केचिदुपदिश्यन्ते। के पुनस्ते ? ये तथा पठ्यन्ते। अथ वा लक्षणं क्रियते — सर्वे नादयो णोपदेशाः, नृतीनन्दिनर्दिनक्कनाटिनाथृनाधृनृवर्जम् Siddhanta Kaumudi ----------------- धातोरादेर्णस्य नः स्यात् । णोपदेशास्त्वनदर्-नाटि-नाथ्-नाध्-नन्द्-नक्क-नॄ-नृतः । इति भाष्यफलितम् । नाटेर्दीर्घार्हस्य पर्युदासाद्धटादिर्णोपदेश एव । तवर्गचतुर्थान्तनाधतेर्नॄनद्योश्च केचिण्णोपदेसतामाहुः ॥ Laghu Siddhanta Kaumudi ----------------------- धात्वादेर्णस्य नः। णोपदेशास्त्वनर्द्नाटिनाथ्नाध्नन्दनक्कनॄनृतः॥ Balamanorama ------------ **णो नः** - णो नः । 'ण' इति षष्ठन्तं । 'धात्वादेः षः सः' इत्यतोऽनुवर्तनादाह -धातोरादेरिति । तेन अणतीत्यादौ न नत्वम् । नः स्यादिति । नकारः स्यादित्यर्थः । नदतीति ।मेघादि॑रिति शेषः । 'णो नः' इति नत्वस्याऽनैमित्तकतया लिण्निमित्तादेशादित्वाऽभावादेत्त्वाभ्यासलोपौ स्त एव, नेदतुरित्यादि । अथनृत्ननर्द्नन्दनक्क्नाट्नाथृनानृवर्ज णोपदेशाः॑ इति भाष्यं श्लोकार्धेन सङ्गृह्णाति — णोपदेशास्त्विति ।नर्द शब्दे॑ । 'नट अवस्यन्दने' चुरादिः । नाथृ नाधृ याञ्चादौ, द्वितीयचतुर्थान्तौ ।टु नदि समृद्धौ॑ ।नक्क नाशने॑ । नृ नये॑ ।नृती गात्रविक्षेपे॑ एभ्योऽष्टभ्योऽन्ये णकारादिधातव इदानीं नकारादित्वेन दृश्यमाना अपि नत्वसंपन्ननकारादितयाणोपदेशाः प्रत्येतव्या इत्यर्थः ।नाटी॑ति ण्यन्तस्य प्रयोजनमाह — नाटेरिति । घटादिरिति ।नटनृत्ता॑विति घटादिपठित इत्यर्थः । तत्फलं घटादौ वक्ष्यते । मतान्तरमाह — तवर्गेति । तवर्गचतुर्थान्तनाधधातोर्नृनन्द्योश्च णोपदेशेषु पर्युदासाऽभावमङ्गीकृत्य तेषामपि णोपदेशत्वमाहुरित्यर्थः । अत्र मते पञ्चभ्यो भिन्ना णोपदेशा इति फलितम् । भाष्यविरोधोऽत्रारुचिबीजम् । Tattvabodhini ------------- **णो नः** - णो नः । धातोरिति ।धात्वादेः षः सः इत्यतोऽनुवर्तनाद्धात्वादेरित्येव । नेह — अणति । णोपदेशान्पर्युदासमुखेनाह — णोपदेशास्त्विति ।नर्द शब्दे॑ ।नट अवस्यन्दने॑ । चुरादिः । यस्तु नट नृत्ताविति घटादिः स नेह गृह्रते, नाटीति दीर्घनिर्देशात् ।नाथृ नाधृ याच्ञादौ॑ ।टुनदि समृद्धौ॑ ।नक्क नाशने॑ ।नृ नये॑ ।नृती गात्रविक्षेपे॑ । एभ्योऽष्टाभ्यो भिन्ना इत्यर्थः । तवर्गेति । तेषां मते तु पञ्चब्यो भिन्ना णोपदेशाः । Padamanjari ----------- अणतीति। णोपदेशस्तु निरणतीत्यादौ ठुपसरगादसमासेऽपि णोपदेशस्यऽ इति णत्वार्थं स्यात्। सुब्धातोरयमपि नेष्यत इति। पूर्ववदेव सर्वे नादय इति प्रयोगे। नृतीनन्दीत्यादि।'नृती गात्रविक्षेपे' ,'टुअनदि समृद्धौ' ,'नर्द गर्द्द शब्दे' ,'नक्क नाशने' ,'नट अवस्यन्दने' चुरादिः,'नाथृ नाधृ याच्ञोपतापैश्वर्येषु' ॥ Nyaas ----- `सुब्धातोरयमपि नेष्यते` इति। पूर्वस्मदेव हेतोः। `उपसर्गादसमासेऽपि` इत्यादि। अत्र पूर्वानुसारेण पूर्वपक्षो विज्ञेयः। `नृतीनन्दि` इत्यादि। `नृती गात्रविक्षे#एपे` (धातुपाठः-1116), `टुनदि समृद्धौ` (धातुपाठः-67), `नर्द गद्र्द शब्दे` (धातुपाठः-56,57), `नक्क वक्क [`धक्क` -घातुपाठः] नाशने` (धातुपाठः-1593,1594), `नट अवस्यन्दने` [अवस्पन्दने -घातुपाठः] (धाचपा।1545) चुरादिणिजन्तः, `नाथृ नाधृ याञ्चोपतापैआर्याशीःषु` (धातुपाठः-6।7), `नृ नये` (धातुपाठः-809,1495)॥ Prakriyasarvasvam ----------------- धात्वादेर्णस्य नः स्यात् । नेयम् । ण्यन्तानामजन्तत्वादचो यत् । णिचो णचयोर्लुप्तयोरिकारमात्रमस्ति । चोरि य ।