61059: अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्¶
Padacheda: अनुदात्तस्य | S | 6 | 1 |
च | S | 0 | 0 |
ऋत्-उपधस्य | S | 6 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The augment अम् (अ) augment comes optionally after the ऋ of those roots which are exhibited in the धातुपाठ as अनुदात्त , when such roots end in a consonant having a ऋ has penultimate and are followed by an affix beginning with a mute or sibilant and not having an indicatory क।
Vasu English Translation¶
The augment अम् (अ) augment comes optionally after the ऋ of those roots which are exhibited in the धातुपाठ as अनुदात्त , when such roots end in a consonant having a ऋ has penultimate and are followed by an affix beginning with a mute or sibilant and not having an indicatory क। The word उपदेश is understood here, so also झल्यमकिति ॥ Thus त्रप्ता or तर्पिता or तर्प्ता or द्रप्ता, दर्पिता or दर्प्ता ॥ The roots तृप ‘to satisfy’, and दृप् ‘to be happy to release’, belong to Divadi class, sub-class Radhadi, and they take the augment इट् optionally (7.2.45), so we have the three forms given above : for these roots are also anudatta in their first enunciation.
Why do we say “which are anudatta in the Upadesa or the system of grammatical instruction”? Observe वर्ढा, वर्ढुम्, वर्ढव्यम्, from वृहू उद्यमने which is exhibited as उदात्त, and because it has an indicatory ऊ it takes इट् optionally. Why do we say ‘having a penultimate ॠ letter’? Observe भेत्ता, छेत्ता ॥ Why do we say ‘before an affix beginning with a mute or a sibilant’? Observe तर्पणम्, दर्पणम् ॥ Why do we say ‘not having an indicatory क’? Observe तृप्तः, दृप्तः ॥ Before affixes not beginning with a झल् consonant this augment will not be inserted, as तर्पणम्, दर्पणम् ॥
Kashika¶
उपदेश इति वर्तते, झल्यमकितीति च। उपदेशेऽनुदात्तस्य धातोर्ऋकारोपधस्य झलादावकिति प्रत्यये परतोऽन्यतरस्याममागमो भवति। त्रप्ता, तर्पिता, तर्प्ता। द्रप्ता, दर्पिता, दर्प्ता। तृप प्रीणने दृप हर्षणमोचनयोः इत्येतौ रधादी धातू, तयोरिडागमो रधादिभ्यश्च (७.२.४५) इति विकल्प्यते। अनुदात्तोपदेशः पुनरमर्थ एव। अनुदात्तस्येति किम् ? वर्ढा। वर्ढुम्। वर्ढव्यम्। वृहू उद्यमने इत्ययमुदात्तोपदेश ऊदित्वात् चास्येड् विकल्प्यते। ऋदुपधस्येति किम् ? भेत्ता। छेत्ता। झलीत्येव — तर्पणम्। दर्पणम्। अकितीत्येव — तृप्तः। दृप्तः॥
Siddhanta Kaumudi¶
उपदेशेऽनुदात्तो य ॠदुपधस्तस्याम्वा स्याज्झलादावकिति परे । स्रप्ता । सर्प्ता । स्रप्स्यति । सर्प्स्यति । असृपत् ।{$ {!984 यम!} उपरमे$} । यच्छति । येमिथ । ययन्थ । यन्ता । अयंसीत् । अयंसिष्टाम् ।{$ {!985 तप!} संतापे$} । तप्ता । अताप्सीत् ॥
Laghu Siddhanta Kaumudi¶
उपदेशेऽनुदात्तो य ऋदुपधस्तस्याम्वा स्याज्झलादावकिति । क्रष्टा, कर्ष्टा । कृक्षीष्ट । स्पृशमृशकृषतृपदृपां च्लेः सिञ्वा वाच्यः (वार्त्तिकम्) । अकृक्षत । अकृक्षाताम् । अकृक्षन्त ॥॥ {$ {! 5 मिल !} संगमे $} (धातुपाठे (06.0165)) ॥ मिलति, मिलते । मिमेल । मेलिता । अमेलीत् ॥ {$ {! 6 मुचॢ !} मोचने $} (धातुपाठे (06.0166)) ॥
Tattvabodhini¶
अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् - अनुदात्तस्य ।आदेच उपदेशेऽशिती॑त्यत उपदेश इत्यनुवर्तते । उपदेशे किम् । रुआप्तुम् । तुमुनि उदात्तः । ऋदुपधस्य किम् । कर्ता । झलीति किम् । ससर्प । अकितीति किम् । सृप्तः । असृपदिति । लृदित्त्वादङ् ।स्पृशमृशे॑ति सिज्विकल्पवार्तिके सृपं प्रक्षिप्यअरुआआप्सीदसार्प्सी॑दिति केचिदुदाहरन्ति, तत्प्रामादिकमित्याहुः । अयंसीदिति ।यमरमे॑तीट्सकौ ।
Prakriyasarvasvam¶
उपदेशेऽनुदात्तस्य ऋदुपधस्य धातोरकिति झलादावं वा स्यात् । अमभावे लघूपधगुणः । स्रप्ता सर्प्ता । तप्, तप्ता । वप्ता । शप्ता । ‘यरलाद् भः ॥’ यभरभलभामिण् न । तस्य धः । भस्य जश् । ‘यभ मैथुने ।’ यब्धा । आरब्धा । लब्धा । ‘यरनगान्मः ॥’ यमादेरिण् न । यन्ता । रन्ता । नन्ता । गन्ता । ‘लिविमृदिस्पृदन्द्दृश्क्रुशेः शः ॥’ लिशिविश्यादेरिण् न । ‘लिश अल्पीभावे ।’ छशां षः । लेष्टा । प्रवेष्टा । मृश्, ऋदुपधत्वाद् वाम् । स्रष्टा म्रष्टा । आदेष्टा । स्प्रष्टा स्प्रष्टा । दंश्, दंष्टा । दृश्, ‘सृजिदृशोर्झलि—’ (६–१–५८) इति अम् । द्रष्टा । ‘रिश रुश हिंसायाम् ।’ रोष्टा । क्रोष्टा । रिश्, रेष्टा । ‘वितुदुत्विद्विशिशुकृपेः पः ॥’ ‘विषॢ व्याप्तौ’ । वेष्टा । तुष्, तोष्टा । इत्यादि । कृषेर्वाम् । क्रष्टा कर्ष्टा । ‘दिहमिहदरुदुलिहिलोहः ॥’ दिहिनह्यादेरिण् न । दिह्, तृ.
Sutra Prayogas¶
पितॄनपारीत्सममंस्त (भट्टिकाव्यम्): अनुदात्तस्य च इत्यादिना अमभावपक्षे रूपम् ।