61059: अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् ========================================= **Padacheda:** अनुदात्तस्य | S | 6 | 1 | च | S | 0 | 0 | ऋत्-उपधस्य | S | 6 | 1 | अन्यतरस्याम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The augment अम् (अ) augment comes optionally after the ऋ of those roots which are exhibited in the धातुपाठ as अनुदात्त , when such roots end in a consonant having a ऋ has penultimate and are followed by an affix beginning with a mute or sibilant and not having an indicatory क। Vasu English Translation ------------------------ The augment अम् (अ) augment comes optionally after the ऋ of those roots which are exhibited in the धातुपाठ as अनुदात्त , when such roots end in a consonant having a ऋ has penultimate and are followed by an affix beginning with a mute or sibilant and not having an indicatory क। The word उपदेश is understood here, so also झल्यमकिति ॥ Thus त्रप्ता or तर्पिता or तर्प्ता or द्रप्ता, दर्पिता or दर्प्ता ॥ The roots तृप 'to satisfy', and दृप् 'to be happy to release', belong to *Divadi* class, sub-class *Radhadi*, and they take the augment इट् optionally (7.2.45), so we have the three forms given above : for these roots are also *anudatta* in their first enunciation. Why do we say "which are *anudatta* in the *Upadesa* or the system of grammatical instruction"? Observe वर्ढा, वर्ढुम्, वर्ढव्यम्, from वृहू उद्यमने which is exhibited as उदात्त, and because it has an indicatory ऊ it takes इट् optionally. Why do we say 'having a penultimate ॠ letter'? Observe भेत्ता, छेत्ता ॥ Why do we say 'before an affix beginning with a mute or a sibilant'? Observe तर्पणम्, दर्पणम् ॥ Why do we say 'not having an indicatory क'? Observe तृप्तः, दृप्तः ॥ Before affixes not beginning with a झल् consonant this augment will not be inserted, as तर्पणम्, दर्पणम् ॥ Kashika ------- उपदेश इति वर्तते, झल्यमकितीति च। उपदेशेऽनुदात्तस्य धातोर्ऋकारोपधस्य झलादावकिति प्रत्यये परतोऽन्यतरस्याममागमो भवति। त्रप्ता, तर्पिता, तर्प्ता। द्रप्ता, दर्पिता, दर्प्ता। **तृप प्रीणने** **दृप हर्षणमोचनयोः** इत्येतौ रधादी धातू, तयोरिडागमो **रधादिभ्यश्च** (७.२.४५) इति विकल्प्यते। अनुदात्तोपदेशः पुनरमर्थ एव। अनुदात्तस्येति किम् ? वर्ढा। वर्ढुम्। वर्ढव्यम्। **वृहू उद्यमने** इत्ययमुदात्तोपदेश ऊदित्वात् चास्येड् विकल्प्यते। ऋदुपधस्येति किम् ? भेत्ता। छेत्ता। झलीत्येव — तर्पणम्। दर्पणम्। अकितीत्येव — तृप्तः। दृप्तः॥ Siddhanta Kaumudi ----------------- उपदेशेऽनुदात्तो य ॠदुपधस्तस्याम्वा स्याज्झलादावकिति परे । स्रप्ता । सर्प्ता । स्रप्स्यति । सर्प्स्यति । असृपत् ।{$ {!984 यम!} उपरमे$} । यच्छति । येमिथ । ययन्थ । यन्ता । अयंसीत् । अयंसिष्टाम् ।{$ {!985 तप!} संतापे$} । तप्ता । अताप्सीत् ॥ Laghu Siddhanta Kaumudi ----------------------- उपदेशेऽनुदात्तो य ऋदुपधस्तस्याम्वा स्याज्झलादावकिति । क्रष्टा, कर्ष्टा । कृक्षीष्ट । **स्पृशमृशकृषतृपदृपां च्लेः सिञ्वा वाच्यः** (वार्त्तिकम्) । अकृक्षत । अकृक्षाताम् । अकृक्षन्त ॥॥ {$ {! 5 मिल !} संगमे $} (धातुपाठे (06.0165)) ॥ मिलति, मिलते । मिमेल । मेलिता । अमेलीत् ॥ {$ {! 6 मुचॢ !} मोचने $} (धातुपाठे (06.0166)) ॥ Tattvabodhini ------------- **अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्** - अनुदात्तस्य ।आदेच उपदेशेऽशिती॑त्यत उपदेश इत्यनुवर्तते । उपदेशे किम् । रुआप्तुम् । तुमुनि उदात्तः । ऋदुपधस्य किम् । कर्ता । झलीति किम् । ससर्प । अकितीति किम् । सृप्तः । असृपदिति । लृदित्त्वादङ् ।स्पृशमृशे॑ति सिज्विकल्पवार्तिके सृपं प्रक्षिप्यअरुआआप्सीदसार्प्सी॑दिति केचिदुदाहरन्ति, तत्प्रामादिकमित्याहुः । अयंसीदिति ।यमरमे॑तीट्सकौ । Prakriyasarvasvam ----------------- उपदेशेऽनुदात्तस्य ऋदुपधस्य धातोरकिति झलादावं वा स्यात् । अमभावे लघूपधगुणः । स्रप्ता सर्प्ता । तप्, तप्ता । वप्ता । शप्ता । 'यरलाद् भः ॥' यभरभलभामिण् न । तस्य धः । भस्य जश् । 'यभ मैथुने ।' यब्धा । आरब्धा । लब्धा । 'यरनगान्मः ॥' यमादेरिण् न । यन्ता । रन्ता । नन्ता । गन्ता । 'लिविमृदिस्पृदन्द्दृश्क्रुशेः शः ॥' लिशिविश्यादेरिण् न । 'लिश अल्पीभावे ।' छशां षः । लेष्टा । प्रवेष्टा । मृश्, ऋदुपधत्वाद् वाम् । स्रष्टा म्रष्टा । आदेष्टा । स्प्रष्टा स्प्रष्टा । दंश्, दंष्टा । दृश्, 'सृजिदृशोर्झलि—' (६–१–५८) इति अम् । द्रष्टा । 'रिश रुश हिंसायाम् ।' रोष्टा । क्रोष्टा । रिश्, रेष्टा । 'वितुदुत्विद्विशिशुकृपेः पः ॥' 'विषॢ व्याप्तौ' । वेष्टा । तुष्, तोष्टा । इत्यादि । कृषेर्वाम् । क्रष्टा कर्ष्टा । 'दिहमिहदरुदुलिहिलोहः ॥' दिहिनह्यादेरिण् न । दिह्, तृ. Sutra Prayogas -------------- * **पितॄनपारीत्सममंस्त** (भट्टिकाव्यम्): `अनुदात्तस्य च` इत्यादिना अमभावपक्षे रूपम् ।