61058: सृजिदृशोर्झल्यमकिति¶
Padacheda: सृजि-दृशोः | S | 6 | 2 |
झलि | S | 7 | 1 |
अम् | S | 1 | 1 |
अकिति | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The augment अम् (अ) comes after the ऋ or सृज् ‘to create’ and दृश् ‘to see’, when an affix beginning with a झल् letter (the Mute and the Sibilant) follows: provided that it has no indicatory क।
Vasu English Translation¶
The augment अम् (अ) comes after the ऋ or सृज् ‘to create’ and दृश् ‘to see’, when an affix beginning with a झल् letter (the Mute and the Sibilant) follows: provided that it has no indicatory क। Thus सृज् + तृन् = सृ + अ + ज् + तृ = स्रष्टृ= nominative singular स्रष्टा, so also स्रष्टुम्, स्रष्टव्यम्, द्रष्टा, द्रष्टुम्, द्रष्टव्यम् ॥ This अम् augment prevents the guna substitute ordained by (7.3.86). But in अस्राक्षीत् and अद्राक्षीत् the Vriddhi takes place in the Aorist, after the augment अम् had taken effect.
Why do we say when beginning with a Mute or a Sibilant? Observe सर्ज्जनम्, दर्सनम् with यु ॥ Why do we say not having an indicatory क? Observe सृष्टः, दृष्टः before the affix क्त ॥ The forms of roots being exhibited in the sutra, the rule applies when affixes relating to verbs come after these, and not when other affixes relating to noun follow. Thus रज्जुसृङ्भ्याम्, देवदृग्भ्याम् ॥ Here the words are used as nouns rather than verbs. For the maxim धातोः स्वरूपग्रहणे तत्प्रत्यये कार्ये applies here.
Bhashya¶
सृजिदृशोर्झल्यमकिति (2495) (अमागमाधिकरणम्) (6063 उपसंख्यानवार्तिकम् ॥ 1 ॥) - अमि सङ्ग्रहणम् - अमि सङ्ग्रहणं कर्तव्यम् । किमिदं सङिति ? प्रत्याहारग्रहणम् । क्व सन्निविष्टानां प्रत्याहारः ? सनः प्रभृति आमहिङो ङकारात् ॥ किं प्रयोजनम् ? (6064 उपसंख्यानफलबोधकवार्तिकम् ॥ 2 ॥) - क्विप्प्रतिषेधार्थम् - क्विबन्तस्य मा भूत् । रज्जुसृड्भ्याम्, रज्जुसृडि्भः, देवदृग्भ्याम्, देवदृग्भिः ॥ (6065 उपसंख्यानानर्थक्यबोधकवार्तिकम् ॥ 3 ॥) - उक्तं वा - किमुक्तम् ? धातोः स्वरूपग्रहणे तत्प्रत्ययविज्ञानात्सिद्धमिति ॥
Kashika¶
सृज विसर्गे दृशिर् प्रेक्षणे इत्येतयोर्धात्वोर्झलादावकिति प्रत्यये परतोऽमागमो भवति। स्रष्टा। स्रष्टुम्। स्रष्टव्यम्। द्रष्टा। द्रष्टुम्। द्रष्टव्यम्। लघूपधगुणापवादोऽयममागमः। अस्राक्षीत्। अद्राक्षीत्। सिचि वृद्धिः० (७.२.१) अमि कृते भवति, पूर्वं तु बाध्यते। झलीति किम् ? सर्जनम्। दर्शनम्। अकितीति किम्? सृष्टः। दृष्टः। धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानाद् (परि० ८८) इह न भवति — रज्जुसृड्भ्याम्, देवदृग्भ्यामिति॥
Siddhanta Kaumudi¶
अनयोरमागमः स्याज्झलादावकिति । दद्रष्ठ । ददर्शिथ । द्रष्टा । द्रक्ष्यति । दृश्यात् । इरित्त्वादङ् वा ॥
Laghu Siddhanta Kaumudi¶
अनयोरमागमः स्याज्झलादावकिति । स्रष्टा । स्रक्ष्यति । सृक्षीष्ट । असृष्ट । असृक्षायाम् ॥ {$ {! 26 मृष !} तितिक्षायाम् $} (धातुपाठे (04.0060)) ॥ मृष्यते । ममर्षे । ममर्षिथ । ममृषिषे । मर्षितासि । मर्षिष्यति, मर्षिष्यते ॥ {$ {! 27 णह !} बन्धने $} (धातुपाठे (04.0062)) ॥ नह्यति, नह्यते । ननाह । नेहिथ, ननद्ध । नेहे । नद्धा । नत्स्यति । अनात्सीत्; अनद्ध ॥ इति दिवादयः ॥ ४ ॥
Balamanorama¶
सृजिदृशोर्झल्यमकिति - इडभावपक्षे ‘अनुदात्तस्य’ इति अमागमविकल्पे प्राप्ते — सृजिदृशोः । अम्-अकितीति च्छेदः । नित्यार्थमिदम् । दद्रष्ठेति । ददृश् थ इति स्थिते इडभावपक्षे अमागमे ऋकारस्य यणि व्रश्चादिना शस्य षत्वे थस्य ष्टुत्वेन ठ इति भावः । इट्पक्षे त्वाह — ददर्शिथेति । अझलादित्वादम् नेति भावः । द्रष्टेति । तासि अमागमे शस्य षत्वे तकारस्य ष्टुत्वेन टकार इति भावः । द्रक्ष्यतीति । अमागमे शस्य षत्वेषढो॑रिति कत्वे सस्य ष इति भावः । पश्यतु । अपश्यत् । पश्येत् । आशीर्लिङि आह — दृश्यादिति । अझलादित्वादम् नेति भावः । लुङि विशेषमाह — इरित्त्वादङ् वेति । अत्र अङ्पक्षे गुणनिषेधे प्राप्ते —
Tattvabodhini¶
सृजिदृशोर्झल्यमकिति - झलि किम् । ससर्ज । ददर्श । अकितीति किम् । सृष्टः । सृष्टवान् । दृष्टः । दृष्टवान् ।
Padamanjari¶
धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यं विज्ञायत इति प्रत्यय इह सन्निधापितो झला विशेष्यत इति तदादिविधिर्विज्ञायत इत्याहझलादाविति। अकिति प्रत्यये परत इति। किति परतो न भवतीत्यर्थः। प्रसज्यप्रतिषेधो ह्ययमिष्यते, एतच्च गाङ्कुटादिसूत्र सम्यगुपपादितम्। लघूपधगुणापवा दोऽयमिति। अकितीति वृद्धिस्तु भवति, न बाध्यतेः येन नाप्राप्त्यभावात्। साप्यमि कृते भवति। तस्यैव व्याख्या। पूर्व तु बाध्यत इति। अमागमेन; नित्यत्वातस्य। रज्जुसृड्भ्याम्, देवदृग्भ्यामिति। उभयत्र व्रश्चादिसूत्रेण षत्वे जश्त्वमिति केचित्। अन्ये तु’क्विन्प्रत्ययस्य कुः’ इति कुत्वमित्च्छन्ति। ननु न क्विन्नन्तावेतौ, किं तर्हि? क्विबन्तौ? नैष दोषः; यस्माद्धातोः क्वचित्क्विन् विहितः, तस्य प्रत्ययान्तरे कुत्वं भवति,’क्विनः कु’ इति वक्तव्ये प्रत्ययग्रहणादिति वक्ष्यते। पदान्तस्येत्यधिकारात् स्रष्टा, द्रष्टेत्यत्र न भवति, कुत्वविधावेव तस्य निर्णयं वक्ष्यामः ॥
Nyaas¶
रुआष्टा, द्रष्टा इति। उमागमे कृते यणादेशः, व्रश्चादि (8.2.36) सूत्रेण षत्वम्। लघूपधगुणापवादौऽयम् इत्यादि। ननु चासति सम्भवे बाधनं भवति, अस्ति च सम्भवो यदुभयं स्यादिति, तत्र गुणे कृतेऽमागमो भविष्यति? नैतदेवम्; सामान्यविहितो गुणः विशेषविहितस्त्वमागमः, सामान्यविहितस्य च विशेषविहितो बाधको भवति, यथा - ब्राआह्रणेभ्यो दधिदीयतां तक्रं कौण्जन्यायेति। यथा सामान्यविहितस्य दधिदानस्य विशेषविहितं तक्रदानं बाधकं भवति तथेहापि युक्ताऽमागममेन गुणस्य बाधा। अरुआआक्षीत्, अद्राक्षीत् इति। आदेशप्रत्यययोः (8.3.59) इति षत्वम्, अस्ति सिचोऽपृक्ते (7.3.96) इतीट्, वदव्रजहलन्तस्याचः (7.2.3) इति वृद्धिः, षढोः कः सि (8.2.41) इति कत्वम्। वृद्धिरमिकृते भवति इति। अथ प्रागेव वृद्धिः कस्मान्न भवति? इत्याह - पूर्वन्तु बाध्यते इति। यथैव हि विशेषविहितत्वादमागमेन सामान्यविहितो गुणो बाध्यते, तथा वृद्धिरपि सामान्यविहितैवामागमे कृते पश्चात्? पुनःप्रसह्गविज्ञानात्? सिद्धमिति सापि भवति। गुणस्त्वमागमे कृते न भवति; निमित्तस्य विहितत्वात्। न ह्रमागमे कृत उपधा लघ्वी गुणभाविन्युपपद्यते। अथेह कस्मान्न भवति - रज्जुसृङ्भ्याम्, देवदृग्भ्यामिति; सत्यपि धात्वधिकारे क्विबन्ता धातुत्वं न जहति (व्या।प।132) इति भ्याम्प्रत्ययमकितमाश्रित्यामागमः प्राप्नोति? इत्यत आह - `धातोः इत्यादि॥
Prakriyasarvasvam¶
अनयोरकिति झलादौ परे अम् स्यात् । मित्त्वान्मध्य । सृ अज् तृ । यण्, स्रज् तृ । व्रश्चादि^षत्वं,, ष्टुत्वम् । स्रष्टा । त्यक्ता । यज् तृ । व्रश्चादिषः । यष्टा । योक्ता । ‘णिजिर् शौचपोषणयोः’ । नेक्ता । भक्ता । ‘अच्छिच्छृखिहनुस्कंपतुभिक्षुश्राद् दः ॥’ अदच्छिदादेरिण् न । चत्वंम् । अत्ता । छेत्ता । सत्ता । खेत्ता । ‘हृद पुरीषोत्सर्गे’ । हृत्ता । नोत्ता । स्कन्द तृ । ‘झरो झरि - ‘ (८-४-६५) इति दलोपः । स्कन्ता । पत्ता । तोत्ता । भेत्ता । क्षोत्ता । शदिस्तीक्ष्णीभावे विशीर्णतायां च । शत्ता शरो घटश्च । ‘सारावरुचुयुक्रुशुष्याद् धः ॥’ साधिराधिवन्ध्यादेरिण् न । ‘झषस्तथोः - ‘ (८-२-४०) इति तस्य धः । साद्धा । राद्धा । बन्ध् तृ । धत्वे कृते ‘झरो झरि - ‘ (८-४-६५) इति पूर्वधलोपः । बन्धा । रुध् । रोद्धा । क्षोद्धा । योद्धा । क्रोद्धा । शोद्धा । व्यद्धा । ‘आस्वलिलुचुक्षितिसृतवशात् पः ॥’ आपिस्वप्या- देरिण् न । आप्ता । स्वप्ता । लेप्ता । लोप्ता । ‘चुपु स्पर्शने’ । चोप्ता । ‘छुप स्पर्शन’ इत्येव माधवोक्तम् । छोप्ता । क्षेप्ता । ‘तिपृ सेचने’ । तेप्ता । सृप् तृ,
Sutra Prayogas¶
अस्राक्षुरस्रं (भट्टिकाव्यम्): सृजि· दृशो : इत्यम् हलन्तलक्षणा वृद्धिः ।
असृष्ट (भट्टिकाव्यम्): सृजि-दृशो : इयम्।
दिदृक्षमाणः (भट्टिकाव्यम्): सृजि-ह- शोः इत्यम् न भवति।
द्राक्षीर्मृषा (भट्टिकाव्यम्): सृजिदृशोर्झल्यमकिति इत्यम् ।
दद्रष्ठा (भट्टिकाव्यम्): अनिस्पक्षे सृजि-दृशोर्झल्यम किति इति पत्वष्टुत्वे ।
अद्राक्षीद् (भट्टिकाव्यम्): सृजिदृशो : इत्यम्।