61058: सृजिदृशोर्झल्यमकिति ========================== **Padacheda:** सृजि-दृशोः | S | 6 | 2 | झलि | S | 7 | 1 | अम् | S | 1 | 1 | अकिति | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The augment अम् (अ) comes after the ऋ or सृज् 'to create' and दृश् 'to see', when an affix beginning with a झल् letter (the Mute and the Sibilant) follows: provided that it has no indicatory क। Vasu English Translation ------------------------ The augment अम् (अ) comes after the ऋ or सृज् 'to create' and दृश् 'to see', when an affix beginning with a झल् letter (the Mute and the Sibilant) follows: provided that it has no indicatory क। Thus सृज् + तृन् = सृ + अ + ज् + तृ = स्रष्टृ= nominative singular स्रष्टा, so also स्रष्टुम्, स्रष्टव्यम्, द्रष्टा, द्रष्टुम्, द्रष्टव्यम् ॥ This अम् augment prevents the *guna* substitute ordained by (7.3.86). But in अस्राक्षीत् and अद्राक्षीत् the *Vriddhi* takes place in the Aorist, after the augment अम् had taken effect. Why do we say when beginning with a Mute or a Sibilant? Observe सर्ज्जनम्, दर्सनम् with यु ॥ Why do we say not having an indicatory क? Observe सृष्टः, दृष्टः before the affix क्त ॥ The forms of roots being exhibited in the *sutra*, the rule applies when affixes relating to verbs come after these, and not when other affixes relating to noun follow. Thus रज्जुसृङ्भ्याम्, देवदृग्भ्याम् ॥ Here the words are used as nouns rather than verbs. For the maxim धातोः स्वरूपग्रहणे तत्प्रत्यये कार्ये applies here. Bhashya ------- सृजिदृशोर्झल्यमकिति (2495) (अमागमाधिकरणम्) (6063 उपसंख्यानवार्तिकम् ॥ 1 ॥) - अमि सङ्ग्रहणम् - अमि सङ्ग्रहणं कर्तव्यम् । किमिदं सङिति ? प्रत्याहारग्रहणम् । क्व सन्निविष्टानां प्रत्याहारः ? सनः प्रभृति आमहिङो ङकारात् ॥ किं प्रयोजनम् ? (6064 उपसंख्यानफलबोधकवार्तिकम् ॥ 2 ॥) - क्विप्प्रतिषेधार्थम् - क्विबन्तस्य मा भूत् । रज्जुसृड्भ्याम्, रज्जुसृडि्भः, देवदृग्भ्याम्, देवदृग्भिः ॥ (6065 उपसंख्यानानर्थक्यबोधकवार्तिकम् ॥ 3 ॥) - उक्तं वा - किमुक्तम् ? धातोः स्वरूपग्रहणे तत्प्रत्ययविज्ञानात्सिद्धमिति ॥ Kashika ------- **सृज विसर्गे** **दृशिर् प्रेक्षणे** इत्येतयोर्धात्वोर्झलादावकिति प्रत्यये परतोऽमागमो भवति। स्रष्टा। स्रष्टुम्। स्रष्टव्यम्। द्रष्टा। द्रष्टुम्। द्रष्टव्यम्। लघूपधगुणापवादोऽयममागमः। अस्राक्षीत्। अद्राक्षीत्। **सिचि वृद्धिः०** (७.२.१) अमि कृते भवति, पूर्वं तु बाध्यते। झलीति किम् ? सर्जनम्। दर्शनम्। अकितीति किम्? सृष्टः। दृष्टः। धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानाद् (परि० ८८) इह न भवति — रज्जुसृड्भ्याम्, देवदृग्भ्यामिति॥ Siddhanta Kaumudi ----------------- अनयोरमागमः स्याज्झलादावकिति । दद्रष्ठ । ददर्शिथ । द्रष्टा । द्रक्ष्यति । दृश्यात् । इरित्त्वादङ् वा ॥ Laghu Siddhanta Kaumudi ----------------------- अनयोरमागमः स्याज्झलादावकिति । स्रष्टा । स्रक्ष्यति । सृक्षीष्ट । असृष्ट । असृक्षायाम् ॥ {$ {! 26 मृष !} तितिक्षायाम् $} (धातुपाठे (04.0060)) ॥ मृष्यते । ममर्षे । ममर्षिथ । ममृषिषे । मर्षितासि । मर्षिष्यति, मर्षिष्यते ॥ {$ {! 27 णह !} बन्धने $} (धातुपाठे (04.0062)) ॥ नह्यति, नह्यते । ननाह । नेहिथ, ननद्ध । नेहे । नद्धा । नत्स्यति । अनात्सीत्; अनद्ध ॥ इति दिवादयः ॥ ४ ॥ Balamanorama ------------ **सृजिदृशोर्झल्यमकिति** - इडभावपक्षे 'अनुदात्तस्य' इति अमागमविकल्पे प्राप्ते — सृजिदृशोः । अम्-अकितीति च्छेदः । नित्यार्थमिदम् । दद्रष्ठेति । ददृश् थ इति स्थिते इडभावपक्षे अमागमे ऋकारस्य यणि व्रश्चादिना शस्य षत्वे थस्य ष्टुत्वेन ठ इति भावः । इट्पक्षे त्वाह — ददर्शिथेति । अझलादित्वादम् नेति भावः । द्रष्टेति । तासि अमागमे शस्य षत्वे तकारस्य ष्टुत्वेन टकार इति भावः । द्रक्ष्यतीति । अमागमे शस्य षत्वेषढो॑रिति कत्वे सस्य ष इति भावः । पश्यतु । अपश्यत् । पश्येत् । आशीर्लिङि आह — दृश्यादिति । अझलादित्वादम् नेति भावः । लुङि विशेषमाह — इरित्त्वादङ् वेति । अत्र अङ्पक्षे गुणनिषेधे प्राप्ते — Tattvabodhini ------------- **सृजिदृशोर्झल्यमकिति** - झलि किम् । ससर्ज । ददर्श । अकितीति किम् । सृष्टः । सृष्टवान् । दृष्टः । दृष्टवान् । Padamanjari ----------- धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यं विज्ञायत इति प्रत्यय इह सन्निधापितो झला विशेष्यत इति तदादिविधिर्विज्ञायत इत्याहझलादाविति। अकिति प्रत्यये परत इति। किति परतो न भवतीत्यर्थः। प्रसज्यप्रतिषेधो ह्ययमिष्यते, एतच्च गाङ्कुटादिसूत्र सम्यगुपपादितम्। लघूपधगुणापवा दोऽयमिति। अकितीति वृद्धिस्तु भवति, न बाध्यतेः येन नाप्राप्त्यभावात्। साप्यमि कृते भवति। तस्यैव व्याख्या। पूर्व तु बाध्यत इति। अमागमेन; नित्यत्वातस्य। रज्जुसृड्भ्याम्, देवदृग्भ्यामिति। उभयत्र व्रश्चादिसूत्रेण षत्वे जश्त्वमिति केचित्। अन्ये तु'क्विन्प्रत्ययस्य कुः' इति कुत्वमित्च्छन्ति। ननु न क्विन्नन्तावेतौ, किं तर्हि? क्विबन्तौ? नैष दोषः; यस्माद्धातोः क्वचित्क्विन् विहितः, तस्य प्रत्ययान्तरे कुत्वं भवति,'क्विनः कु' इति वक्तव्ये प्रत्ययग्रहणादिति वक्ष्यते। पदान्तस्येत्यधिकारात् स्रष्टा, द्रष्टेत्यत्र न भवति, कुत्वविधावेव तस्य निर्णयं वक्ष्यामः ॥ Nyaas ----- `रुआष्टा, द्रष्टा` इति। उमागमे कृते यणादेशः, व्रश्चादि (8.2.36) सूत्रेण षत्वम्। `लघूपधगुणापवादौऽयम्` इत्यादि। ननु चासति सम्भवे बाधनं भवति, अस्ति च सम्भवो यदुभयं स्यादिति, तत्र गुणे कृतेऽमागमो भविष्यति? नैतदेवम्; सामान्यविहितो गुणः विशेषविहितस्त्वमागमः, सामान्यविहितस्य च विशेषविहितो बाधको भवति, यथा - ब्राआह्रणेभ्यो दधिदीयतां तक्रं कौण्जन्यायेति। यथा सामान्यविहितस्य दधिदानस्य विशेषविहितं तक्रदानं बाधकं भवति तथेहापि युक्ताऽमागममेन गुणस्य बाधा। `अरुआआक्षीत्, अद्राक्षीत्` इति। **आदेशप्रत्यययोः** (8.3.59) इति षत्वम्, `अस्ति सिचोऽपृक्ते` (7.3.96) इतीट्, **वदव्रजहलन्तस्याचः** (7.2.3) इति वृद्धिः, **षढोः कः सि** (8.2.41) इति कत्वम्। `वृद्धिरमिकृते भवति` इति। अथ प्रागेव वृद्धिः कस्मान्न भवति? इत्याह - `पूर्वन्तु बाध्यते` इति। यथैव हि विशेषविहितत्वादमागमेन सामान्यविहितो गुणो बाध्यते, तथा वृद्धिरपि सामान्यविहितैवामागमे कृते पश्चात्? पुनःप्रसह्गविज्ञानात्? सिद्धमिति सापि भवति। गुणस्त्वमागमे कृते न भवति; निमित्तस्य विहितत्वात्। न ह्रमागमे कृत उपधा लघ्वी गुणभाविन्युपपद्यते। अथेह कस्मान्न भवति - रज्जुसृङ्भ्याम्, देवदृग्भ्यामिति; सत्यपि धात्वधिकारे `क्विबन्ता धातुत्वं न जहति (व्या।प।132) इति भ्याम्प्रत्ययमकितमाश्रित्यामागमः प्राप्नोति? इत्यत आह - `धातोः` इत्यादि॥ Prakriyasarvasvam ----------------- अनयोरकिति झलादौ परे अम् स्यात् । मित्त्वान्मध्य । सृ अज् तृ । यण्, स्रज् तृ । व्रश्चादि^षत्वं,, ष्टुत्वम् । स्रष्टा । त्यक्ता । यज् तृ । व्रश्चादिषः । यष्टा । योक्ता । 'णिजिर् शौचपोषणयोः' । नेक्ता । भक्ता । 'अच्छिच्छृखिहनुस्कंपतुभिक्षुश्राद् दः ॥' अदच्छिदादेरिण् न । चत्वंम् । अत्ता । छेत्ता । सत्ता । खेत्ता । 'हृद पुरीषोत्सर्गे' । हृत्ता । नोत्ता । स्कन्द तृ । 'झरो झरि - ' (८-४-६५) इति दलोपः । स्कन्ता । पत्ता । तोत्ता । भेत्ता । क्षोत्ता । शदिस्तीक्ष्णीभावे विशीर्णतायां च । शत्ता शरो घटश्च । 'सारावरुचुयुक्रुशुष्याद् धः ॥' साधिराधिवन्ध्यादेरिण् न । 'झषस्तथोः - ' (८-२-४०) इति तस्य धः । साद्धा । राद्धा । बन्ध् तृ । धत्वे कृते 'झरो झरि - ' (८-४-६५) इति पूर्वधलोपः । बन्धा । रुध् । रोद्धा । क्षोद्धा । योद्धा । क्रोद्धा । शोद्धा । व्यद्धा । 'आस्वलिलुचुक्षितिसृतवशात् पः ॥' आपिस्वप्या- देरिण् न । आप्ता । स्वप्ता । लेप्ता । लोप्ता । 'चुपु स्पर्शने' । चोप्ता । 'छुप स्पर्शन' इत्येव माधवोक्तम् । छोप्ता । क्षेप्ता । 'तिपृ सेचने' । तेप्ता । सृप् तृ, Sutra Prayogas -------------- * **अस्राक्षुरस्रं** (भट्टिकाव्यम्): `सृजि· दृशो :` इत्यम् हलन्तलक्षणा वृद्धिः । * **असृष्ट** (भट्टिकाव्यम्): `सृजि-दृशो :` इयम्। * **दिदृक्षमाणः** (भट्टिकाव्यम्): `सृजि-ह- शोः` इत्यम् न भवति। * **द्राक्षीर्मृषा** (भट्टिकाव्यम्): `सृजिदृशोर्झल्यमकिति` इत्यम् । * **दद्रष्ठा** (भट्टिकाव्यम्): `अनिस्पक्षे सृजि-दृशोर्झल्यम किति` इति पत्वष्टुत्वे । * **अद्राक्षीद्** (भट्टिकाव्यम्): `सृजिदृशो :` इत्यम्।