61057: नित्यं स्मयतेः

Padacheda: नित्यम् | S | 1 | 1 |

स्मयतेः | S | 6 | 1 |

Sutrartha


Vasu English Summary

There is invariably the substitution of आ for the diphthong of the root स्मि ‘to smile’ in the causative, when the astonishment is produced directly through the agent of the causative.

Vasu English Translation

There is invariably the substitution of आ for the diphthong of the root स्मि ‘to smile’ in the causative, when the astonishment is produced directly through the agent of the causative. The words णौ and हेतुभय are both understood here. The word नित्य shows that the anuvritti of विभाषा ceases. Thus मुण्डोजटिलो वा विस्मापयते ॥ Otherwise we have कुञ्चिकयैनं विस्माययति ॥ The word भय here is taken to mean स्मयति i. e. ‘wondering’, ‘feeling astonished’. See (1.3.68) where also this meaning has been extended to भय by its connection with भीस्मि together; the proper word ought to have been हेतुस्मये in connection with स्मि, and हेतुभये in connection with भी ॥

Kashika

णाविति वर्तते, हेतुभय इति च । नित्यग्रहणाद् विभाषेति निवृत्तम्। ष्मिङ् ईषद्धसने इत्यस्य धातोर्हेतुभयेऽर्थे णौ परतो नित्यमाकारादेशो भवति। मुण्डो विस्मापयते। जटिलो विस्मापयते। भय इत्येव — कुञ्चिकयैनं विस्माययति। भयशब्देन धात्वर्थसामान्याद् इह स्मयतेरर्थोऽभिधीयते। न हि मुख्ये भये स्मयतेर्वृत्तिरस्ति॥

Siddhanta Kaumudi

स्मयतेरेचो नित्यमात्वं स्याण्णौ हेतोः स्मये । जटिलो विस्मापयते । हेतोश्चेद्भयस्मयावित्युक्तेर्नेह । कुञ्चिकयैनं भाययति । विस्माययति । कथं तर्हि विस्मापयन् विस्मितमात्मवृत्ताविति । मनुष्यवाचेति करणादेव हि तत्र स्मयः । अन्यथा शानजपि स्यात् । सत्यम् । विस्माययन्नित्येव पाठ इति साम्प्रदायिकाः । यद्वा । मनुष्यवाक् प्रयोज्यकर्त्री विस्मापयते तया सिंहो विस्मापयन्निति ण्यन्ताण्णौ शतेति व्याख्येयम् ॥

Balamanorama

नित्यं स्मयतेः - नित्यं स्मयतेः । ‘आदेच उपदेशे’ इत्यत एचेति, आदिति चानुवर्तते । चित्फुरो॑रित्यतो णाविति, ‘बिभेतेर्हेतुभये’ इत्यतो हेतुभये इति च । तत्र च भयग्रहणं स्मयस्याप्युपलक्षणम्, अत्र तु स्मय एव विवक्षितः, स्मयतेर्भीत्यर्थकत्वाऽसंभवात् । तदाह — स्मयतेरेच इत्यादि । ‘विभाषा लीयते’ रित्यतो विभाषानुवृत्तिनिवृत्तये नित्यग्रहणम् । अथ ‘बिभेतेर्हेतुभये’ इति,नित्यं स्मयते॑रिति च आत्त्वविधौ,भीस्म्योर्हेतुभये॑इति आत्मनेपदविधौ च हेतुग्रहणस्य प्रयोजनमाह — हेतोश्चेद्भयस्मयावित्युक्तेर्नेहेति । कुञ्चिकयैनमिति । केशबन्धविशएषः कुञ्चिका । तस्याश्च करणतया प्रयोजककर्तृत्वाऽभावादात्त्वं षुक् च नेति भावः । आक्षिपति — कथमिति । रघुवंशकारव्ये — तमार्यगृह्रं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम् । विस्मापयन् विस्मितमात्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः॥ इति श्लोके विस्मापयन्निति कथमित्याक्षेपः । प्रयोजकाद्भ्याऽभावेन आत्त्वपुगनुपपत्तेरिति भावः । ननु मनुष्यवागेव तत्र प्रयोजिककेत्यत आह — मनुष्येति । मनुष्यवाचेति तृतीयान्तगम्यकरणान्मनुष्यवागात्मकादेव हि तत्र स्मयः । ननु करणभूताऽपि मनुष्यवाक् प्रयोजिका कुतो नेत्यत आह — अन्यथेति । मनुष्यवाचः स्मयप्रयोजकत्वमभ्युपगम्य आत्त्वाश्रयणे ‘भीस्म्योर्हेतुभये’ इत्यात्मनेपदमपि स्यादित्यर्थः । स्मयोऽत्र प्रयोजकमूलको नेति युक्तमेव, किन्त्वात्त्वपुगाक्षेपो न युज्यते इत्यद्र्धाङ्गीकरेण परिहरति - सत्यमिति । विस्माययन्नित्येति । णौ आयादेशे स्मायीत्यस्माल्लटः शतरि शपि णेर्गुणे अयादेशे विस्माययन्नित्येव कालिदासो महाकविः प्रायुङ्क्त । ‘विस्मापय’ न्निति पकारपाठस्तु लेखप्रमादकृत इति भावः । यद्वेति । राजा दिलीपो विस्मयते । तं सिंहोच्चारिता मनुष्यवाक् प्रयोजयति — विस्मापयते मनुष्यवाक् राजानम् । अत्र मनुष्यवाक् प्रयोजककत्र्री । राजा तु प्रयोज्यकर्तेति स्थितिः । अत्र स्मयस्य प्रयोजककर्तृभूतमनुष्यवाङ्मूलकत्वादात्त्वे पुक् । मूलेप्रयोज्यकत्र्री॑त्येव पाठः सुगमः । तां विस्मापयमानां प्रयोजककत्र्री मनुष्यवाचं प्रयोजयति सिंहः विस्मापयति । स्मापीति ण्यन्ताण्णौ प्रथमणेर्लोपे स्मापि इत्यस्माच्चतृप्रत्यये शपि णेर्गुणे अयादेशे विस्मापयन्निति भवतीत्यप्रेत्य आह — तया सिंह इति । प्रयोजककर्तरि तृतीया । आत्मनेपदं भीस्मिप्रकृतिकण्यन्तादेव, नतु ण्यन्तप्रकृतिकण्यन्तादिति भावः ।

Padamanjari

धात्वर्थसामान्यादिति। सामान्यमुसादृश्यम्, धात्वर्थयोः सामान्यं धात्वर्थसामान्यम्, द्वयोरपि धात्वोरर्थो चितविकारस्वभावौ, तेन भयशब्देन स्मयतेरर्थेऽभिधीयते,’क्रीङ्जीनां णौ’ इत्यत्र स्मयतिर्नोक्तः,’हेतुभये’ इत्युपाधिं वक्ष्यामीति ॥

Nyaas

भयशब्देन धात्वर्थसाम्यात् इत्यादि। यश्च बिभेतरर्थो यश्च स्मयतेः, तौ द्वापि सदृशौ; चित्तविकार स्वभावतया। द्वावपि तौ चित्तसंक्षोभलक्षणौ, अतो द्वयोरपि यत्? सामान्यं तत्? सादृश्यम्। तस्माद्भयशब्देनात्र स्मयतेरर्थोऽभिधीयते। दृश्यते हि सादृश्यादर्थान्तरेऽपि शब्दानां वृत्तिः, यथा - सिंहो माणवक इति। किं पुनः कारणमेवं व्याख्यायते? इत्याह - न हि इत्यादि। बिभेतेर्हेतुभये (6.1.56) इत्यनुवर्तते। उच्यते चेदं विशेषणम्। न च मुख्ये भये स्मयतेर्वृत्तिस्ति। तत्र सामर्थ्यात्? केनचित्? सादृश्येन स्मयत्यर्थ एव भयशब्देनात्राभिधीयत इति विज्ञायते॥

Prakriyasarvasvam

प्रयोजककृते स्मयेऽर्थे स्मयतेर्नित्यमात्वं स्यात् । शूरो विस्मापयते । तङप्यत्रोक्तः । शस्त्रेण विस्माययतीत्यत्र नोभयम् । द्वयोश्चङि व्यसिष्मपत, व्यसिष्मयत् ।

Sutra Prayogas

  • विस्माययन् (रघुवंशम्): नित्यं स्मयतेः इति हेतुभयविवक्षायां पुगागमः।

  • विस्मापयेत (भट्टिकाव्यम्): नित्यं स्मयतेः इति णावात्वम् ।

  • अविस्मापयमान (भट्टिकाव्यम्): नित्यं स्मयतेः इत्यात्वम्।

  • विस्मापयेतां (भट्टिकाव्यम्): नित्यं स्मयतेः इत्यात्वम्।