61044: विभाषा परेः

Padacheda: विभाषा | S | 1 | 1 |

परेः | S | 5 | 1 |

Sutrartha


Vasu English Summary

The vocalisation may optionally take place when व्ये preceded by परि takes the affix ल्यप्।

Vasu English Translation

The vocalisation may optionally take place when व्ये preceded by परि takes the affix ल्यप्। Thus परिवीय यूपम् or परिव्याय ॥ The augment तुक् presented by (6.1.71) is debarred by (6.4.2) which causes the lengthening of the vowel: since (6.4.2) is subsequent to (6.1.71).

Kashika

ल्यपि च व्यश्चेत्यनुवर्तते। परेरुत्तरस्य व्येञित्येतस्य धातोर्ल्यपि परतो विभाषा संप्रसारणं न भवति। परिवीय यूपम्, परिव्याय। संप्रसारणे कृते परपूर्वत्वे ह्रस्वस्य० (६.१.७१) इति तुक् प्राप्नोति, स हलः (६.४.२) इति दीर्घत्वेन परत्वाद् बाध्यते॥

Siddhanta Kaumudi

परेर्व्येञो वा सम्प्रसारणं स्याल्ल्यपि । तुकं बाधित्वा परत्वात्हल-(SK2559) इति दीर्घः । परिवीय । परिव्याय । कथं मुखं व्यादाय स्वपिति । नेत्रे निमील्य हसतीति । व्यादानसम्मीलनोत्तरकालेऽपि स्वापहासयोरनुवृत्तेस्तदंशविवक्षया भविष्यति ॥

Tattvabodhini

विभाषा परेः - कथमिति । ल्यबादेशस्य स्थानिभूतः क्त्वाप्रत्ययो दुर्लभः तद्वधौ पूर्वकाल इत्युक्तेः । न चेह तदस्ति । पूर्वं ह्रसौ स्वपिति पश्चान्मुखं व्यादत्ते । यदैव हसति तदैव नेत्रे संभीलयति । तथा च क्त्वाप्रत्ययस्य दुर्लभत्वाल्ल्यपः प्रसक्तिरेव नास्तीति प्रश्नः । समाधत्ते — व्यादानेत्यादिना । एतेनेआरःसर्वं व्याप्य वर्तते, ज्ञात्वा तिष्ठतीत्यादि व्याख्यातम् ।श्रीशैलशिखरं दृष्ट्वा पुनर्जन्म न विद्यते॑ इत्यादौ तु समानकर्तृकतानिर्वाहार्थंस्थितस्ये॑त्यादि यथासंभवमध्याहार्यम् ।

Prakriyasarvasvam

ल्यपि वेञः प्रसारणं न स्यात् । ज्याधातोर्व्येञश्च न । परिव्येञस्तु वा स्यात् । एच आत्वस् । पटं प्रवाय । ‘ज्या वयोहानौ’ । प्रज्याय स्थितः । प्रव्याय । परिवीय परिव्याय । ‘समोऽपि वे’ति कौमुदी । संवीय संव्याय । ‘मीनातिमिनोति- दीङां ल्यपि च’ (६-१-५०) ‘विभाषा लीयतेः (६-१-५१) इति च ल्यप्यात्वम् । प्रमाय । निमाय । उपदाय । निलाय निलीय ॥