61044: विभाषा परेः ================== **Padacheda:** विभाषा | S | 1 | 1 | परेः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The vocalisation may optionally take place when व्ये preceded by परि takes the affix ल्यप्। Vasu English Translation ------------------------ The vocalisation may optionally take place when व्ये preceded by परि takes the affix ल्यप्। Thus परिवीय यूपम् or परिव्याय ॥ The augment तुक् presented by (6.1.71) is debarred by (6.4.2) which causes the lengthening of the vowel: since (6.4.2) is subsequent to (6.1.71). Kashika ------- ल्यपि च व्यश्चेत्यनुवर्तते। परेरुत्तरस्य व्येञित्येतस्य धातोर्ल्यपि परतो विभाषा संप्रसारणं न भवति। परिवीय यूपम्, परिव्याय। संप्रसारणे कृते परपूर्वत्वे **ह्रस्वस्य०** (६.१.७१) इति तुक् प्राप्नोति, स **हलः** (६.४.२) इति दीर्घत्वेन परत्वाद् बाध्यते॥ Siddhanta Kaumudi ----------------- परेर्व्येञो वा सम्प्रसारणं स्याल्ल्यपि । तुकं बाधित्वा परत्वात्हल-(SK2559) इति दीर्घः । परिवीय । परिव्याय । कथं मुखं व्यादाय स्वपिति । नेत्रे निमील्य हसतीति । व्यादानसम्मीलनोत्तरकालेऽपि स्वापहासयोरनुवृत्तेस्तदंशविवक्षया भविष्यति ॥ Tattvabodhini ------------- **विभाषा परेः** - कथमिति । ल्यबादेशस्य स्थानिभूतः क्त्वाप्रत्ययो दुर्लभः तद्वधौ पूर्वकाल इत्युक्तेः । न चेह तदस्ति । पूर्वं ह्रसौ स्वपिति पश्चान्मुखं व्यादत्ते । यदैव हसति तदैव नेत्रे संभीलयति । तथा च क्त्वाप्रत्ययस्य दुर्लभत्वाल्ल्यपः प्रसक्तिरेव नास्तीति प्रश्नः । समाधत्ते — व्यादानेत्यादिना । एतेनेआरःसर्वं व्याप्य वर्तते, ज्ञात्वा तिष्ठतीत्यादि व्याख्यातम् ।श्रीशैलशिखरं दृष्ट्वा पुनर्जन्म न विद्यते॑ इत्यादौ तु समानकर्तृकतानिर्वाहार्थंस्थितस्ये॑त्यादि यथासंभवमध्याहार्यम् । Prakriyasarvasvam ----------------- ल्यपि वेञः प्रसारणं न स्यात् । ज्याधातोर्व्येञश्च न । परिव्येञस्तु वा स्यात् । एच आत्वस् । पटं प्रवाय । 'ज्या वयोहानौ' । प्रज्याय स्थितः । प्रव्याय । परिवीय परिव्याय । 'समोऽपि वे'ति कौमुदी । संवीय संव्याय । 'मीनातिमिनोति- दीङां ल्यपि च' (६-१-५०) 'विभाषा लीयतेः (६-१-५१) इति च ल्यप्यात्वम् । प्रमाय । निमाय । उपदाय । निलाय निलीय ॥