61045: आदेच उपदेशेऽशिति

Padacheda: आत् | S | 1 | 1 |

एचः | S | 6 | 1 |

उपदेशे | S | 7 | 1 |

अशिति | S | 7 | 1 |

Sutrartha


Vasu English Summary

In a root, which in the system of grammatical instruction (i.e. the धातुपाठ), ends with a diphthong (ए , ऐ , ओ, औ), there is the substitution of आ for the diphthong, provided that no affix with an indicatory श् follows it.

Vasu English Translation

In a root, which in the system of grammatical instruction (i.e. the धातुपाठ), ends with a diphthong (ए , ऐ , ओ, औ), there is the substitution of आ for the diphthong, provided that no affix with an indicatory श् follows it. The word धातोः is to be read into this sutra from (6.1.8). Thus ग्लौग्लाता, ग्लातुम्, ग्लातव्यम्, शौ - निशाता, निशातुम्, निशातव्यम् ॥ Why do we say ending with an एच् (diphthong)? Observe कर्त्ता from कृ, and हर्त्ता from हृ ॥ Why do we say in upadesa or Dhatupatha ? Observe चेता, स्तोता where चे and स्तो are not the forms taught in the first enunciation of the root in the Dhatupatha, but are secondary forms. Why do we say, before non-शित् affixes? Observe ग्लै + शप् + तिप् = ग्लायति, म्लायति ॥ Exception is, however, made in the case of the affix एश् of the Perfect: as जग्ले, मम्ले ॥ This is explained by interpreting the word शित् as शिदादि, that is the affixes having an indicatory श in the beginning: एश् has श् at the end. This is done on the maxim यस्मिन् विधिस्तदादावल् ग्रहणे “when a term which denotes a letter is exhibited in a rule in the form of the Locative case, and qualifies some thing else which likewise stands in the Locative case, that which is qualified by it must be regarded as beginning with the letter which is denoted by the term in question and not as ending with it”.

The word अशिति is an example of प्रसज्यप्रतिषेधः. a simple prohibition of a contingent case. Therefore, the substitution of आ for एच् vowels, is not caused by the affixes that follow, but must take place prior to the occasion for the application of the affixes arises. Thus (3.1.136) ordains क after roots ending in आ; so that ग्लै and म्लै are presupposed to end in आ when applying this affix: thus सुग्लः, सुम्लः ॥ Similarly by (3.3.128) we apply युच् to ग्लै and म्लै by presupposing it as आदन्त roots: as सुग्लानः, सुम्लानः ॥

The word आ is understood in all the subsequent sutras upto (6.1.57).

Bhashya

आदेच उपदेशेऽशिति (2482) (आत्वाधिकरणम्) (उपदेशपदार्थे पक्षद्वयदर्शकं भाष्यम्) कथमिदं विज्ञायते - एज्य उपदेश इति, आहोस्विदेजन्तं यदुपदेश इति ? किं चातः ? (उपदेशशब्दस्य करणसाधनत्वे दोषोपपादकं भाष्यम्) यदि विज्ञायते - एज्य उपदेश इति, ढौकितात्रौकिता - अत्रापि प्राप्नोति । अथ विज्ञायते - एजन्तं यदुपदेश इति, न दोषो भवति ॥ ननु चैजन्तं यदुपदेश इत्यपि विज्ञायमाने - अत्रापि प्राप्नोति, एतदपि हि व्यपदेशिवद्भावेनैजन्तं भवत्युपदेशे । अर्थवता व्यपदेशिवद्भावः ॥ ननु चैज्य उपदेश इत्यपि विज्ञायमाने न दोषो भवति । अशितीत्युच्यते, न चात्राशितं पश्यामः । ननु च ककार एवात्राशित् । न ककारे भवितव्यम् । किं कारणम् ? नञ्ञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः । नञ्ञ्युक्तमिवयुक्तं चान्यस्मिंस्तत्सदृशे कार्यं विज्ञायते तथा ह्यर्थो गम्यते । तद्यथा - लोके अब्राह्मणमानयेत्युक्ते ब्राह्मणसदृशमानयति, नासौ लोष्टमानीय कृती भवति । एवमिहाप्यशिति प्रतिषेधादन्यस्मिन्नशिति - शित्सदृशे कार्यं विज्ञास्यते । किं चान्यदशित् - शित्सदृशम् ? प्रत्ययः ॥ इदं तर्हि - ग्लै ग्लानीयम्, म्लै म्लानीयम्, वेञ् वानीयम्, शो निशानीयम् - परत्वादायादयः प्राप्नुवन्ति ॥ (उपदेशशब्दस्य कर्मसाधनत्वे दोषनिवारकभाष्यम्) ननु चैजन्तं यदुपदेश इत्यपि विज्ञायमाने परत्वादायादयः प्राप्नुवन्ति । सन्तु । आयादिषु कृतेषु स्थानिवद्भावादेज्ग्रहणेन ग्रहणात्पुनरात्वं भविष्यति । ननु चैज्य उपदेशे इत्यपि विज्ञायमाने परत्वादायादिषु कृतेषु स्थानिवद्भावादेज्ग्रहणेन ग्रहणादात्वं भविष्यति । न भविष्यति । अनल्विधौ स्थानिवद्भावः, अल्विधिश्चायम् ॥ (उपदेशशब्दस्य कर्मसाधनत्वे दोषवारकभाष्यम्) एवं तर्हि - एजन्तं यदुपदेश इत्यपि विज्ञायमाने हूतः - हूतवान् इत्यत्रापि प्राप्नोति । भवत्येवात्रात्वम् । श्रवणं कस्मान्न भवति ? पूर्वत्वमस्य भवति । न सिध्यति । इदमिह संप्रधार्यम् - आत्वं क्रियतां पूर्वत्वमिति । किमत्र कर्तव्यम् ? परत्वात्पूर्वत्वम् । एवं तर्हीदमिह संप्रधार्यम् - आत्वं क्रियतां संप्रसारणमिति । किमत्र कर्तव्यम् ? परत्वादात्वम् । नित्यं संप्रसारणम्, कृतेऽप्यात्वे प्राप्नोत्यकृतेऽपि । आत्वमपि नित्यम्, कृतेऽपि संप्रसारणे प्राप्नोत्यकृतेऽपि । अनित्यमात्वम्, न हि कृते संप्रसारणे प्राप्नोति । किं कारणम् ? अन्तरङ्गं पूर्वत्वं तेन बाध्यते । यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम् । न च संप्रसारणमेवात्वस्य निमित्तं विहन्ति, अवश्यं लक्षणान्तरं पूर्वत्वं प्रतीक्ष्यम् । उभयोर्नित्ययोः परत्वादात्वे कृते संप्रसारणम्, संप्रसारणपूर्वत्वम् । कार्यकृतत्वात्पुनरात्वं न भविष्यति । अथापि कथं चिदात्वमनित्यं स्यात्, एवमपि न दोषः । उपदेशग्रहणं न करिष्यते॥ (उपदेशग्रहणवैर्यथ्यबोधकभाष्यम्) यदि तन्न क्रियते, चेता स्तोतेत्यत्रापि प्राप्नोति । नैष दोषः । आचार्यप्रवृत्तिर्ज्ञापयति - न परनिमित्तकस्यात्त्वं भवतीति, यदयं क्रीङ्जीनां णावात्वं शास्ति । नैतदस्ति ज्ञापकम् । नियमार्थमेतत्स्यात् - क्रीङ्जीनां णावेवेति । यत्तर्हि मीनातिमिनोतिदीङां ल्यपि च (6.1.50) इत्यत्रैज्ग्रहणमनुवर्तयति ॥ इह तर्हि - ग्लै ग्लानीयम्, म्लै म्लानीयम्, शो निशानीयम् - परत्वादायादयः प्राप्नुवन्ति । अत्राप्याचार्यप्रवृत्तिर्ज्ञापयति - नायादय आत्वं बाधन्त इति, यदयमशितीति प्रतिषेधं शास्ति । यदि हि बाधेरन्, शित्यपि बाधेरन् ॥ (करणसाधनपक्षोपपादकभाष्यम्) अथ वा पुनरस्तु एज्य उपदेश इति । ननु चोक्तं - ग्लै ग्लानीयम्, म्लै म्लानीयम्, वेञ् वानीयम्, शो निशानीयम् - परत्वादायादयः प्राप्नुवन्ति । अत्रापि शित्प्रतिषेधो ज्ञापकः - नायादय आत्वं बाधन्त इति ॥ (6050 करणसाधनत्वे दोषोपपादकवार्तिकम् ॥ 1 ॥) - आत्व एश्युपसंख्यानम् - आत्वे एश्युपसंख्यानं कर्तव्यम् । जग्ले, मम्ले । अशितीति प्रतिषेधः प्राप्नोति । नैष दोषः । नैवं विज्ञायते - शकार इत् यस्य सोऽयं शित्, न शित् अशिदशितीति । कथं तर्हि ? शकार इत् - शित्, न शित् - अशित् - अशितीति ॥ यद्येवम्, स्तनन्धय इत्यत्रापि प्राप्नोति । अत्रापि शप् शिद्भवति ॥ (अशिति पदे पक्षद्वयोपस्थापकभाष्यम्) किं पुनरयं पर्युदासः - यदन्यच्छित इति । आहोस्वित् प्रसज्यायं प्रतिषेधः - शिति नेति । कश्चात्र विशेषः ? (6051 पर्युदासस्वीकारे दोषवार्तिकम् ॥ 2 ॥) - अशित्येकादेशे प्रतिषेध आदिवत्त्वात् - अशित्येकादेशे प्रतिषेधो वक्तव्यः - ग्लायन्ति, म्लायन्ति । किं कारणम् ? आदिवत्त्वात् । शिदशितोरेकादेशोऽशित आदिवत्स्यात्, अस्त्यन्यच्छित इति कृत्वाऽऽत्त्वं प्राप्नोति ॥ (6052 पर्युदासपक्षे दोषवार्तिकम् ॥ 3 ॥) - प्रत्ययविधिः - प्रत्ययविधिश्च न सिद्ध्यति - सुग्लः, सुम्लः । आकारान्तलक्षणः प्रत्ययविधिर्न प्राप्नोति । अनिष्टे प्रत्ययेऽवस्थिते आत्वम् । अनिष्टस्य प्रत्ययस्य श्रवणं प्रसज्येत ॥ (6053 पर्युदासपक्षे दोषवार्तिकम् ॥ 4 ॥) - अभ्यासरूपं च - अभ्यासरूपं च न सिद्ध्यति - जग्ले, मम्ले । इवर्णाभ्यासता प्राप्नोति ॥ (6054 पर्युदासपक्षे दोषवार्तिकम् ॥ 5 ॥) - अयवायावां प्रतिषेधश्च - अयादीनां च प्रतिषेधो वक्तव्यः । ग्लै ग्लानीयम्, म्लै म्लानीयम्, शो निशानीयम्, वेञ् वानीयम् । परत्वादायादयः प्राप्नुवन्ति ॥ अस्तु तर्हि प्रसज्यप्रतिषेधः - शिति नेति ॥ (6055 प्रसज्यप्रतिषेधे दोषवार्तिकम् ॥ 6 ॥) - शिति प्रतिषेधे श्लुलुकोरुपसंख्यानम् - ररीध्वम्, त्राध्वम्, शिशीते - शिति प्रतिषेधे श्लुलुकोरुपसंख्यानं कर्तव्यम् । दिवो नो वृष्टिं मरुतो ररीध्वम् । लुक्त्राध्वं नो देवा निजुरो वृकस्य । शिशीते शृङ्गे रक्षसे विनिक्षे । नैष दोषः । इह तावत् - दिवो नो वृष्टिं मरुतो ररीध्वमिति, नैतत् रै इत्यस्य रूपम् । कस्य तर्हि ? रातेर्दानकर्मणः । शिशीते शृङ्गे इति नैतत् श्यते रूपम् । कस्य तर्हि ? शीङः । श्यत्यर्थो वै गम्यते । कः पुनः श्यतेरर्थः ? श्यतिर्निशाने वर्तते । शीङपि श्यत्यर्थे वर्तते । कथं पुनरन्यो नामान्यस्यार्थे वर्तते ? बह्वर्था अपि धातवो भवन्ति । तद्यथा - वपिः प्रकिरणे दृष्टश्छेदने चापि वर्तते - केशान् वपतीति । इर्डिः स्तुतिचोदनायाच्ञ्ञासु दृष्टः प्रेरणे चापि वर्तते - अग्निर्वा इतो वृष्टिमीट्टे, मरुतोऽमुतश्च्यावयन्ति । करोतिरभूतप्रादुर्भावे दृष्टो निर्मलीकरणे चापि वर्तते - पृष्टं कुरु, पादौ कुरु - उन्मृदानेति गम्यते । निः क्षेपणे चापि वर्तते । घटे कुरु, कटे कुरु, अश्मानमितः कुरु - स्थापयेति गम्यते ॥ (प्रसज्यप्रतिषेधे दोषोद्धारकभाष्यम्) सर्वेषामेष परिहारः - शितीत्युच्यते न चात्र शितं पश्यामः । प्रत्ययलक्षणेन । न लुमता तस्मिन्निति प्रत्ययलक्षणाप्रतिषेधः ॥ त्राध्वमिति लुङेष व्यत्ययेन भविष्यति ॥ (पर्युदासपक्षे दोषोद्धारकभाष्यम्) अथ वा पुनरस्तु पर्युदासः । ननु चोक्तमशित्येकादेशे प्रतिषेध आदिवत्त्वात् इति । नैष दोषः । एकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाद्व्यवधानम् ॥ यदपि प्रत्ययविधिः इति, आचार्यप्रवृत्तिर्ज्ञापयति - भवत्येजन्तेभ्य आकारान्तलक्षणः प्रत्ययविधिरिति, यदयं ह्वावामश्च (3.2.2) इत्यणं कबाधनार्थं शास्ति ॥ यदपि अभ्यासरूपम् इति, प्रत्याख्यायते स योगः । अथापि क्रियते, एवमपि न दोषः । कथम् ? लिटीत्यनुवर्तते द्विलकारकश्चायं निर्देशः । लिटि लकारादाविति । एवं च कृत्वा सोऽप्यदोषो भवति यदुक्तम् - आत्व एश्युपसंख्यानम् इति ॥ यदप्युक्तम् - अयवायावां प्रतिषेधश्चेति, शिति प्रतिषेधो ज्ञापको नायादय आत्वं बाधन्त इति ॥ (6056 प्रतिषेधोपसंख्यानवार्तिकम् ॥ 7 ॥) - प्रातिपदिकप्रतिषेधः - प्रातिपदिकानां प्रतिषेधो वक्तव्यः । गोभ्याम्, गोभिः, नौभ्याम्, नौभिः ॥ स तर्हि वक्तव्यः । न वा वक्तव्यः । आचार्यप्रवृत्तिर्ज्ञापयति - न प्रातिपदिकानामात्वं भवतीति, यदयं रायो हलि (7.2.85) इत्यात्वं शास्ति । नैतदस्ति ज्ञापकम् । नियमार्थमेतत्स्यात् - रायो हल्येवेति । यत्तर्हि औतोम् शसोः (6.1.93) इत्यात्वं शास्ति । एतस्याप्यस्ति वचने प्रयोजनम् - अमि वृद्धिबाधनार्थमेतत्स्यात्, शसिप्रतिषेधार्थं च । तस्मात् प्रातिपदिकानां प्रतिषेधो वक्तव्यः ॥ न वक्तव्यः ॥ (6057 उपसंख्यानवैर्यथ्यबोधकवार्तिकम् ॥ 8 ॥) - धात्वधिकारात्प्रातिपदिकस्याप्राप्तिः - धात्वधिकारात्प्रातिपदिकस्यात्वं न भविष्यति । धातोरिति वर्तते । क्व प्रकृतम् ? लिटि धातोरनभ्यासस्य (6.1.8) इति ॥ अथापि निवृत्तम् । एवमप्यदोषः । उपदेशे इत्युच्यते, उद्देशश्च प्रातिपदिकानां नोपदेशः ॥

Kashika

धातोः (६.१.८) इति वर्तते। एजन्तो यो धातुरुपदेशे तस्याकारादेशो भवति, शिति तु प्रत्यये न भवति। ग्लै — ग्लाता। ग्लातुम्। ग्लातव्यम्। शो — निशाता। निशातुम्। निशातव्यम्। उच इति किम् ? कर्ता। हर्ता। उपदेश इति किम् ? चेता। स्तोता। अशितीति किम् ? ग्लायति। म्लायति। कथं जग्ले, मम्ले ? नैवं विज्ञायते — शकार इद् यस्य सोऽयं शिदिति। किं तर्हि? श एव इत् शित्। तत्र यस्मिन् विधिस्तदादावल्ग्रहणे (परि० ३३) इति शिदादौ प्रत्यये प्रतिषेधः। एश् शकारान्तो भवति। अशितीति प्रसज्यप्रतिषेधोऽयम्। तेनैतदात्वमनैमित्तिकं प्रागेव प्रत्ययोत्पत्तेर्भवतीति सुग्लः सुम्ल इति आतश्चोपसर्गे (३.१.१३६) इति कप्रत्ययः, सुग्लानः सुम्लान इति आतो युच् (३.३.१२८) इत्येवमादि सिद्धं भवतीति। आकाराधिकारस्त्वयं नित्यं स्मयतेः (६.१.५७) इति यावत्॥

Siddhanta Kaumudi

उपदेशे एजन्तस्य धातोरात्वं स्यान्न तु शिति ॥

Laghu Siddhanta Kaumudi

उपदेशे एजन्तस्य धातोरात्वं न तु शिति। जग्लौ। ग्लाता। ग्लास्यति। ग्लायतु। अग्लायत्। ग्लायेत्॥

Balamanorama

आदेच उपदेशेऽशिति - आदेच । एजन्तस्य धातोरिति ।लिटि धातो॑रित्यतो धातोरित्यनुवृत्तमेचा विशेष्यते, तदन्तविधिरिति बावः । न तु शितीति । श् चासौ इच्चेति कर्मधारयात्सप्तमी, प्रत्ययविशेषणत्वात्तदादिविधिः, इत्संज्ञकशकारादौ प्रत्यये परे इति लभ्यते । ‘ल्यपि च’न व्यो लिटी॑त्यादिपूर्वोत्तरसूत्राणां प्रत्ययेष्वेव प्रवृत्त्या ‘प्रत्यये’ इति विशेष्यलाभः ।अशिती॑ति न पर्युदासः । तथा सति शिद्भिन्ने प्रत्यये परे इत्यर्थः स्यात् । ततश्च ‘सुग्ल’ इत्यत्र ग्लैघाटोः ‘आतश्चोपसर्गे’ इति कप्रत्ययो न स्यात्, कप्रत्ययनिमित्तमात्त्वम्, आदन्तात्प्रत्यय इत्यन्योन्याश्रयात् ।शिति ने॑ति प्रसज्यप्रतिषेधे तु आत्त्वस्य अनैमित्तिकतया कप्रत्ययनिमित्तकत्वाऽभावात् प्रथमात्त्वे कृते कप्रत्ययः सूपपादः ।शिती॑ति बहुव्रीह्राश्रयणे ग्लैधातोर्भावे लिटिभावकर्मणो॑रिति तङि एशि आत्त्वे आतो लोपे ‘जग्ले’ इति न सिध्येत्, एशः शित्त्वेन तस्मिन्परे आत्त्वस्य निषेधात् । अतः कर्मधारयमाश्रित्य इत्संज्ञकशकारादौ प्रत्यये परे नेत्यर्थ आश्रितः । एवं च पर्युदासेऽपि न क्षतिः । इत्संज्ञकशकारादिभिन्नप्रत्यये विवक्षिते इत्याश्रयणेन ‘सुग्ल’ इत्यत्र कप्रत्ययात्प्रागेव आत्त्वोपपत्तेः । उपदेशे किम् । चेता, स्तोता । दातोः किम् । गोभ्याम् ।गमेर्डो॑रिति डोप्रत्ययोपदेशात् उपदेशे एच् तदन्तत्वाद्गो इत्यस्य प्राप्तिः । न च मेङादीनामुपदेशे एजन्तत्वाऽभावात्कथमात्त्वमिति न शङ्क्यम्, ‘उदीचां माङः’ इति निर्देशेननानुबन्धकृतमनेजन्तत्व॑मिति ज्ञापनादित्यास्तां तावत् ।

Tattvabodhini

आदेच उपदेशेऽशिति - आदेच उपदेशेऽशिति ।लिटि धातो॑रित्यनुवृत्तमेचा विशेष्यते । तदाह — एजन्तस्य धातोरिति । उपदेशे किम् । चेता । स्तोता । ननु लाक्षणिकत्वादेवाऽत्र न भविष्यतीति चेत् । अत्राहुः वर्णग्रहणे लक्षणप्रतिपदोक्तपरिभाषा नाश्रीयत इति ज्ञापनार्थमुपदेशग्रहणम् । तेनक्रीङ्जीनां णौ॑ इति कृतात्वे क्रापयीत्यादौ पुक् सिध्यतीति मनोरमाकृत् । धातोः किम् । गोभ्याम् । नौभ्याम् । अस्ति ह्यत्रापिगमेर्डोः॑ग्लानुदिभ्यां डौ॑ रित्युपदेशे एच् ।अशिती॑ति प्रसज्यप्रतिषेध इत्याह - न तु शितीति । पर्युदासे तु जग्ले मग्ले इत्यादौद्विर्वचनेऽची॑ति निषेधादात्वं न स्यात्, अभ्यासे इकारश्च श्रूयेत । किं चसुग्ल॑ इत्यत्रआतश्चोपसर्गे॑ इति कः,सुग्ले॑त्यत्रआतश्चोपसर्गे॑ इति रिउआयामङ्,सुग्लान॑ इत्यत्रआतो युजि॑ति युज्न स्यात् । प्रत्ययनिमित्तं ह्रात्वम्, आदन्ताच्च प्रत्यय इत्यन्योन्याश्रयात् । प्रसज्यप्रतिषेधे तु न कोऽपि दोषः ।ह्वावामश्चे॑ति सूत्रेण कबाधनार्थं पुनरण्विधानं च प्रतिषेधपक्षे ज्ञापकम् । तदाहुः - अनैमित्तिकमात्वं, शिति तु प्रतिषेध इति । नन्वेमपि एशः शित्त्वाकाले मम्ले इत्यादि न सिध्यतीति चेत् । अत्राहुः — — यदि त#उ शितीति बहव्रीहिः स्यात्तदाऽत्र स्यादेव दोषः । किं तु क्रमधारयोऽयम् । तथा चाऽशितीत्यत्रेत्संज्ञकारादौ प्रत्यये परे नेत्यर्थः । धातुग्रहणाक्षिप्तस्य प्रत्ययस्य शितीति कर्मधारयेण विशेषणात्॥ विषयसप्तम्यां तु इत्संज्ञकशकारादिभिन्नप्रत्ययविषये आत्वमित्यर्थात्पर्युदासेऽपि न क्षतिरिति ।

Padamanjari

आदेच उपदेशेऽशिति ॥ अत्र यदि’धातोः’ इति नानुवर्तेत, ततो विसेष्याभावादेवल नास्ति तदन्तविधिरित्युपदेशे य एच् तस्यात्वमित्यर्थो भवति; ततश्च ढौकिता, त्रौकिता इत्यत्रापि प्राप्नोति। ननु चाशितीत्युच्यते, न चात्राशितं पश्यामः; न च ककार एवाशित्, किं कारणम्? नञिवयुक्तन्यायेन शित्सदृशस्य प्रत्ययस्यैव ग्रहणात् ? स्यादेवं यद्यशितीति पर्युदासः स्यात्, प्रसज्यप्रतिषेधस्त्वयमिति वक्ष्यते। तस्माद्धातोरित्यनुवर्तयमित्याह - धातोरिति वर्तत इति। तस्य चैचो विशेषणातदन्तविधिरित्याह - एजन्तो यो धातुरिति। उपदेश इति। अनिर्ज्ञातस्वरूपस्य स्वरूपज्ञापनार्थमाद्यमुच्चारणमूपदेशः। चेता, स्तोतेति। आर्धधातुके गुणविधानं त्वात्वार्थमेव स्यात्; यं विधिं प्रत्युपदेश इति न्यायात्। कर्ता, हर्ता हत्यादौ च गुणविधिश्चरितार्थः। एवमपि लाक्षणिकत्वादेवात्र न भविष्यति? ज्ञापकाच्च; यदयं क्रीङ्जीनां णावात्वं शास्ति, तज्ज्ञापयति-न परनिमितस्यैच आत्वं भवतीति। नैतदस्ति ज्ञापकम्, नियमार्थमेतत् स्यात् - क्रीङ्जीनां णावेवेति। ततर्हि’मीनातिमिनोतिदीङं ल्यपि च’ इत्यात्वं सास्ति? एवं तहर्युतरार्थमवश्यं कर्तव्यमुपदेशग्रहणम्, तदिहैव क्रियते मन्दधियामनुग्रहाय। कथमिति। अशिदित्ययं बहुव्रीहिः, तत्र शिति प्रतिषेधे क्रियमाणे शिन्मात्रस्य प्राप्नोति, ततश्च जग्लाये इति भवितव्यमिति प्रश्नः। भावे लकारः, तत्पुरुषाश्रयेणोतरम्। कः पुनस्तत्पुरुषे सति गुणः? इत्यत आह - तत्रेति। तत्पुरुषे हि वर्णग्रहणमिदं भवति, वर्णग्रहणे च तदादौ कार्यं भवति। स्तनन्धय इत्यत्र तु’नासिकास्तनयोः’ इति खशि कृते मद्यपातिनं शपमाश्रित्य प्रतिषेधः। प्रयोजनाभावादेवात्र न शपपा भितव्यमिति चेत्? नन्विदमेव प्रयोजनं यदुतात्वनिवृत्तिः। अशितीति। यद्ययं पर्युदासः स्यात् - शितोऽन्योऽशित्, तस्मिन्नशितीति, ततो ग्लायन्ति, मलायन्तीत्यत्र शबकारस्यान्त्याकारस्य चैकादेशे कृते तस्य परं प्रत्यादिवद्भावादस्ति शितोऽन्य इति कृत्वाऽऽत्वमत्र प्राप्नोति। प्रसज्यप्रतिषेधे तु न दोषः; एकादेशस्य पूर्वं प्रत्यन्तवद्भावात् सिद्ग्रहणेन ग्रहणात् शिति प्रतिषेध एव भवति। किं पुनः कारणमेकादेशविषय एव आत्वप्राप्तिश्चोद्यते, न पुनर्ग्लायतीत्यादावपि लकार एवाशिति परत आत्वं प्राप्नोतीति? नैवं शक्यं चोदयितुम्; एवं ह्यशितीति प्रतिषेधो निर्वषयः स्यात्, न च’पाघाध्माधेट्दृशः’ हृति धेटः शप्रत्ययोऽनन्यपूर्वो विषयः। न ह्यएकमुदाहरणं सित्प्रतिषेधं प्रयोजयति। यद्येतावत्। प्रयोजनं स्याद् ठशेऽ इत्येव ब्रूयात्। यद्वा - अन्तरङ्गत्वान्नित्यत्वाच्च पूर्वं चोद्यते? नैष दोषः; एकादेशस्य पूर्वविधौ स्थानिवद्भावेनादिशितोऽन्यस्य प्रत्ययस्याभवात्। इह तर्हि - सुग्लः, सुग्ला, सुग्लानमित्याकारान्तलक्षणाः काङ्यनो न स्युः? एषोऽप्यदोषः; आत्वभाविन एजन्तादाकारान्तनिमितकः। प्रत्ययो ज्ञाप्यते सर्वो ह्वावामश्चेत्यणा पुनः ॥ इह तर्हि ग्लै-ग्लानीयम्, पै - पानीयम्, अनीयरि कृते आत्वं च प्राप्नोति, आयादयश्च, परत्वादायादयः स्युः? सत्यम्; कृतेषु तेष्वलोन्त्यस्यात्वे सवर्णदीर्घत्वे ग्लानीयमित्यादि सिद्धम्। नन्वायादिषु कृतेषु नायमेजन्तः, न च स्थानिवद्बावोऽलाश्रयत्वात्? स्यादेतदेवं यदि सम्प्रति यदेजन्तं तस्यात्वं भवतीत्युच्येत, इह तूपदेशगतमेजन्तत्वं न सम्प्रतितनमिति नास्ति स्थानिवद्बावापेक्षा। नन्वेवमपि जग्लतुरित्यादौ यकारस्यात्वे कृते जग्लाआआअतुसिति स्थितेऽन्तरङ्गमप्याकारयोरेकादेशं बाधित्वा ठातो लोप इति चऽ इत्यातो लोपः स्यात्, न च पूर्वस्याकारस्य पुनर्लोपो लभ्यते, यकाराकारलोपस्य पूर्वविधौ स्थानिवद्भावात् ठसिद्धवदत्राभात्ऽ इत्यसिद्धत्वाच्च? नैष दोषः; समानाश्रये’वार्णादाङ्गं बलीयः’ इह तु व्याश्रयत्वादन्तरङ्ग एकादेशे सति पश्चादाल्लोप इति सिद्धमिष्टम्। एवमपि’द्विर्वचने’ चिऽ इत्यायादीनां स्थानिवताव्त ग्लैशब्दस्यद्विर्वचनेऽभ्यासस्येवर्णान्तता प्राप्नोति, पक्षान्तरे त्वनैमितिकत्वादात्वस्य द्विर्वचननिमितेऽच्यविहितत्वान्न दोषः? पर्युदासपक्षेऽपि न दोषः, लिटि वयो यःऽ इति द्विलकारकोऽयं निर्देशः, तथानिर्द्देशस्य च तत्र प्रयोजनाभावादिहानुवृतं वाक्यभेदेन सम्बद्ध्यते - अशित्येव आत्वं भवति, लिटि तु लकारादौ लावस्थायामेवेति। ततश्चात्वस्य द्विर्वचननिमिताज्निमितत्वाभावात्त्स्य तावन्न स्थानिवद्भावः। आयादयस्तु लिट।ल्प्राप्ता एव। तदेवं पर्युदासपक्षस्य बहुप्रतिविधेय त्वात्प्रसज्यप्रतिषेधोऽयमित्याह - अशितीति प्रसज्यप्रतिषेधोऽयमिति। तेन किं सिद्धं भवति? इत्याह - तेनैतदित्यादि। एवमादि सिद्धं भवतीति। आदिशब्देन सुग्लेत्यत्र ठातश्चोपसर्गेऽ इत्यङे ग्रहणम्। अन्यानि बहुनी प्रयोजनानि प्रागेवास्माभिर्द्दर्शितानि । इह कस्मान्न भवति-गोभ्याम्, नौभ्यामिति? ज्ञापकात्। यदयम् रायोहलिऽ इत्यात्वं शास्ति, तज्ज्ञापयति-न प्रातिपदिकस्यात्वं भवतीति। नैतदस्ति ज्ञापकम्, नियमार्थमेतत्स्यात् - रायो हल्येव; ठौतोम्ससोःऽ इत्येततु गां पश्येत्यत्र,’गोतो णित्’ णित्वाद्वृद्धिः प्राप्नोति, गाः पश्येत्यत्र त्वशितीति प्रतिषेधः प्राप्नोतीति कृतं भवेदित्यज्ञापकम् ? एवं तहर्युपदेश इत्युच्यते, न च गोनौशब्दयोरुपदेशोऽस्ति, यः’गोपयसोर्यन्’ ,’नौवयोधर्म’ इत्यादौ उच्चारणं नासावुपदेशः, किं तर्हि? उद्देशः, सिद्धवदुपानात्। मा भूद् गौनौशब्दयोरुपदेशः, एचस्तूपदेशोऽस्ति -‘गमेर्डोः’ ,’ग्लानुदिभ्यां डौः’ इति, न च डोडावोर्विधानवैयर्थ्यम्, शसि चरितार्थत्वात्? एवं तर्हि’धातोरिति वर्तते’ - इत्युक्तत्वान्न भविष्यति ॥

Nyaas

धातोरिति वर्तते इति। लिटि धातोरनभ्यासस्य (6.1.8) इत्यत; तस्य च धातोरेवैचेति विशेषणम्, विशेषमेन च तदन्तविधिर्भवतीत्याह - एजन्तो यो धातुः इति। उपदेशे इति। आद्युच्चारणे गणपाठ इत्यार्थः। चेता, स्तोता इति। ननु च लक्षणप्रतिपदोक्तपरिभाषयैवात्र (व्या।प।3) न भविष्यति, तत्? किमुपदेशग्रहणेन? एवं तर्हि उपदेशग्रहणमतेतज्ज्ञापयति - अनित्यैषा परिभाषेति। एतेन अर्त्तिह्यी (7.3.36) इत्यादिसूत्रे लाक्षणिकस्याप्याकारस्य ग्रहणे सति क्रापयतीत्यादावपि पुक्? सिद्धो भवति। श इद्? यस्य सोऽयं शित् इति। यश्च लिटस्तझयोरेशिरेच् (3.4.81) इत्येशादेशः स शिद्भवति, ततश्च शिति प्रतिषेधे क्रियमाण एश्यप्यात्त्वं न प्राप्नोति। अत्रायादेशे कृते स्थानिवद्भावेन ग्लै इत्यस्य द्विर्वचने जग्लाय इत्यनिष्टं रूपं स्यात् - इति मन्यमान आह - कथम् इत्यादि। ग्लै इत्यादौ **आतो लोप इटि च** (6.4.64) इत्याकारलोपः। `नैवम् इत्यादिना परिहारः। श एव इत्? शिदिति विज्ञायमाने सत्यल्ग्रहणमेव भवति। तत्र यस्मिन्? विधिस्तदादावल्ग्रहणे (व्या।प।127) परिभाषया शिदादौ प्रत्यये प्रतिषेधेन भवितव्यम्, न चैश्? शिदादिः; किं तर्हि? श#इदन्तः शिदन्तस्यैवोच्चारणात्। तस्मादत्रैशि प्रतिषेधो न भवति। अशितीति पर्युदासो वा? प्रसज्यप्रतिषेधो वा? तत्र यदि पर्युदासः, तदा शितोऽन्यदात्त्वनिमित्तमाश्रितं स्यात्। एवञ्च यावदात्त्वस्य निमित्तं न भवति तावदात्त्वेन भवितव्यमिति; अनाकारान्तत्वात्। सुगलः इत्यादावाकारान्तलक्षणः कप्रत्ययो न स्यादित्येच्चेतसिकृत्वाऽऽह - अशति इत्यादि। तेन किं सिद्धं भवति? इत्याह - तेन इत्यादि। प्रसज्यप्रतिषेधे ह्रात्त्वस्य शिति प्रतिषेधः क्रियते, न तु किञ्चिन्निमित्त्माश्रीयत इति तदनैमित्तिकं भवति। अतः प्रागेव प्रत्ययोत्पत्तेरात्त्वं भवतीत्याकारान्तलक्षण) प्रत्ययः सिद्ध्यति, तेन सुग्लः इत्यादि। सिद्धं भवति। आदिशब्देन सुग्लः, सुग्ला - इत्यादेग्र्रहणम्। तत्र हि स्त्रियाम्? `आतश्चोपसर्गे (3.3.106) इत्यङ्॥

Prakriyasarvasvam

धातुपाठ एजन्तस्य धातोरत्वं स्यात्, शिति प्रत्यये कर्तव्ये तु न । इत्यात्वे युक् । निशायी । निवेशीत्यादि । ‘याचिभ्रजिवदिवसिब्याहृसंव्यवहृभ्यो नञि ॥’ अयाची । अब्राजीत्यादि । ‘अचोऽचित्तवत्कर्तृकात् । नञ्पूर्वादजन्ताद् धातोरचेतने कर्तरि णिनिः । अकारी घर्मस्य बालातपः । ‘अभौ भुवो भूते ॥’ अभौ भुवो भूतार्थे णिनिः । अभिभूतवान् अभिभावी । ‘परिव्योगुणश्च वा ॥’ पक्षे वृद्धिः । परिभवी परिभावी । विभवी विभावी । ‘विशयी विषयी च देशे ॥’ इति पचादेरच् । पचः । करः । ब्रुव इति च पठयते ।<!अच्यदेर्घस्लृभावो वाच्यः!> (वा० २-४-३७) । प्रघसो विघसश्च भोक्ता । ‘नदभषप्लुग् दृद् सूदिदिविसिवि- चरिचोरिचिलिगाहिभ्यष्टिट् ॥’ एभ्यष्टिटदच् स्यात् । नदः । भषः । प्लवः । ‘अचि विभाषा’ (८-२-२१) इति लत्वे गलो गरो वा भोक्ता । प्राण्यङ्गे गले नित्यं लत्वम् । विषे तु नैवेष्टम् । गिरति प्राणानिति गरो विषम् । तरः । दरः । सूदः । देवः । सेवः । चरः । चोरः । चेलः । गाहः । टित्त्वं ङीवर्थम् । नदी । दरी । देवी । <karika>ब्रुवचेलौ निन्द्यार्थौ । पचाद्यच् सर्वधातुभ्यो वक्तव्य इति भाष्यकृत् । अत एव ण्वुल्तृजचः सामान्येनाह भोजराट् ॥ ७५ ॥</karika> तेन यङन्तानां ‘सनाद्यन्ता धातवः’ (३-१-३२) इति धातुत्वादच् । लोलूय अ ।

Sutra Prayogas

  • म्लापयन् (शिशुपालवधम्): आदेच उपदेशेऽशिति इत्यात्वे पुगागमः।

  • व्यवससुः (शिशुपालवधम्): आदेच उपदेशेऽशिति इति आत्वे। (Note: Commentary text contains typo ‘आदेश- (८३५९)’ but context ‘आत्वे’ confirms 6.1.45)