61043: व्यश्च¶
Padacheda: व्यः | S | 6 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The semi-vowel of व्या (व्ये) ‘to cover’ is not vocalised when the affix ल्यप् follows.
Vasu English Translation¶
The semi-vowel of व्या (व्ये) ‘to cover’ is not vocalised when the affix ल्यप् follows. As प्रव्याय, उपव्याय ॥ The separation of this sutra from the last, is for the sake of the subsequent sutra, in which the anuvritti व्ये runs.
Kashika¶
ल्यपीत्येव। व्येञ् संवरणे इत्येतस्य धातोर्ल्यपि परतः संप्रसारणं न भवति। प्रव्याय। उपव्याय। योगविभाग उत्तरार्थः॥
Siddhanta Kaumudi¶
उपव्याय ॥
Nyaas¶
योगविभाग उत्तरार्थः इति। उत्तरत्र व्येञ एव विभाषा सम्प्रसारणं यथा स्यात्, ज्या इत्यस्य मा भूदित्येवमर्थो योगविभागः॥