61032: ह्वः सम्प्रसारणम्¶
Padacheda: ह्वः | S | 6 | 1 |
सम्प्रसारणम् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
There is the vocalisation of the semi-vowel of the causative of ह्वे before the Desiderative and the Reduplicated Aorist affixes.
Vasu English Translation¶
There is the vocalisation of the semi-vowel of the causative of ह्वे before the Desiderative and the Reduplicated Aorist affixes. The whole of the last sutra is to be read into this sutra. Thus जुहावयिषति and जुहावयिषतः; जुहावयिषन्ति; अजूहवत्, अजूहवताम् and अजूहवन् ॥ The root ह्वा does not take the augment य required by (7.3.37) before the affix णि, because the Samprasarana rule is stronger. The repetition of the word संप्रसारण in this sutra, though its anuvritti was present, indicates that the force of the word विभाषा has ceased. Though this and the next sutra could well have been made one, their separation shows that the samprasarana does not take place when another affix, not causing reduplication, intervenes. As ह्वायकमिच्छति = ह्वायकीयति; the Desiderative of this verb is जिह्वायकीयिषति ॥
Bhashya¶
33- ह्वः संप्रसारणम्-अभ्यस्तस्य च (2469-70)
Kashika¶
णौ च संश्चङोरिति वर्तते। सन्परे चङ्परे च णौ परतो ह्वः संप्रसारणं भवति। जुहावयिषति, जुहावयिषतः, जुहावयिषन्ति। अजूहवत्, अजूहवताम्, अजूहवन्। संप्रसारणस्य बलीयस्त्वात् शाच्छासाह्वाव्यावेपां युक् (७.३.३७) इति प्रागेव युग् न भवति। संप्रसारणमिति वर्तमाने पुनः संप्रसारणमित्युक्तं विभाषेत्यस्य निवृत्त्यर्थम्। ह्वः संप्रसारणमभ्यस्तस्येत्येकयोगेन सिद्धे पृथग्योगकरणमनभ्यस्तनिमित्तप्रत्ययव्यवधाने संप्रसारणाभावज्ञापनार्थम्। ह्वायकमिच्छति ह्वायकीयति। ह्वायकीयतेः सन् जिह्वायकीयिषति॥
Siddhanta Kaumudi¶
सन्परे चङ्परे च णौ ह्वः संप्रसारणं स्यात् । अजूहवत् । अजुहावत् ॥
Balamanorama¶
ह्वः सम्प्रसारणमभ्यस्तस्य च - अभ्यस्त स्य च ।ह्वः संप्रसारण॑मित्यनुवर्तते । ‘ह्व’ इति कृतात्त्वस्य ‘हवे’ इत्यस्य षष्ठन्तम् । तथा च अभ्यस्तीभूतस्य ह्वेञः संप्रसारणे कृते पूर्वखण्डस्याऽभ्यासस्यन संप्रसारणे संप्रसारण॑मिति निषेधः स्यादित्यत आह-अभ्यस्तीभविष्यत इति । ननु यद्यभ्यस्तीभविष्यतो ह्वेञः संप्रसारणं तर्हि द्वित्वं बाधित्वा परत्वात्संप्रसारणे सतिविप्रतिषेधे यद्बाधितं तद्बाधित॑मिति न्यायाद्द्वित्वं न स्यादित्यत आह — ततो द्वित्वमिति । संप्रसारणानन्तरं द्वित्वमित्यर्थः, पुनः प्रसङ्गविज्ञानादिति भावः । तथा च णलि आत्त्वे कृते संप्रसारणे पररूपे ‘हु’ इत्यस्य द्वित्वेकुहोश्चु॑रिति चुत्वे तस्य जश्त्वेअचो ञ्णिती॑ति वृद्धौ अवादेशे परिनिष्ठितं रूपमाह — जुहावेति । जुहुवतुरिति । अतुसि आत्त्वे आल्लोपं बाधित्वा अन्तरङ्गत्वात्अभ्यस्तस्य चे॑त्यनेन संप्रसारणेवार्णादाङ्गं बलीयः॑ इत्यस्याऽनित्यतयाऽन्तरङ्गत्वात्पूर्वरूपे कृते द्वित्वे उवङिति भावः । यद्यपि कितिवचिस्वपी॑ति संप्रसारणेऽपि सिद्धमिदम्, तथापि अकिति आवश्यकमभ्यस्तस्य चेत्येत न्न्याय्यत्वादिहापि भवतीति बोध्यम् । एवं जुहुवुः । भारद्वाजनियमात्थलि वेट् । तदाह — जुहोथ जुहविथेति । जुहुवथुः जुहुव । जुहाव जुहव जुहुविव जुहुविम । क्रादिनियमादिट् । जुहुवे जुहुवाते जुहुविरे । जुहुविषे जुहुवाथे जुहुविढ्वे जुहुविध्वे । जुहुवे जुहुविवहे जुहुविमहे । ह्वातेति । तासि आत्त्वम् । ह्वास्यति ह्वास्यते । ह्वयतु ह्वयताम् । अह्वयत् अह्वयत । ह्वयेत् ह्वयेत । हूयादिति । आशीर्लिङि आत्त्वे यासुटि कित्त्वात्वचिस्वपी॑ति संप्रसारणे पूर्वरूपेअकृत्सार्वधातुकयो॑रिति दीर्घ इति भावः । ह्वासीष्टेति । आशीर्लिङि सीयुटि रूपम् । लुङि विशेषमाह —
Tattvabodhini¶
ह्वः सम्प्रसारणमभ्यस्तस्य च - अभ्यस्तस्य चेति । पूर्वयोगस्तुणौ च संश्चङो॑र्विषये प्रवर्तते । जुहावयिषति । अजूहवत् । अभ्यस्तीभविष्यतो ह्वेञ इति । अभ्यस्तनिमित्ते प्रत्यये परे द्विर्वचनात्प्रागेव ह्वेञः संप्रसारणमिति फलितोऽर्थः । अभ्यस्तमस्यास्तीति अभ्यस्तः = सनादिः, तस्य यो ह्वेञ् = तत्प्रकृतिभूतस्तस्येत्यादिव्याख्यानस्य स्वीकारात् । तेन जिह्वायकमात्मन इच्छति जिह्वायकीषतीत्यत्र ह्वेञः संप्रसारणं न भवति, ण्वुलो द्वित्वनिमित्तत्वाऽभावात् । अत एव णिचो द्वित्वनिमित्तत्वं नेतिह्वः संप्रसारण॑मिति योगविभागः क्रियते । एतच्च आकरे स्पष्टम् ।
Padamanjari¶
संप्रसारणस्य बलीयस्त्वादिति। बलीयस्त्वं च पूर्ववत्। एकयोगेनैव सिद्ध इति। उतरसूत्रे कस्यचिन्निमितस्य सप्तमीनिर्दिष्टस्याभ्यस्तं प्रत्यश्रवणाण्णावपि संश्चङ्परे ह्वेरभ्यस्तकारणस्य सिद्धमेव सम्प्रसारणमिति भावः। अनभ्यस्तनिमितप्रत्ययेनिति। अभ्यस्तस्य यन्निमितं न भवति तेन। व्यवधाने इति। यद्यौतरसूत्रं प्रवर्तेत, तदा योगविबागोऽनर्थकः स्यादिति ज्ञापकत्वम् ॥
Prakriyasarvasvam¶
सन्परे चङ्परे च णौ ह्वेञः प्रसारणं स्यात् । हु अ त् । वृद्धिह्रस्वस्थानि- वत्वद्वित्वादि । अजूहवत् । अस्य काण्यादित्वादुपधाह्रस्वो वेति कौमुदी । अजुहावत् । व्याययति । वाययति । चङि अविव्ययत् । अवीवयत् । पेति पिबतेः पै शोषणे इत्यस्यापि ग्रहात् पाययति क्षीरम्, व्रीहीन् वा ।
Sutra Prayogas¶
तेऽन्योन्यापहवा (भट्टिकाव्यम्): ह्रः संप्रसारणम् इत्यप् संप्रसारणं च।