61033: अभ्यस्तस्य च

Padacheda: अभ्यस्तस्य | S | 6 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

There is vocalisation of the semi-vowel of ह्वा in the reduplicated form, in both the syllables.

Vasu English Translation

There is vocalisation of the semi-vowel of ह्वा in the reduplicated form, in both the syllables. The abhyasta means the reduplicate and the reduplicated, both the syllables. The vocalisation takes place before reduplication. Thus जुहाव, जोहूयते, and जुहुषति ॥ This and the last sutra are one, in the original of Panini, they have been divided into two by the authority of a Vartika.

Bhashya

ह्वः संप्रसारणम्-अभ्यस्तस्य च (2469-70) 6037 योगविभागदर्शकवार्तिकम्॥1॥ ह्वः संप्रसारणे योगविभागः ह्वः संप्रसारणे योगविभागः कर्तव्यः। ह्वः संप्रसारणम् - भवति णौ च संश्चङोः। ततः -अभ्यस्तस्य च । अभ्यस्तस्य च संप्रसारणं भवतीति। किमर्थो योगविभागः? 6038 योगविभागफलबोधकवार्तिकम्॥2॥ णौ च संश्चङ्विषयार्थः णौ च संश्चङिवषये ह्वः संप्रसारणं यथा स्यात्। जुहावयिषति,अजूहवत्। किं पुनः कारणं न सिद्ध्यति? ह्वोऽभ्यस्तस्येत्युच्यते। न चैतद् ह्वोऽभ्यस्तम्। कस्य तर्हि? ह्वाययतेः। ह्व एतदभ्यस्तम्। कथम्? एकाचो द्वे प्रथमस्य (6.1.1) इति। एवं तर्हि ह्वयतेरभ्यस्तस्येत्युच्यते। न चात्र ह्वयतिरभ्यस्तम्। कस्तर्हि? ह्वाययतिः। ह्वयतिरेवात्राभ्यस्तम्। कथम्? एकाचो द्वे प्रथमस्येति। एवमपि- 6039 योगविभागफलोपष्टम्भकवार्तिकम्॥3॥ अभ्यस्तनिमित्तेऽनभ्यस्तप्रसारणार्थमभ्यस्तनिमित्त इति वक्तव्यम्। किं प्रयोजनम्? अनभ्यस्तप्रसारणार्थम्। अनभ्यस्तस्य प्रसारणं यथा स्यात्। जुहूषति,जोहूयते। 6040 आक्षेपवार्तिकम्॥4॥ अभ्यस्तप्रसारणे ह्यभ्यासप्रसारणाप्राप्तिः अभ्यस्तप्रसारणे हि अभ्यासप्रसारणस्याप्राप्तिः स्यात्। न संप्रसारणे संप्रसारणम्(6.1.37) इति प्रतिषेधः प्रसज्येत। नैष दोषः । व्यवहितत्वान्न भविष्यति। 6041 आक्षेपसाधकवार्तिकम्॥5॥ समानाङ्गे प्रसारणप्रतिषेधात् प्रतिषेधः समानाङ्गे प्रसारणप्रतिषेधात्प्रतिषेधः प्राप्नोति। समानाङ्गग्रहणं तत्र चोदयिष्यति। 6042 योगविभागफलोपष्टम्भसंपादकवार्तिकम्॥ 6॥ कृदन्तप्रतिषेधार्थं च कृदन्तप्रतिषेधार्थं चाभ्यस्तनिमित्त इति वक्तव्यम्। किं प्रयोजनम्? ह्वायकमिच्छति ह्वायकीयति,ह्वाकीयतेः सन् जिह्वायकीयिषति। (समाधानपूर्वकसिद्धान्तभाष्यम्) स तर्हि निमित्तशब्द उपादेयः, न ह्यन्तरेण निमित्तशब्दं निमित्तार्थो गम्यते। अन्तरेणापि निमित्तशब्दं निमित्तार्थोऽवगम्यते। तद्यथा - दधित्रपुसं प्रत्यक्षो ज्वरः,ज्वरनिमित्तमिति गम्यते। नड्वलोदकं पादरोगः, पादरोगनिमित्तमिति गम्यते। आयुर्वै घृतम्, आयुषो निमित्तमिति गम्यते। अथवाऽकारो मत्वर्थीयः। अभ्यस्तमस्त्यस्मिन् सोऽयमभ्यस्तः,अभ्यस्तस्येति। अथवाऽभ्यस्तस्येति नैषा ह्वयतिसमानाधिकरणा षष्ठी। का तर्हि? संबन्धषष्ठी । अभ्यस्तस्य यो ह्वयतिः। किं चाभ्यस्तस्य ह्वयतिः। प्रकृतिः। ह्वोऽभ्यस्तस्य प्रकृतेरिति। योगविभागस्तु कर्तव्य एव। नात्र ह्वयतिरभ्यस्तप्रकृतिः। किं तर्हि? ह्वाययतिः।

Kashika

ह्व इति वर्तते, तदभ्यस्तस्य इत्यनेन व्यधिकरणम् — अभ्यस्तस्य यो ह्वयतिः। कश्चाभ्यस्तस्य ह्वयतिः? कारणम्। तेनाभ्यस्तकारणस्य ह्वयतेः प्रागेव द्विर्वचनात् संप्रसारणं भवति। जुहाव। जोहूयते। जुहूषति॥

Siddhanta Kaumudi

अभ्यस्तीभविष्यतो ह्वेञः संप्रसारणं स्यात् । ततो द्वित्वम् । जुहाव । जुहुवतुः । जुहुवुः । जुहोथ । जुहविथ । जुहुवे । ह्वाता । हूयात् । ह्वासीष्ट ॥

Tattvabodhini

अभ्यस्तस्य चेति। पूर्वयोगस्तु `णौ च संश्चङो`र्विषये प्रवर्तते। जुहावयिषति। अजूहवत्। अभ्यस्तीभविष्यतो ह्वेञ इति। अभ्यस्तनिमित्ते प्रत्यये परे द्विर्वचनात्प्रागेव ह्वेञः संप्रसारणमिति फलितोऽर्थः। अभ्यस्तमस्यास्तीति अभ्यस्तः = सनादिः, तस्य यो ह्वेञ् = तत्प्रकृतिभूतस्तस्येत्यादिव्याख्यानस्य स्वीकारात्। तेन जिह्वायकमात्मन इच्छति जिह्वायकीषतीत्यत्र ह्वेञः संप्रसारणं न भवति, ण्वुलो द्वित्वनिमित्तत्वाऽभावात्। अत एव णिचो द्वित्वनिमित्तत्वं नेति `ह्वः संप्रसारण`मिति योगविभागः क्रियते। एतच्च आकरे स्पष्टम्।

Padamanjari

अत्र’ह्वः’ इत्यनुवर्तमानस्य यद्यभ्यस्तर्येत्यनेन सामानाधिकरण्यं स्यात्, तदा कृते द्विर्वचनेऽभ्यस्तसंज्ञायामुपजातायां सम्प्रसारणेन भविथव्यम्, ततश्चाभ्यासस्य सम्प्रसारणं न स्यात्;’न सम्प्रसारणे सम्प्रसारणम्’ इति निषेधात्। आकारहकाराभ्यां व्यवहितत्वादप्रतिषेध इति चेतु? न; समानाङ्गे सम्प्रसारणप्रतिषेधात्। समानाह्गग्रहणं तत्र चोदयिष्यति, न; समानाङ्गे सम्प्रसारणप्रतिषेधात्। समानाङ्गग्रहणं तत्र चोदयिष्यति, एतच्च तत्रैव व्यक्तं व्याख्यास्यते। तमिमं सामानाधिकरण्ये दोषं पश्चन्नाह -तदभ्यस्तस्येत्यनेन व्यधिकरणमिति। एतदेव स्फोरयति -अब्यस्तस्य यो ह्वयतिरिति। तेन किं सिद्धं भवति? इत्याह -तेनेति ॥

Prakriyasarvasvam

अभ्यस्तभाविह्वेञो द्वित्वात् प्राक् प्रसारणं स्यात् । जुहाव । कित्त्वादगुण उवङ् । जुहुवतुः । जुहुविथ, जुहोथ । जुहुव । जुहाव, जुहव । जुहुविव । तङि जुहुवे । जुहुविढ्वे, जुहुविध्वे । आशिषि हूयात् । ह्वासीष्ट । ह्वाता । ह्वास्यति, ह्वास्यते । आहूयते शत्रुः स्वयमेवेति कर्मकर्ताप्यस्तीति माधवः । तत्रापि कर्मवत् । लुङि कर्तृत्वादङप्यस्ति, ‘अचः कर्मकर्तरि’ इति चिण्विकल्पश्चेति भेदः । अह्वायि, अह्वत, अह्वायिष्ट, अह्वास्त । दृओश्वी गतिवृद्धयोः । अयं परस्मैपद्यपि यजादिप्रकरणादिहोक्तः । श्वयति । यकि शूयते । लुङि,

Sutra Prayogas

  • समाजुहावेव (किरातार्जुनीयम्): अभ्यस्तस्य च इति संप्रसारणम्।

  • समाजुहूषमाणः (किरातार्जुनीयम्): अभ्यस्तस्य च इति संप्रसारणम्।

  • जुहुवविरे (शिशुपालवधम्): अभ्यस्तस्य च इति संप्रसारणे द्विर्वचनमुवङादेशश्च।

  • आजुहाव (भट्टिकाव्यम्): अभ्यस्तस्य च इति द्विर्वचनात्।

  • आजुहूषत्तं (भट्टिकाव्यम्): अभ्यस्तस्य च इति अभ्यस्ताकारस्य ह्वयतेः प्रागेव द्विर्वचनात् सम्प्रसारणम्।