61032: ह्वः सम्प्रसारणम् ======================== **Padacheda:** ह्वः | S | 6 | 1 | सम्प्रसारणम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- There is the vocalisation of the semi-vowel of the causative of ह्वे before the Desiderative and the Reduplicated Aorist affixes. Vasu English Translation ------------------------ There is the vocalisation of the semi-vowel of the causative of ह्वे before the Desiderative and the Reduplicated Aorist affixes. The whole of the last *sutra* is to be read into this *sutra*. Thus जुहावयिषति and जुहावयिषतः; जुहावयिषन्ति; अजूहवत्, अजूहवताम् and अजूहवन् ॥ The root ह्वा does not take the augment य required by (7.3.37) before the affix णि, because the *Samprasarana* rule is stronger. The repetition of the word संप्रसारण in this *sutra*, though its *anuvritti* was present, indicates that the force of the word विभाषा has ceased. Though this and the next *sutra* could well have been made one, their separation shows that the *samprasarana* does not take place when another affix, not causing reduplication, intervenes. As ह्वायकमिच्छति = ह्वायकीयति; the Desiderative of this verb is जिह्वायकीयिषति ॥ Bhashya ------- 33- ह्वः संप्रसारणम्-अभ्यस्तस्य च (2469-70) Kashika ------- णौ च संश्चङोरिति वर्तते। सन्परे चङ्परे च णौ परतो ह्वः संप्रसारणं भवति। जुहावयिषति, जुहावयिषतः, जुहावयिषन्ति। अजूहवत्, अजूहवताम्, अजूहवन्। संप्रसारणस्य बलीयस्त्वात् **शाच्छासाह्वाव्यावेपां युक्** (७.३.३७) इति प्रागेव युग् न भवति। संप्रसारणमिति वर्तमाने पुनः संप्रसारणमित्युक्तं विभाषेत्यस्य निवृत्त्यर्थम्। ह्वः संप्रसारणमभ्यस्तस्येत्येकयोगेन सिद्धे पृथग्योगकरणमनभ्यस्तनिमित्तप्रत्ययव्यवधाने संप्रसारणाभावज्ञापनार्थम्। ह्वायकमिच्छति ह्वायकीयति। ह्वायकीयतेः सन् जिह्वायकीयिषति॥ Siddhanta Kaumudi ----------------- सन्परे चङ्परे च णौ ह्वः संप्रसारणं स्यात् । अजूहवत् । अजुहावत् ॥ Balamanorama ------------ **ह्वः सम्प्रसारणमभ्यस्तस्य च** - अभ्यस्त स्य च ।ह्वः संप्रसारण॑मित्यनुवर्तते । 'ह्व' इति कृतात्त्वस्य 'हवे' इत्यस्य षष्ठन्तम् । तथा च अभ्यस्तीभूतस्य ह्वेञः संप्रसारणे कृते पूर्वखण्डस्याऽभ्यासस्यन संप्रसारणे संप्रसारण॑मिति निषेधः स्यादित्यत आह-अभ्यस्तीभविष्यत इति । ननु यद्यभ्यस्तीभविष्यतो ह्वेञः संप्रसारणं तर्हि द्वित्वं बाधित्वा परत्वात्संप्रसारणे सतिविप्रतिषेधे यद्बाधितं तद्बाधित॑मिति न्यायाद्द्वित्वं न स्यादित्यत आह — ततो द्वित्वमिति । संप्रसारणानन्तरं द्वित्वमित्यर्थः, पुनः प्रसङ्गविज्ञानादिति भावः । तथा च णलि आत्त्वे कृते संप्रसारणे पररूपे 'हु' इत्यस्य द्वित्वेकुहोश्चु॑रिति चुत्वे तस्य जश्त्वेअचो ञ्णिती॑ति वृद्धौ अवादेशे परिनिष्ठितं रूपमाह — जुहावेति । जुहुवतुरिति । अतुसि आत्त्वे आल्लोपं बाधित्वा अन्तरङ्गत्वात्अभ्यस्तस्य चे॑त्यनेन संप्रसारणेवार्णादाङ्गं बलीयः॑ इत्यस्याऽनित्यतयाऽन्तरङ्गत्वात्पूर्वरूपे कृते द्वित्वे उवङिति भावः । यद्यपि कितिवचिस्वपी॑ति संप्रसारणेऽपि सिद्धमिदम्, तथापि अकिति आवश्यकमभ्यस्तस्य चेत्येत न्न्याय्यत्वादिहापि भवतीति बोध्यम् । एवं जुहुवुः । भारद्वाजनियमात्थलि वेट् । तदाह — जुहोथ जुहविथेति । जुहुवथुः जुहुव । जुहाव जुहव जुहुविव जुहुविम । क्रादिनियमादिट् । जुहुवे जुहुवाते जुहुविरे । जुहुविषे जुहुवाथे जुहुविढ्वे जुहुविध्वे । जुहुवे जुहुविवहे जुहुविमहे । ह्वातेति । तासि आत्त्वम् । ह्वास्यति ह्वास्यते । ह्वयतु ह्वयताम् । अह्वयत् अह्वयत । ह्वयेत् ह्वयेत । हूयादिति । आशीर्लिङि आत्त्वे यासुटि कित्त्वात्वचिस्वपी॑ति संप्रसारणे पूर्वरूपेअकृत्सार्वधातुकयो॑रिति दीर्घ इति भावः । ह्वासीष्टेति । आशीर्लिङि सीयुटि रूपम् । लुङि विशेषमाह — Tattvabodhini ------------- **ह्वः सम्प्रसारणमभ्यस्तस्य च** - अभ्यस्तस्य चेति । पूर्वयोगस्तुणौ च संश्चङो॑र्विषये प्रवर्तते । जुहावयिषति । अजूहवत् । अभ्यस्तीभविष्यतो ह्वेञ इति । अभ्यस्तनिमित्ते प्रत्यये परे द्विर्वचनात्प्रागेव ह्वेञः संप्रसारणमिति फलितोऽर्थः । अभ्यस्तमस्यास्तीति अभ्यस्तः = सनादिः, तस्य यो ह्वेञ् = तत्प्रकृतिभूतस्तस्येत्यादिव्याख्यानस्य स्वीकारात् । तेन जिह्वायकमात्मन इच्छति जिह्वायकीषतीत्यत्र ह्वेञः संप्रसारणं न भवति, ण्वुलो द्वित्वनिमित्तत्वाऽभावात् । अत एव णिचो द्वित्वनिमित्तत्वं नेतिह्वः संप्रसारण॑मिति योगविभागः क्रियते । एतच्च आकरे स्पष्टम् । Padamanjari ----------- संप्रसारणस्य बलीयस्त्वादिति। बलीयस्त्वं च पूर्ववत्। एकयोगेनैव सिद्ध इति। उतरसूत्रे कस्यचिन्निमितस्य सप्तमीनिर्दिष्टस्याभ्यस्तं प्रत्यश्रवणाण्णावपि संश्चङ्परे ह्वेरभ्यस्तकारणस्य सिद्धमेव सम्प्रसारणमिति भावः। अनभ्यस्तनिमितप्रत्ययेनिति। अभ्यस्तस्य यन्निमितं न भवति तेन। व्यवधाने इति। यद्यौतरसूत्रं प्रवर्तेत, तदा योगविबागोऽनर्थकः स्यादिति ज्ञापकत्वम् ॥ Prakriyasarvasvam ----------------- सन्परे चङ्परे च णौ ह्वेञः प्रसारणं स्यात् । हु अ त् । वृद्धिह्रस्वस्थानि- वत्वद्वित्वादि । अजूहवत् । अस्य काण्यादित्वादुपधाह्रस्वो वेति कौमुदी । अजुहावत् । व्याययति । वाययति । चङि अविव्ययत् । अवीवयत् । पेति पिबतेः पै शोषणे इत्यस्यापि ग्रहात् पाययति क्षीरम्, व्रीहीन् वा । Sutra Prayogas -------------- * **तेऽन्योन्यापहवा** (भट्टिकाव्यम्): `ह्रः संप्रसारणम्` इत्यप् संप्रसारणं च।