61031: णौ च संश्चङोः

Padacheda: णौ | S | 7 | 1 |

च | S | 0 | 0 |

सन्-चङोः | S | 7 | 2 |

Sutrartha


Vasu English Summary

There is optionally the vocalisation of the semi-vowel, in the causative of श्वि , when followed by the Desiderative सन् and the Aorist चङ् affix.

Vasu English Translation

There is optionally the vocalisation of the semi-vowel, in the causative of श्वि , when followed by the Desiderative सन् and the Aorist चङ् affix. The phrase विभाषा श्वेः is understood here. In forming the Desiderative and the Reduplicated Aorist forms of the Causative of श्वि, there is optional vocalisation. Thus शुशावयिषति or शिश्वाययिषति ॥ So also in the Reduplicated Aorist चङ्, as अशृशवत् or अशिश्वयत् ॥ By the maxim संप्रसारणं संप्रसारणाश्रयं च बलीयो भवति (see sutra (6.1.17)), the antaranga substitution of Vriddhi &c is superseded by the samprasarana and the subsidiary operations relating to it here. The vriddhi and the substitution of आव take place after the samprasarana has taken place. The sutra (7.4.80) teaching the substitution of ई for the उ of the reduplicate, when सन् follows, shows by implication that the substitution caused by णि is sthanivat though it itself does not cause reduplication (1.1.59). Thus श्वि + णि = श्वै + इ = श्वाय् + इ = श्वायि ॥ In reduplicating श्वायि we cannot form श्वाश्वाय, but must consider the substitute equal to the original इ of श्वि and must reduplicate it. We thus get शिश्वाययिषति ॥ In the case of vocalisation, the rules of Vriddhi &c are postponed. Thus श्वि + णि + सन् (6.1.108) = शु + णि + सन् = शौ + इ + सन् = शाव् + इ + इट् + सन् = शावे + इट् + सन् = शावयि + सन् ॥ Here we require reduplication. Here the substitute आव् in शाव् though not caused by सन्, is treated sthanivat under (1.1.59) to उ, which is carried in reduplication. Similarly the Aorist. श्वि + णि + चङ् = शु + इ + अ = शु + शु + इ + अ = शु + शौ + इ + अ = शु + शाव् + इ + अ = शु + शव् + इ + अ (7.4.1) = शु + शव् + ० + अ (6.4.51) = अशूशवत् (7.4.94)

Kashika

विभाषा श्वेरिति वर्तते। सन्परे चङ्परे च णौ परतः श्वयतेर्धातोर्विभाषा संप्रसारणं भवति। शुशावयिषति, शिश्वाययिषति। चङि — अशूशवत्, अशिश्वयत्। संप्रसारणं संप्रसारणाश्रयं च बलीयो भवति इति वचनादन्तरङ्गमपि वृद्ध्यादिकं संप्रसारणेन बाध्यते। कृते तु संप्रसारणे वृद्धिरावादेशश्च। तत ओः पुयण्ज्यपरे (७.४.८०) इत्येतद् वचनं ज्ञापकं णौ कृतस्थानिवद्भावस्येति स्थानिवद्भावात् शुशब्दो द्विरुच्यते॥

Siddhanta Kaumudi

सन्परे चङ्परे च णौ श्वयतेः संप्रसारणं वा स्यात् । [(परिभाषा - ) संप्रसारणं तदाश्रयं च कार्यं बलवद्] इति वचनात् संप्रसारणं पूर्वरूपम् । अशूशवत् । अलघुत्वान्न दीर्घः । अशिश्वयत् ॥

Balamanorama

णौ च संश्चङोः - णौ च संश्चङोः । ‘विभाषा ओ’ रिति सूत्रमनुवर्तते ।ष्यङ संप्रसारण॑मिति चातदाह — सन्तपर इत्यादिना । नन्वन्तरङ्गत्वात्संप्रसारणात्पूर्वं वृद्ध्यायादेशयोः कृतयोः पश्चात्संप्रसारणे पूर्वरूपे अशीशवदिति स्यात्, अशूशवदिति न स्यादित्यत आह — संप्रसारण तदाश्रयं चेति । इदं वचनंलिटभ्यासस्ये॑ति सूत्रभाष्ये स्थितम् । एवं च अइआ इ अत् इत्यत्र वृद्ध्यायादेशाभ्यां प्रागेव वकारस्य संप्रसारणमुकार इति फलितम् । पूर्वरूपमिति । ततश्च शु इत्यस्य द्वित्वे उत्तरखण्डस्य णिचमाश्रित्य वृद्ध्यावादेशयोरुपधाह्रस्वे सन्वत्त्वविषयत्वादभ्यासदीर्घे फलितमाह — अशूशवदिति । संप्रसारणाऽभावपक्षे अशिआयदित्यत्र अभ्यास्दीर्घमाशङ्क्य आह — अलघुत्वादिति । संयोगापरकत्वादिति भावः । अवपूर्वात्स्तम्भेण्र्यन्तादवष्टम्भयतीत्यादि ।अवाच्चालम्बनादविदूर्ययो॑रिति षत्वम् । चङि अवातस्तम्भदित्यत्र षत्वे प्राप्ते —

Tattvabodhini

णौ च संश्चङोः - णौ च ।विभाषा ओ॑रित्यनुवर्तते ।संश्चङो॑रिति णावित्यस्य विशेषणं ।ह्वः संप्रसारण॑मित्यतः संप्रसारणमित्यनुवर्तत एवेत्याह — सन्परे चङ्परे इति । वचनादिति । इयं च परिभाषालिटभ्यासस्योभयेषा॑मित्यत्र वच्यादीनां ग्रह्रादीनामनुवृत्त्यैवेष्टसिद्धावुभयेषांग्रहणसामर्थ्याल्लभ्यते । अन्यथा वव्रश्चेत्यत्र हलादिःशेषे कृते वस्य संप्रसारणं स्यादित्याहुः । स्तन्भुसिव ।

Padamanjari

‘णौ’ इतिक श्वयत्यपेक्षया परस्प्तमी,’संश्चङेः’ इति ण्यपेक्षया। तदाह - सन्परे चङ्परे च णौ परत इति। अन्तरङ्गमपीति। अन्तरङ्गत्वं तु णिज्मात्रापेक्षत्वात्। वृद्ध्यादिकमिति। आदिशब्देनायादेशो गृह्यते, यदा तु’संप्रसारणं संप्रसारणाश्रयं च कार्यं बलीयः’ इति परिभाषा प्रयोजनाबावात्प्रत्याख्याता, तदा’णौ च संख्चङेर्विषयभूतयोः’ इति। ओः पुयण्जीत्यादि। यथा चैतज्ज्ञापकं तथा’द्विर्वचने’ चिऽ इत्यत्र प्रतिपादितम्। अत्र स्थानिवद्भावादित्यतः पूर्वम्’द्वितीयो’ पिऽ इतिशब्दः पाठयः।’तेन’ इति वा पठितव्यम् ॥

Nyaas

णौ च संश्चङोः इति भिन्नाधिकरणे सप्तम्यौ - संश्चङोः परतो यो णिस्तस्मण्णौ परतो यः आयतिरिति। शुशावयिषति इति। आयतेर्णिच्, सन्, सम्प्रसारणम्, वृद्धिरावादेशः शु इत्येतस्य द्विर्वचनम्। अशूशवत् इति। लुङ्, च्लेश्चङ्, सम्प्रसारणादिकम्, पूर्ववण्णिलोपः, णौ चङि (7.4.1) इति ह्रस्वः, द्विर्वचनम्, दीर्घो लघोः (7.4.94) इति दीर्घः। ननु च आयतेर्णिचि तदन्ताच्च सनि कृते चङि चान्तरङ्गत्वात्? पूर्ववृद्ध्यायादेशाब्यां भवितव्यम्, ततः सम्प्रसारणेन। तथा च सति शुशुययिषतीति सन्परे णौ भवितव्यम्, चङ्परे तु - अशूशुयदिति, तत्? कथं शुशावयिषति, अशूशवदिति चोदाहृतम्? इत्याह - सम्प्रसारणम् इत्यादि। आदिशब्देनायावेशः परिगृह्रते। सम्प्रसारणाश्रयं पुनरत्र सम्प्रसारणाच्च (6.1.108) इति परपूर्वत्वम्। तेनापि वृद्ध्यादिकं बाध्यते इति। नन्वेवमपि वृद्ध्यावादेशयोः कृतयोः शावित्यस्य द्विर्वचनं प्राप्नोति न केनचित्? णौ स्थानिवद्भावो विहितः? इत्यत आह - ओः पुयण्ज्यपरे इत्यादि। यत्र चैतज्ज्ञापकं तथा तस्यैव वृत्तावुपपादयिष्यामः॥

Prakriyasarvasvam

सन्परे चङ्परे च णौ श्वयतेः प्रसारणं वा स्यात् । संप्रसारणं तदाश्रितं च कार्यं बलवत्’ (वा०) इति प्रसारणे पूर्वरूपत्वे च कृत एव वृद्धयुपधाह्रस्वस्थानि- वत्त्वद्विरुक्त्यादि । शुशवत् । अभ्यासदार्घः । अशूशवत् । अन्यत्र श्विशब्दस्य वृद्धिह्रस्वयोः कृतयोः स्थानिवत्त्वाद् द्वित्वम् । हलादिशेषः । शिश्वयत् । अभ्यास्यालघुत्वान्न दीर्घः । अशिश्वयत् । स्तम्भयति । अतस्तम्भत् ।

Sutra Prayogas

  • अध्यापिपद् (भट्टिकाव्यम्): णौ च संश्चङोः इति गाङभावपक्षे रूपम्।