61024: द्रवमूर्तिस्पर्शयोः श्यः

Padacheda: द्रवमूर्ति-स्पर्शयोः | S | 7 | 2 |

श्यः | S | 6 | 1 |

Sutrartha


Vasu English Summary

There is vocalisation of the semi-vowel of the root श्या (श्यै) ‘to go’ when the निष्ठा affix follows, when the sense is ‘coagulation’ or ‘cold to touch’.

Vasu English Translation

There is vocalisation of the semi-vowel of the root श्या (श्यै) ‘to go’ when the निष्ठा affix follows, when the sense is ‘coagulation’ or ‘cold to touch’. The word द्रवमूर्त्ति means hardening of a fluid, by coagulation &c. Thus शीनं घृतं, शीना वसा, शीनं मेदः “a coagulated butter, grease &c”. The त of nishtha is changed to न by (8.2.47). But when the sense is that of ‘cold’, the त is not changed; as शीतं वर्त्तते, शीतो वायुः, शीतमुदकम् ॥ The word शीत is here used both as a noun meaning ‘cold weather &c’, and an adjective denoting ‘cold’. There is no vocalisation when the sense is not that of ‘coagulation’ or ‘cold’, as संश्यानो वृश्चिकः ‘the rolled up scorpion’. The short इ is lengthened in शीन &c, by (6.4.2).

Kashika

द्रवमूर्तौ द्रवकाठिन्ये, स्पर्शे च वर्तमानस्य श्यैङ् गतौ इत्यस्य धातोर्निष्ठायां परतः संप्रसारणं भवति। शीनं घृतम्। शीना वसा। शीनं मेदः। द्रवावस्थायाः काठिन्यं गतमित्यर्थः। श्योऽस्पर्शे (८.२.४७) इति निष्ठानत्वम्। स्पर्शे — शीतं वर्तते। शीतो वायुः। शीतमुदकम्। गुणमात्रे तद्वति चास्य शीतशब्दस्य वृत्तिर्द्रष्टव्या। द्रवमूर्तिस्पर्शयोरिति किम् ? संश्यानो वृश्चिकः॥

Siddhanta Kaumudi

द्रवस्य मूर्तौ काठिन्ये स्पर्शे चार्थे श्यैङः संप्रसारणं स्यान्निष्ठायाम् ॥

Balamanorama

द्रवमूर्तिस्पर्शयोः श्यः - द्रवमूर्ति । ‘श्यैङ् गतौ’ इत्यस्य कृतात्वस्य ‘श्य’ इति षष्ठी । द्रवमूर्तिश्च, स्पर्शश्चेति विग्रहः । मूर्तावित्यस्य विवरणं — काठिन्ये इति । संप्रसारणं स्यादिति ।ष्यङः संप्रसारण॑मित्यतस्तदनुवृत्तेरिति भावः । तथा च श्यैङः क्ते आत्त्वे संप्रसारमे पूर्वरूपे शि त इति स्थिते —

Padamanjari

द्रवकाठिन्य इति। द्रवावस्ताया उतरावस्थाविशेषःउकाठिन्यम्। स्पर्शे चेति। रूपादिसहचरितो गुणःउस्पशः। शीतो वायुरिति। कथं पुनः स्पर्समात्राभिधायिनःक शीतशब्दस्य तद्वद्द्रव्यवाचिना वायुशब्देन सामानाधिकरण्यम् ? तत्राह -गुणामात्र इत्यादि। शुक्लादिशब्दवदिति भावः ॥

Nyaas

द्रवमूर्त्तौ द्रवकाठिन्ये इति। अनेन द्रवमूर्त्तिशब्दस्यार्थमाचष्टे। द्रवावस्थाया उत्तरोऽवस्थाविशेषः काठिन्याख्योऽत्र द्रवमूर्त्तिशब्देनोच्यते। स्पर्शे च इति। रूपादिसहचरितो गुणः स्पर्श इत्युच्यते। शीतमुदकम् इति। कथं पुनरत्र सामानाधिकरण्यम्, यावता शीतशब्देन गुणविशेषोऽभिधीयते। वाय्वादिशब्देन तु द्रव्यविशेष इत्यत आह -गुणमात्रे इत्यादि। यथा -शुक्लादिशब्दा कदाचिद्गुणमात्रे वर्तन्ते, यता -पटस्य शुक्ल इति; कदाचित्तु तद्वति द्रव्ये सोऽयमित्यभेदसम्बन्धतद्वान्मतुब्लोपान्मत्वर्थीयाकारप्रत्ययान्तत्वाद्वा शुक्लः पट इति, तथा शीतशब्दोऽपि। तेन यदा तद्वति द्रव्ये वर्तते, तदोभयोरेकद्रव्ये निवेशितत्वादुपपद्यते सामानाधिकरण्यमिति भावः। संश्यानः इति। संयोगादेः (8.2.43) इत्यादिना नत्वम्॥