61025: प्रतेश्च¶
Padacheda: प्रतेः | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
There is vocalisation of श्या preceded by the उपसर्ग प्रति , when the निष्ठा affixes follow.
Vasu English Translation¶
There is vocalisation of श्या preceded by the उपसर्ग प्रति , when the निष्ठा affixes follow. Thus प्रतिशीनः प्रतिशीनवान् ॥ This sutra applies to cases where the words need not have the meaning of “coagulation” or “cold”.
Kashika¶
श्य इति वर्तते। प्रतेरुत्तरस्य श्यायतेर्निष्ठायां परतः संप्रसारणं भवति। प्रतिशीनः। प्रतिशीनवान्। द्रवमूर्तिस्पर्शाभ्यामन्यत्रापि यथा स्यादिति सूत्रारम्भः॥
Siddhanta Kaumudi¶
प्रतिपूर्वस्य श्यः संप्रसारणं स्यान्निष्ठायाम् । प्रतिशीनः ॥
Balamanorama¶
प्रतेश्च - प्रतेश्च । द्रवमूर्तिस्पर्शाभ्यामन्यत्रापि संप्रसारणप्राप्त्यर्थमिदम् । प्रतिशीन इति । प्रतिगत इत्यर्थः । अत्र ‘श्योऽस्पर्शे’ इति नत्वम् ।
Padamanjari¶
सेयमुभयत्र विभाषेति। द्रवमूर्तिविषये पूर्वेण प्राप्तेऽन्यत्राप्राप्ते। अथ पूर्वग्रहणं किमर्थम्, न’विभाषाब्यवाभ्याम्’ इत्येवोच्येत, तत्राहपूर्वग्रहणस्येत्यादि। क्रियमाणेऽपि पूर्वग्रहणे कस्मादेवात्र न भवति? इत्याह -न किलेति। किलशब्दसूचितामरुचि दर्शयति-योऽत्रेति। मा भून्महासमुदायोऽभ्यवपूर्वः, अवान्तरसमुदायस्त्वभ्यवपूर्वोऽप्यस्ति, तदाश्रयो विकल्पः प्राप्नोति। यत्नान्तरमास्थेयमिति। विभाषाग्रहणं व्यवस्थितविभाषार्थमाश्रयणीयमित्यर्थः। पूर्वग्रहणस्य चान्यत्प्रयोजनं वक्तव्यमिति। तत्पुनरभिसंशीनम्, अभिसंश्यानम्, अवसंशीनम्, अवसंश्यानमित्यत्रापि विकल्पप्रवृत्तिरेव। तच्च पूर्वग्रहणे क्रियमाणे यथा लभ्यते तथा’स्त्यः प्रपूर्वस्य’ इत्यत्र व्याख्यातम् ॥
Prakriyasarvasvam¶
प्रतिश्यैङः काठिन्यस्पर्शाभ्यामन्यत्रापि प्रसारणं स्यात् । अस्पर्शार्थत्वान्नत्वम् । प्रतिश्यायरोगवान् प्रतिशीनः ॥