61023: स्त्यः प्रपूर्वस्य

Padacheda: स्त्यः | S | 6 | 1 |

प्र-पूर्वस्य | S | 6 | 1 |

Sutrartha


Vasu English Summary

The verb स्त्या (स्त्यै and ष्ठ्यै) when preceded by प्र changes its semi-vowel to a vowel, when a निष्ठ affix follows.

Vasu English Translation

The verb स्त्या (स्त्यै and ष्ठ्यै) when preceded by प्र changes its semi-vowel to a vowel, when a निष्ठ affix follows. The phrases “when the nishtha follows”, and “there is vocalisation” are understood here. The anuvritti of स्फी does not run here. The roots स्त्यै and ष्ठ्यै both assume the form स्त्या and are included here. Thus प्र + स्त्या + क्त = प्र + स्ति + त (6.1.108) = प्रस्तीतः (6.4.2), and प्रस्तीतवान् ॥ The त of nishtha affix would have been changed into न् by (8.2.43) in as much as the root स्त्या has a semivowel and ends in long आ ॥ But by the vocalisation of य, the condition of यण्वत् for the application of (8.2.43), no longer existing, the affix त is not changed to न ॥ But त is optionally changed to म by (8.2.54) as प्रस्तीमः and प्रस्तीमवान् ॥

Why do we say “when preceded by प्र?” Observe संस्त्यानः (8.2.43), संस्त्यानवान् ॥ If it was intended that vocalisation should take place when प्र singly stood before, then the sutra could well have run thus प्रस्त्यः ॥ The use of the word पुर्वस्य implies that the rule applies when प्र stands first, though other upasargas may intervene between it and the root. Thus प्रसंस्तीतः, प्रसंस्तीतवान् ॥ The compound प्रपूर्वस्य should be explained as a Bahuvrihi*= प्रः पूर्वो यस्य धातूपसर्गसमुदायस्य स प्रपूर्व (that which consisting of root and *upasarga is preceded by प्र is called प्रपूर्व). Therefore the rule is made applicable to प्रसंस्तीतः &c.

Kashika

निष्ठायामिति वर्तते संप्रसारणमिति च । स्फी इत्येतद् न स्वर्यते। स्त्यै ष्ट्यै शब्दसंघातयोः द्वयोरप्येतयोर्धात्वोः स्त्यारूपमापन्नयोः सामान्येन ग्रहणम्। स्त्या इत्येतस्य प्रपूर्वस्य धातोर्निष्ठायां परतः संप्रसारणं भवति। प्रस्तीतः। प्रस्तीतवान्। संप्रसारणे कृते यण्वत्त्वं विहतमिति निष्ठानत्वं न भवति। ‘प्रस्त्योऽन्यतरस्याम् (८.२.५४) इति तु पक्षे मकारः क्रियते। प्रस्तीमः। प्रस्तीमवान्। प्रपूर्वस्येति किम् ? संस्त्यानः। संस्त्यानवान्। प्रस्त्य इत्येव सिद्धे पूर्वग्रहणमिहापि यथा स्यात् — प्रसंस्तीतः। प्रसंस्तीतवान्। तत्कथम् ? प्रपूर्वस्येति षष्ठ्यर्थे बहुव्रीहिः। प्रः पूर्वो यस्य धातूपसर्गसमुदायस्य स प्रपूर्वः, तदवयवस्य स्त्य इति व्यधिकरणे षष्ठ्यौ। तत्र प्रसंस्तीत इत्यत्रापि प्रपूर्वसमुदायावयवः स्त्याशब्दो भवति॥

Siddhanta Kaumudi

प्रात् स्त्यः संप्रसारणं स्यान्निष्ठायाम् ॥

Balamanorama

स्त्यः प्रपूर्वस्य - स्त्यः प्रपूर्वस्य ।स्त्यै॑इत्यस्य कृताऽऽत्वस्य ‘स्त्य’ इति षष्ठन्तम् ।ष्यङः संप्रसारण॑मित्यतः संप्रसारणमिति,स्फाय स्फी॑त्यतो निष्ठायामिति चानुवर्तते । तदाह — प्रादित्यादि । संप्रसारणे पूर्वरूपे ‘हलः’ इति दीर्घे प्रस्ती- त इति स्थिते —

Padamanjari

द्वयोरप्येतयोरिति। द्वयोरपि स्यारुपस्य लाक्षणिकत्वात्। सम्प्रसारणे कृते इति। तस्यासिद्धत्वात्प्रागेव सम्प्रसारणम् । प्रस्त्य इत्येव सिद्ध इति। यथा’प्रस्त्यो’ न्यतरस्याम्ऽ इत्यत्र। न चैवमुच्यमाने प्रशब्दस्यापि यो रेफस्तस्यापि प्रसङ्गः; धातोरित्यधिकारात्। प्रसंस्तीत इति।’प्रस्त्यो’ न्यतरस्याम्ऽ इति मत्वमत्र न भवत्येव। तत्कथमिति। कथमयमर्थः शब्देनाभिहितो भवतीति प्रश्नः। षठ।ल्र्थे बहुव्रीहिरिति। पूर्वशब्दस्यावयववाचित्वात्, यथा -पूर्वं कायस्येति। व्यधिकरणे षष्ट।लविति। प्रपूर्वस्येति स्त्याशब्दापेक्षयावयवष्ष्ठी, स्त्य इत्येषापि यणवयवापेक्ष्या षष्ठी। यथा पुनरयमर्थःक प्रकृतोपयोगी तथा दर्शयति -तत्रेति ॥

Nyaas

सामान्येन ग्रहणम् ति। द्वयोरप्यात्त्वे कृते पूर्वस्य धात्वादेः षः सः (6.1.62) इति सत्वे समानत्वाद्रूपस्य। लक्षणप्रतिपदोक्तपरिभाषा (व्या।प।3) च नेहोपतदिष्ठते; उभयोलक्षिणिकत्वात्। अथात्र -**संयोगादेरातो धातोर्यण्वतः** (8.2.43) इति निष्ठानत्वं कस्मान्न भवति? इत्यत आह -`सम्प्रसारणे इत्यादि। न त्वस्य पूर्वत्रासिद्धत्वात्? पूर्वं सम्प्रसारणं क्रियत इति, तत्र कृते च यण्वत्ता नास्तीति नत्वं न भवति। प्रस्त्य इत्येवं सिद्धे इति। ननु चैवमुच्यमाने प्रशब्दस्यापि सम्प्रसारणं स्यात्, ततश्च प्रस्तीत इति रूपं स्यात्, तत्? किमुच्यते -प्रस्त्य इत्येवं सिद्ध इति? अनन्त्यविकारेऽन्त्यसदेशस्य (व्या।प।63) इति न भवत्येष दोष इति मन्यते। इहापि यथा स्यात् इति। कस्मात्? पुनर्न प्राप्नोति? संशब्देन व्यवहितत्वात्। किं पूर्वग्रहणे क्रियमाणे शब्दार्थं एव तथाविदो भवति येनात्रापि भवति? अथ ग्रन्थाधिक्यादर्थाधिक्यं सूचयतीत्याभिप्रायेणाह -तत्? कथम् इति। प्रथमकल्पं दर्शन्नाह -प्रपूर्वस्य इति। षष्ठर्थे बहुव्रीहिः इति। पूर्वशब्दोऽयमवयववचन इति षष्ठर्थे बहुव्रीहिर्भवति। अवयववाचिनि पूर्वशब्दे धातुरन्यपदार्थो नोपपद्यते। न हि धातोः प्रशब्दोऽयमवयवो भवति, अपि तु धातूपसर्गसमुदायस्य। तस्मात्? स एवान्यपदार्थो युक्त इत्याह -प्रः पूर्वो यस्य इत्यादि। तदवयवस्य इति। तस्यावयवस्तदवयव इति षष्ठीसमासः। तच्छब्देन धातूपसर्गसमुदायः परामृश्यते। व्यधिकरणषष्ठ्यौ इति। प्रपूर्वस्य इति। स्त्यावयवापेक्षया योऽयमवयवावयविसम्बन्धस्तत्र षष्ठी, स्त्यः इत्येषा तु यणवयवापेक्षया यः सम्बन्धस्तत्र। तेन भिन्नाभिदेयत्वात्? सत्यः, प्रवूर्वस्य इति व्यधिकरणे षष्ठ्यौ। स्यादेवम्, प्रसंस्तीत इत्यत्र प्रपूर्वसमुदायावयवः स्त्याशब्दो न सम्भवति इत्यत आह -तत्र इत्यादि॥