61024: द्रवमूर्तिस्पर्शयोः श्यः =============================== **Padacheda:** द्रवमूर्ति-स्पर्शयोः | S | 7 | 2 | श्यः | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- There is vocalisation of the semi-vowel of the root श्या (श्यै) 'to go' when the निष्ठा affix follows, when the sense is 'coagulation' or 'cold to touch'. Vasu English Translation ------------------------ There is vocalisation of the semi-vowel of the root श्या (श्यै) 'to go' when the निष्ठा affix follows, when the sense is 'coagulation' or 'cold to touch'. The word द्रवमूर्त्ति means hardening of a fluid, by coagulation &c. Thus शीनं घृतं, शीना वसा, शीनं मेदः "a coagulated butter, grease &c". The त of *nishtha* is changed to न by (8.2.47). But when the sense is that of 'cold', the त is not changed; as शीतं वर्त्तते, शीतो वायुः, शीतमुदकम् ॥ The word शीत is here used both as a noun meaning 'cold weather &c', and an adjective denoting 'cold'. There is no vocalisation when the sense is not that of 'coagulation' or 'cold', as संश्यानो वृश्चिकः 'the rolled up scorpion'. The short इ is lengthened in शीन &c, by (6.4.2). Kashika ------- द्रवमूर्तौ द्रवकाठिन्ये, स्पर्शे च वर्तमानस्य **श्यैङ् गतौ** इत्यस्य धातोर्निष्ठायां परतः संप्रसारणं भवति। शीनं घृतम्। शीना वसा। शीनं मेदः। द्रवावस्थायाः काठिन्यं गतमित्यर्थः। **श्योऽस्पर्शे** (८.२.४७) इति निष्ठानत्वम्। स्पर्शे — शीतं वर्तते। शीतो वायुः। शीतमुदकम्। गुणमात्रे तद्वति चास्य शीतशब्दस्य वृत्तिर्द्रष्टव्या। द्रवमूर्तिस्पर्शयोरिति किम् ? संश्यानो वृश्चिकः॥ Siddhanta Kaumudi ----------------- द्रवस्य मूर्तौ काठिन्ये स्पर्शे चार्थे श्यैङः संप्रसारणं स्यान्निष्ठायाम् ॥ Balamanorama ------------ **द्रवमूर्तिस्पर्शयोः श्यः** - द्रवमूर्ति । 'श्यैङ् गतौ' इत्यस्य कृतात्वस्य 'श्य' इति षष्ठी । द्रवमूर्तिश्च, स्पर्शश्चेति विग्रहः । मूर्तावित्यस्य विवरणं — काठिन्ये इति । संप्रसारणं स्यादिति ।ष्यङः संप्रसारण॑मित्यतस्तदनुवृत्तेरिति भावः । तथा च श्यैङः क्ते आत्त्वे संप्रसारमे पूर्वरूपे शि त इति स्थिते — Padamanjari ----------- द्रवकाठिन्य इति। द्रवावस्ताया उतरावस्थाविशेषःउकाठिन्यम्। स्पर्शे चेति। रूपादिसहचरितो गुणःउस्पशः। शीतो वायुरिति। कथं पुनः स्पर्समात्राभिधायिनःक शीतशब्दस्य तद्वद्द्रव्यवाचिना वायुशब्देन सामानाधिकरण्यम् ? तत्राह -गुणामात्र इत्यादि। शुक्लादिशब्दवदिति भावः ॥ Nyaas ----- `द्रवमूर्त्तौ द्रवकाठिन्ये` इति। अनेन द्रवमूर्त्तिशब्दस्यार्थमाचष्टे। द्रवावस्थाया उत्तरोऽवस्थाविशेषः काठिन्याख्योऽत्र द्रवमूर्त्तिशब्देनोच्यते। `स्पर्शे च` इति। रूपादिसहचरितो गुणः स्पर्श इत्युच्यते। `शीतमुदकम्` इति। कथं पुनरत्र सामानाधिकरण्यम्, यावता शीतशब्देन गुणविशेषोऽभिधीयते। वाय्वादिशब्देन तु द्रव्यविशेष इत्यत आह -`गुणमात्रे` इत्यादि। यथा -शुक्लादिशब्दा कदाचिद्गुणमात्रे वर्तन्ते, यता -पटस्य शुक्ल इति; कदाचित्तु तद्वति द्रव्ये सोऽयमित्यभेदसम्बन्धतद्वान्मतुब्लोपान्मत्वर्थीयाकारप्रत्ययान्तत्वाद्वा शुक्लः पट इति, तथा शीतशब्दोऽपि। तेन यदा तद्वति द्रव्ये वर्तते, तदोभयोरेकद्रव्ये निवेशितत्वादुपपद्यते सामानाधिकरण्यमिति भावः। `संश्यानः` इति। `संयोगादेः` (8.2.43) इत्यादिना नत्वम्॥