61022: स्फायः स्फी निष्ठायाम्

Padacheda: स्फायः | S | 6 | 1 |

स्फी | S | | | 1

निष्ठायाम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

The स्फी is the substitute of स्फाय ‘to swell’, the निष्ठा affixes follow.

Vasu English Translation

The स्फी is the substitute of स्फाय ‘to swell’, the निष्ठा affixes follow. Thus स्फीतः, स्फीतवान् ॥ Why do we say “when the Nishtha affixes follow”? Observe स्फातिः formed by क्तिन् ॥ In the phrase स्फाती भवति, the word स्फाती is the feminine of the word स्फाति formed by क्तिन् ॥ The phrase निष्ठायाम् “when the Nishtha follows” governs all the subsequent sutras up to (6.1.29).

Kashika

स्फायी ओप्यायी वृद्धौ इत्यस्य धातोर्निष्ठायां परतः स्फीत्ययमादेशो भवति। स्फीतः। स्फीतवान्। निष्ठायामिति किम् ? स्फातिः। स्फातीभवतीत्येतदपि क्तिन्नन्तस्यैव रूपम्, न निष्ठान्तस्य। निष्ठायामित्येतदधिक्रियते लिड्यङोश्च (६.१.२९) इति प्रागेतस्मात् सूत्रात्॥

Siddhanta Kaumudi

स्फीतः ॥

Balamanorama

स्फायः स्फी निष्ठायाम् - स्फायः स्फी । ‘स्फायी वृद्धौ’ अस्य स्फीभावः स्यान्निष्ठायां परत इत्यर्थः ।

Tattvabodhini

स्फायः स्फी निष्ठायाम् - स्फायः स्फी । स्फायी वृद्धौ । कथं तर्हि स्फीतिकाम इति । स्फीतमाष्टे इति ण्यन्तादच इः, अल्लोपणिलोपौ ।

Nyaas

स्फातिः इति। स्त्रियां क्तिन् (3.3.94) वलि (6.1.64) यलोपः। स्फातीभवति इति। स्फायतेर्निष्ठान्ताच्चवौ कृते अस्य च्वौ (7.4.32) इतीत्वे सतीदं रूपं भवतीति मन्यमानो यश्चोदयेत् - अथ कथं स्फातीभवतीत्येतद्रूपम्, यावताऽत्रापि निष्ठायामस्मिन्नादेशे स्फीतिभवतीत्येवं भवितव्यमिति? तं प्रत्याह - `स्फातीभवतीत्येतदपि इत्यादि। एतदपि स्फातिशब्दात्? क्तिन्नन्ताच्च्वौ कृते च्वौ च (7.4.26) इति दीर्घत्वे च क्तिन्नन्तस्यैव रूपम्। अतो न भवत्येष दोषप्रसङ्गः॥

Prakriyasarvasvam

स्फीतम् । वेति कौमुदी । स्फातम् ॥