61023: स्त्यः प्रपूर्वस्य ========================= **Padacheda:** स्त्यः | S | 6 | 1 | प्र-पूर्वस्य | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The verb स्त्या (स्त्यै and ष्ठ्यै) when preceded by प्र changes its semi-vowel to a vowel, when a निष्ठ affix follows. Vasu English Translation ------------------------ The verb स्त्या (स्त्यै and ष्ठ्यै) when preceded by प्र changes its semi-vowel to a vowel, when a निष्ठ affix follows. The phrases "when the *nishtha* follows", and "there is vocalisation" are understood here. The *anuvritti* of स्फी does not run here. The roots स्त्यै and ष्ठ्यै both assume the form स्त्या and are included here. Thus प्र + स्त्या + क्त = प्र + स्ति + त (6.1.108) = प्रस्तीतः (6.4.2), and प्रस्तीतवान् ॥ The त of *nishtha* affix would have been changed into न् by (8.2.43) in as much as the root स्त्या has a semivowel and ends in long आ ॥ But by the vocalisation of य, the condition of यण्वत् for the application of (8.2.43), no longer existing, the affix त is not changed to न ॥ But त is optionally changed to म by (8.2.54) as प्रस्तीमः and प्रस्तीमवान् ॥ Why do we say "when preceded by प्र?" Observe संस्त्यानः (8.2.43), संस्त्यानवान् ॥ If it was intended that vocalisation should take place when प्र singly stood before, then the *sutra* could well have run thus प्रस्त्यः ॥ The use of the word पुर्वस्य implies that the rule applies when प्र stands first, though other *upasargas* may intervene between it and the root. Thus प्रसंस्तीतः, प्रसंस्तीतवान् ॥ The compound प्रपूर्वस्य should be explained as a *Bahuvrihi*= प्रः पूर्वो यस्य धातूपसर्गसमुदायस्य स प्रपूर्व (that which consisting of root and *upasarga* is preceded by प्र is called प्रपूर्व). Therefore the rule is made applicable to प्रसंस्तीतः &c. Kashika ------- निष्ठायामिति वर्तते संप्रसारणमिति च । स्फी इत्येतद् न स्वर्यते। **स्त्यै ष्ट्यै शब्दसंघातयोः** द्वयोरप्येतयोर्धात्वोः स्त्यारूपमापन्नयोः सामान्येन ग्रहणम्। स्त्या इत्येतस्य प्रपूर्वस्य धातोर्निष्ठायां परतः संप्रसारणं भवति। प्रस्तीतः। प्रस्तीतवान्। संप्रसारणे कृते यण्वत्त्वं विहतमिति निष्ठानत्वं न भवति। ‘प्रस्त्योऽन्यतरस्याम् (८.२.५४) इति तु पक्षे मकारः क्रियते। प्रस्तीमः। प्रस्तीमवान्। प्रपूर्वस्येति किम् ? संस्त्यानः। संस्त्यानवान्। प्रस्त्य इत्येव सिद्धे पूर्वग्रहणमिहापि यथा स्यात् — प्रसंस्तीतः। प्रसंस्तीतवान्। तत्कथम् ? प्रपूर्वस्येति षष्ठ्यर्थे बहुव्रीहिः। प्रः पूर्वो यस्य धातूपसर्गसमुदायस्य स प्रपूर्वः, तदवयवस्य स्त्य इति व्यधिकरणे षष्ठ्यौ। तत्र प्रसंस्तीत इत्यत्रापि प्रपूर्वसमुदायावयवः स्त्याशब्दो भवति॥ Siddhanta Kaumudi ----------------- प्रात् स्त्यः संप्रसारणं स्यान्निष्ठायाम् ॥ Balamanorama ------------ **स्त्यः प्रपूर्वस्य** - स्त्यः प्रपूर्वस्य ।स्त्यै॑इत्यस्य कृताऽऽत्वस्य 'स्त्य' इति षष्ठन्तम् ।ष्यङः संप्रसारण॑मित्यतः संप्रसारणमिति,स्फाय स्फी॑त्यतो निष्ठायामिति चानुवर्तते । तदाह — प्रादित्यादि । संप्रसारणे पूर्वरूपे 'हलः' इति दीर्घे प्रस्ती- त इति स्थिते — Padamanjari ----------- द्वयोरप्येतयोरिति। द्वयोरपि स्यारुपस्य लाक्षणिकत्वात्। सम्प्रसारणे कृते इति। तस्यासिद्धत्वात्प्रागेव सम्प्रसारणम् । प्रस्त्य इत्येव सिद्ध इति। यथा'प्रस्त्यो' न्यतरस्याम्ऽ इत्यत्र। न चैवमुच्यमाने प्रशब्दस्यापि यो रेफस्तस्यापि प्रसङ्गः; धातोरित्यधिकारात्। प्रसंस्तीत इति।'प्रस्त्यो' न्यतरस्याम्ऽ इति मत्वमत्र न भवत्येव। तत्कथमिति। कथमयमर्थः शब्देनाभिहितो भवतीति प्रश्नः। षठ।ल्र्थे बहुव्रीहिरिति। पूर्वशब्दस्यावयववाचित्वात्, यथा -पूर्वं कायस्येति। व्यधिकरणे षष्ट।लविति। प्रपूर्वस्येति स्त्याशब्दापेक्षयावयवष्ष्ठी, स्त्य इत्येषापि यणवयवापेक्ष्या षष्ठी। यथा पुनरयमर्थःक प्रकृतोपयोगी तथा दर्शयति -तत्रेति ॥ Nyaas ----- `सामान्येन ग्रहणम्` ति। द्वयोरप्यात्त्वे कृते पूर्वस्य `धात्वादेः षः सः (6.1.62) इति सत्वे समानत्वाद्रूपस्य। लक्षणप्रतिपदोक्तपरिभाषा (व्या।प।3) च नेहोपतदिष्ठते; उभयोलक्षिणिकत्वात्। अथात्र -**संयोगादेरातो धातोर्यण्वतः** (8.2.43) इति निष्ठानत्वं कस्मान्न भवति? इत्यत आह -`सम्प्रसारणे` इत्यादि। न त्वस्य पूर्वत्रासिद्धत्वात्? पूर्वं सम्प्रसारणं क्रियत इति, तत्र कृते च यण्वत्ता नास्तीति नत्वं न भवति। `प्रस्त्य इत्येवं सिद्धे` इति। ननु चैवमुच्यमाने प्रशब्दस्यापि सम्प्रसारणं स्यात्, ततश्च प्रस्तीत इति रूपं स्यात्, तत्? किमुच्यते -प्रस्त्य इत्येवं सिद्ध इति? `अनन्त्यविकारेऽन्त्यसदेशस्य` (व्या।प।63) इति न भवत्येष दोष इति मन्यते। `इहापि यथा स्यात्` इति। कस्मात्? पुनर्न प्राप्नोति? संशब्देन व्यवहितत्वात्। किं पूर्वग्रहणे क्रियमाणे शब्दार्थं एव तथाविदो भवति येनात्रापि भवति? अथ ग्रन्थाधिक्यादर्थाधिक्यं सूचयतीत्याभिप्रायेणाह -`तत्? कथम्` इति। प्रथमकल्पं दर्शन्नाह -`प्रपूर्वस्य` इति। `षष्ठर्थे बहुव्रीहिः` इति। पूर्वशब्दोऽयमवयववचन इति षष्ठर्थे बहुव्रीहिर्भवति। अवयववाचिनि पूर्वशब्दे धातुरन्यपदार्थो नोपपद्यते। न हि धातोः प्रशब्दोऽयमवयवो भवति, अपि तु धातूपसर्गसमुदायस्य। तस्मात्? स एवान्यपदार्थो युक्त इत्याह -`प्रः पूर्वो यस्य` इत्यादि। `तदवयवस्य` इति। तस्यावयवस्तदवयव इति षष्ठीसमासः। तच्छब्देन धातूपसर्गसमुदायः परामृश्यते। `व्यधिकरणषष्ठ्यौ` इति। `प्रपूर्वस्य` इति। स्त्यावयवापेक्षया योऽयमवयवावयविसम्बन्धस्तत्र षष्ठी, `स्त्यः` इत्येषा तु यणवयवापेक्षया यः सम्बन्धस्तत्र। तेन भिन्नाभिदेयत्वात्? `सत्यः`, `प्रवूर्वस्य` इति व्यधिकरणे षष्ठ्यौ। स्यादेवम्, प्रसंस्तीत इत्यत्र प्रपूर्वसमुदायावयवः स्त्याशब्दो न सम्भवति इत्यत आह -`तत्र` इत्यादि॥